संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः| अध्यायः ६८ मध्यम भागः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ मध्यम भागः - अध्यायः ६८ ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे. Tags : brahmand puranpuranपुराणब्रह्माण्ड पुराणसंस्कृत अध्यायः ६८ Translation - भाषांतर ऋषय ऊचुःमरुतेन कथं कन्या राज्ञे दत्ता महात्मना ।किंवीर्याश्च महात्मानो जाता मरुतकन्यया ॥१॥सूत उवाचआहरत्स मरुत्सोममन्नकामः प्रजेश्वरः ।मासिमासि महातेजाः षष्टिसंवत्सरान्नृप ॥२॥तेन ते मरुतस्तस्य मरुत्सोमेन तोषिताः ।अक्षय्यान्नं ददुः प्रीताः सर्वकामपरिच्छदम् ॥३॥अन्नं तस्य सकृद्भुक्तमहोरात्रं न क्षीयते ।कोटिशो दीय मानं च सूर्यस्योदयनादपि ॥४॥मित्रज्योतेस्तु कन्याया मरितस्य च धीमतः ।तस्माज्जाता महासत्त्वा धर्मज्ञा मोक्षदर्शिनः ॥५॥संन्यस्य गृहधर्माणि वैराग्यं समुपस्थिताः ।यतिधर्ममवाप्येह ब्रह्मभूयाय ते गताः ॥६॥अनेनसः सुतो जातः क्षत्रधर्मः प्रतापवान् ।क्षत्रधर्मसुतो जातः प्रतिपक्षो महातपाः ॥७॥प्रतिपक्षसुतश्चापि सृंजयो नाम विश्रुतः ।सृंजयस्य जयः पुत्रो विजयस्तस्य जज्ञिवान् ॥८॥विजयस्य जयः पुत्रस्तस्य हर्यश्वकः स्मृतः ।इर्यश्वस्य सुतो राजा सहदेवः प्रतापवान् ॥९॥सहदेवस्य धर्मात्मा अहीन इति विश्रुतः ।अहीनस्य चयत्सेनस्तस्य पुत्रोऽथ संकृतिः ॥१०॥संकृतेरपि धर्मात्मा कृतधर्मा महायशाः ।इत्येते क्षत्रधर्माणो नहुषस्य निबोधत ॥११॥नहुषस्य तु दायादाः षडिन्द्रोपमतेजसः ।यतिर्ययातिः संयातिरायतिर्वियतिः कृतिः ॥१२॥यतिर्ज्येष्ठस्तु तेषां वै ययातिस्तु ततोऽवरः ।काकुत्स्थकन्यां गां नाम लेभे पत्नीं यतिस्तदा ॥१३॥स यतिर्मोक्षमास्थाय ब्रह्मभूतोऽभवन्मुनिः ।तेषां मध्ये तु पञ्चानां ययातिः पृथिवीपतिः ॥१४॥देवयानीमुशनसः सुतां भार्यामवाप ह ।शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः ॥१५॥यदुं च तुर्वसुं चैव देवयानो व्यजायत ।द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥१६॥अजीजनन्महावीर्यान्सुतान्देवसुतोपमान् ।रथं तस्मै ददौ शक्रः प्रीतः परमभास्वरम् ॥१७॥असंगं काञ्चनं दिव्यमक्षयौ च महेषुधी ।युक्तं मनोजवैरश्वैर्येन कन्यां समुद्वहत् ॥१८॥स तेन रथमुख्येन जिगाय सततं महीम् ।ययातिर्युधि दुर्द्धर्षो देवदानवमानवैः ॥१९॥पौरवाणां नृपाणां च सर्वेषां सोऽभवद्रथी ।यावत्सुदेशप्रभवः कौरवो जनमेजयः ॥२०॥कुरोः पौत्रस्य राज्ञरतु राज्ञः पारीक्षितस्य ह ।जगाम सरथो नाशं शापाद्गार्ग्यस्य धीमतः ॥२१॥गार्ग्यस्य हि सुतं बालं स राजा जनमेजयः ।दुर्बुद्धिर्हिंसया मास लोहगन्धी नराधिपः ॥२२॥स लोहगन्धी राजर्षिः परिधावन्नितस्ततः ।पौरजानपदैस्त्यक्तो न लेभे शर्म कर्हिचित् ॥२३॥ततः स दुःखसंतप्तो नालभत्संविदं क्वचित ।स प्रायाच्छौनकमृषिं शरणं व्यथितस्तदा ॥२४॥इन्द्रोतोनाम विख्यातो योऽसौ मुनि रुदारधीः ।योजयामास चैन्द्रोतः शौनको जनमेजयम् ॥२५॥अश्वमेधेन राजानं पावनार्थं द्विजोत्तमाः ।स लोहगन्धो व्यनशत्त स्यावभृथमेत्य ह ॥२६॥स वै दिव्यो रथस्तस्माद्वसोश्चेदिपतेस्तथा ।