संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः|
अध्यायः ४१

मध्यम भागः - अध्यायः ४१

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


वसिष्ठ उवाच
दृष्ट्वा पितुर्वधं घोरं तत्पुत्रास्ते शतं त्वरा ।
वारयामासुरत्युग्रं भार्गवं स्वबलेः पृथक् ॥१॥

एकैकाक्षैहिणीयुक्ताः सर्वे ते युद्धदुर्मदाः ।
संग्रामं तुमुलं चक्रुः संरब्धास्तु पितुर्वधात् ॥२॥

रामस्तु दृष्ट्वा तत्पुत्राञ्छूरान्रणविशारदान् ।
परश्वधं समादाय युयुधे तैश्च संगरे ॥३॥

तां सेनां भगवान्रामः शताक्षौहिणिसंमिताम् ।
निजघान त्वरायुक्तो मुहुर्त्तद्वयमात्रतः ॥४॥

निःशेषितं स्वसैन्यं तु कुठारेणैव लीलया ।
दृष्ट्वा रामेण तेसर्वे युयुधुर्वीर्यसंमताः ॥५॥

नानाविधानि दिव्यानि प्रहरन्तो महोजसः ।
परितो मण्डलं चक्रुर्भार्गवस्य महात्मनः ॥६॥

अथ रामोऽपि बलवांस्तेषां मण्डलमध्यगः ।
विरेजे भगवान्साक्षाद्यथा नाभिस्तु चक्रगा ॥७॥

नृत्यन्निवाचौ विरराज रामः शतं पुनस्ते परितो भ्रमन्तः ।
रेजुश्च गोपी गणमध्यसंस्थः कृष्णो यथा ताः परितो भ्रमन्त्यः ॥८॥

तदा तु सर्वे द्रुहिणप्रधानाः समागताः स्वस्वविमानसंस्थाः ।
समाकिरन्नन्दनमाल्यवर्षैः समन्ततो राममहीनवीर्यम् ॥९॥

यः शस्त्रपादादुदतिष्ठत ध्वनिर्हुंकारगर्भो दिवमस्पृशन्स वै ।
तौर्यत्रिकस्येव शरक्षतानि भान्तीव यद्वन्नखदन्तपाताः ॥१०॥

क्रन्दन्ति शस्त्रैः क्षतविक्षताङ्गा गायन्ति यद्वत्किल गीतविज्ञाः ।
एवं प्रवृत्तं नृपयुद्धमण्डलं पश्यन्ति देवा भृशविस्मिताक्षः ॥११॥

ततस्तु रामोऽवनिपालपुत्राञ्जिघांसुराजौ विविधास्त्रपूगैः ।
पृथक्चकारातिब लांस्तु मण्डलद्विच्छिद्य पङ्क्तिं प्रभुरात्तचापः ॥१२॥

एकैकशस्तान्निजघान वीराञ्छतं तदा पञ्च ततः पलायिताः ।
शूरो वृषास्यो वृषशूरसेनौ जयध्वजश्चापि विभिन्नधैर्याः ॥१३॥

महाभयेनाथ परीतचिता हिमाद्रिपादान्