दत्तः शक्रेन तुष्टेन लेभे तस्माद्बृहद्रथः ॥२७॥ततो हत्वा जरासंधं भीमस्तं रथमुत्तमम् ।प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः ॥२८॥स जरां प्राप्य राजर्षिर्ययातिर्नहुषात्मजः ।पुत्रं श्रेष्टं वरिष्ठं च यदुमित्यब्रवीद्वचः ॥२९॥जरावली च मां तात पलितानि च पर्ययुः ।काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ॥३०॥त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह ।जरां मे प्रतिगृह्णीष्व तं यदुः प्रत्युवाच ह ॥३१॥अनिर्दिष्टा हि मे भिक्षा ब्राह्मणस्य प्रतिश्रुता ।सा तु व्यायामसाध्या वै न ग्रहीष्यामि ते जराम् ॥३२॥जरायां बहवो दोषाः पानभोजनकारिताः ।तस्माज्जरां न ते राजन्ग्रहीतुमहमुत्सहे ॥३३॥सितश्मश्रुधरो दीनो जरया शिथिलीकृतः ।वलीसंततगात्रश्च निराशो दुर्बलाकृतिः ॥३४॥अशक्तः कार्यकरणे परिबूतस्तु यौवने ।सहोपवीतिभिश्चैव तां जरां नाभिकामये ॥३५॥संति ते बहवः पुत्रा मत्तः प्रियतरा नृप ।प्रतिगृह्णन्तु धर्मज्ञ पुत्रमन्यं वृणीष्व वै ॥३६॥स एवमुक्तो यदुना दीव्रकोपसमन्वितः ।उवाच वदतां श्रेष्टो ज्येष्ठं तं गर्हयन्सुतम् ॥३७॥आश्रमः कस्तवान्योऽस्ति को वा धर्मविधिस्तव ।मामनादृत्य दुर्बुद्धे यदहं तव देशिकः ॥३८॥एवमुक्त्वा यदुं राजा शशापैनं स मन्युमान् ।यस्त्वं मे त्दृदयाज्जातो वयः स्वं न प्रयच्छसि ॥३९॥तस्मान्न राज्यभाङ्मूढ प्रजा ते वै भविष्यति ।तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह ॥४०॥तुर्वसुरुवाचन कामये जरां तात कामभोगप्रणाशिनीम् ।जरायां बहवो दोषाः पानभोजन कारिताः ॥४१॥तस्माज्जरां न ते राजन्ग्रहीतुमहमुत्सहे ।ययातिरुवाचयस्त्वं मे त्दृदयाज्जातो वयः स्वं न प्रयच्छसि ॥४२॥तस्मात्प्रजानु विच्छेदं तुर्वसो तव यास्यति ।संकीर्णेषु च धर्मेण प्रतिलोमनरेषु च ॥४३॥पिशिताशिषु चान्येषु मूढ राजा भविष्यसि ।गुरुदारप्रसक्तेषु तिर्यग्योनिगतेषु वा ।वासस्ते पाप म्लेच्छेषु भविष्यति न संशयः ॥४४॥सूत उवाचएवं तु तुर्वसुंशप्त्वा ययातिः सुतमात्मनः ॥४५॥शर्मिष्ठायाः सुतं द्रुह्युमिदं वचनमब्रवीत् ।द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् ॥४६॥जरा वर्षसहस्रंवै यौवनं स्वं ददस्व मे ।पूर्णे वर्षसहस्रे ते प्रतिदास्यामि यौवनम् ॥४७॥स्वं चादास्यामि भूयोऽहं पाप्मानं जरया सह ।द्रुह्युरुवाचनारोहेत रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम् ।न सुखं चास्य भवति न जरां तेन कामये ॥४८॥ययातिरुवाचयस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ॥४९॥तस्माद्द्रुह्यो प्रियः कामो न ते संपत्स्यते क्वचित् ।नौप्लवोत्तरसंचारस्तव नित्यं भविष्यति ॥५०॥अराजा राजवंशस्त्वं तत्र नित्यं वसिष्यसि ।अनो त्वं प्रतिपाद्यस्व पाप्मानं जरया सह ॥५१॥एवं वर्षसहस्रं तु चरेयं यौवनेन ते ।अनुरुवाचजीर्णः शिशुरिवाशक्तो जरया ह्यशुचिः सदा ।न जुहोति स कालेऽग्निं तां जरां नाभिकामये ॥५२॥ययातिरूवाच ।यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ॥५३॥जरादोष स्त्वयोक्तोऽयं तस्मात्त्वं प्रतिपत्स्यसे ।प्रजा च यौवनं प्राप्ता विनशिष्यत्यनो तव ॥५४॥अग्निप्रस्कन्दनपरास्त्वं वाप्येवं भविष्यसि ।पूरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह ॥५५॥जरावली च मां तात पलितानि च पर्ययुः ।काव्यस्योशनसः शापान्न च तृप्तोऽस्मियौवने ॥५६॥कञ्चित्कालं चरेयं वै विषयान्वयसा तव ।पूर्णे वर्षसहस्रे ते प्रतिदास्यामि यौवनम् ॥५७॥स्वं चैव प्रतिपत्स्येऽहं पाप्मानं जरया सह ।सूत उवाचएवमुक्तः प्रत्युवाच पुत्रः पितरमञ्जसा ॥५८॥यथा तु मन्यसे तात करिष्यामि तथैव च ।प्रतिपत्स्ये च ते राजन्पाप्मानं जरया सह ॥५९॥गृहाण यौवनं मत्तश्चर कामान्यथेप्सितान् ।जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव ॥६०॥यौवनं भवते दत्त्वा चरिष्यामि यथार्थवत् ।ययातिरुवाचपूरो प्रीतोऽस्मि भद्रं ते प्रीतश्चेदं ददामि ते ॥६१॥सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति ।सूत उवाचपूरोरनुमतो राजा ययातिः स्वजरां ततः ॥६२॥संक्रामयामास तदा प्रासादद्भार्गवस्य तु ।गौरवेणाथ वयसा ययातिर्नहुषात्मजः ॥६३॥प्रीतियुक्तो नरश्रेष्ठश्चचार विषयान्स्वकान् ।यथाकामं यथोत्साहं यथाकालं यथासुखम् ॥६४॥धर्माविरोधी राजेन्द्रो यथाशक्ति स एव हि ।देवानतर्पयद्यज्ञैः पितॄञ्श्राद्धैस्तथैव च ॥६५॥दाराननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् ।अतिथीनन्नपानैश्च वैश्यंश्च परिपालनैः ॥६६॥आनृशंस्येन शूद्रांश्च दस्यून्संनिग्रहेण च ।धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयत् ॥६७॥ययातिः पालयामास साक्षादिन्द्र इवापरः ।स राजा सिंहविक्रान्तो युवा विषयगोचरः ॥६८॥अविरोधेन धर्मस्य चचार सुखमुत्तमम् ।स मार्गमाणः कामानामतद्दोषनिदर्शनात् ॥६९॥विश्वाच्या सहितो रेमे वैब्राजे नन्दने वने ।अपश्यत्स यदा तान्वै वर्द्धमानान्नृपस्तदा ॥७०॥गत्वा पूरोः सकाशं वै स्वां जरां प्रत्यपद्यत ।संप्राप्य स तु तान्कामांस्तृप्तः खिन्नश्च पार्थिवः ॥७१॥कालं वर्षसहस्रं वै सस्मार मनुजाधिपः ।परिसंख्याय काले च कलाः काष्ठास्तथैव च ॥७२॥पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह ।यथा सुखं यथोत्साहं यथाकालमरिन्दम ॥७३॥सेविता विषयः पुत्र यौवनेन मया तव ।पूरो प्रीतोऽस्मि भद्रं ते गृहाण त्वं स्वयौवनम् ॥७४॥राज्यं च त्वं गृहाणेदं त्वं हि मे प्रियकृत्सुतः ।प्रतिपेदे जरां राजा ययातिर्नहुषात्मजः ॥७५॥यौवनं प्रतिपेदे च पूरुः स्वं पुनरात्मनः ।अभिषेक्तुकामं च नृपं पूरुं पुत्रं कनीयसम् ॥७६॥ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ।कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो ॥७७॥ज्येष्ठं यदुमतिक्रम्य राज्यं दास्यसि पूरवे ।यदुर्ज्येष्ठस्तव सुतो जातस्तमनुदतुर्वसुः ॥७८॥शर्मिष्ठायाः सुतो द्रुह्युस्ततोऽनुः पूरुरेव च ।कथं ज्येष्ठानतिक्रम्य कनीयान्राज्यमर्हति ।सुतः संबोधयामस्त्वां धर्मं समनुपालय ॥७९॥ययातिरुवाचब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः ॥८०॥ज्येष्ठं प्रति यथा राज्यं न देयं मे कथञ्चन ।मातापित्रोर्वचनकृद्वीरः पुत्रः प्रशस्यते ॥८१॥मम ज्येष्ठेन यदुना नियोगो नानुपालितः ।प्रतिकूलः पितुर्यश्च न स पुत्रः सतांमतः ॥८२॥स पुत्रः पुत्रवद्यश्च वर्त्तते पितृमातृषु ।यदुनाहमवज्ञातस्तथा तुर्वसुनापि च ॥८३॥द्रुह्युना चानुना चैव मय्यवज्ञा कृता भृशम् ।पूरुणा तु कृतं वाक्यं मानितश्च विशेषतः ॥८४॥कनीयान्मम दायादो जरा येन धृता मम ।सर्वे कामा मम कृताः पूरुणा पुण्यकारिणा ॥८५॥शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम् ।पुत्रो यस्त्वानुवर्त्तेत स राजा तु महामते ॥८६॥प्रजा ऊचुःभवतोऽनुमतोऽप्येवं पूरू राज्येऽभिषिच्यताम् ।यः पुत्रो गुणसंपन्नो मातापित्रोर्हितः सदा ॥८७॥सर्वमर्हति कल्याणं कनीयानपि स प्रभुः ।अर्हेऽस्य पूरू राज्यस्य यः प्रियः प्रियकृत्तव ॥८८॥वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम् ।पौरजान पदैस्तुष्टैरित्युक्ते नाहुषस्तदा ॥८९॥अभिषिच्य ततः पूरुं स राज्ये सुतमात्मनः ।दिशि दक्षिणपूर्वस्यां तुर्वसुं तु न्यवेशयत् ॥९०॥दक्षिणापरतो राजा यदुं ज्येष्ठं न्यवेशयत् ।प्रतीच्यामुत्तरस्यां च द्रुह्युं चानुं च तावुभौ ॥९१॥सप्तद्वीपां ययातिस्तु जित्वा पृथ्वीं ससागराम् ।व्यभजत्पञ्चधा राजा पुत्रेभ्यो नाहुषस्तदा ॥९२॥तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना ।यथाप्रदेशं धर्मज्ञैर्धर्मेण प्रतिपान्यते ॥९३॥एवं विभज्य पृथिवीं पुत्रेभ्यो नाहुषस्तदा ।पुत्रसंक्रामितश्रीस्तु प्रीतिमा नभवन्नृपः ॥९४॥धनुर्न्यस्य पृषत्कांश्च राज्यं चैव सुतेषु तु ।प्रीतिमानभवद्राजा भारमावेश्य बन्धुषु ॥९५॥अत्र गाथा महाराज्ञा पुरा गीता ययातिना ।याभिः प्रत्याहरेत्कामात्कूर्मौंऽगानीव सर्वशः ॥९६॥न जातु कामः कामानमुपभोगेन शाम्यति ।हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते ॥९७॥यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति ॥९८॥यदा न कुरुते भावं सर्वभूतेष्वमङ्गलम् ।कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥९९॥यदा परान्न बिभेति यदान्यस्मान्न बिभ्यति ।यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा ॥१००॥या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।यैषा प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥१०१॥जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः ।जीविताशा धनाशा च जीर्यतोऽपि न जीर्यति ॥१०२॥यच्च कामसुखं लोके यच्छ दिव्यं महत्सुखम् ।कृष्णाक्षयसुखस्यैतत्कलां नर्हन्ति षोडशीम् ॥१०३॥एवमुक्त्वा स राजर्षिः सदारः प्रस्थितो वनम् ।भृगुतुङ्गे तपस्तप्त्वा तत्रैव च महायशाः ॥१०४॥पालयित्वा व्रतं चार्षं तत्रैव स्वर्ग माप्तवान् ।तस्य वंशास्तु पञ्चैते पुण्या देवर्षिसत्कृताः ॥१०५॥यैर्व्याप्ता पृथिवी कृत्स्ना सूर्यस्येव गभस्तिभिः ।धन्यः प्रजावा नायुष्मान्कीर्त्तिमांश्च भवेन्नरः ॥१०६॥ययातेश्चारितं सर्वं पठञ्छृण्वन्द्विजोत्तमाः ॥१०७॥इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे अष्टषष्टितमोऽध्यायः॥६८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP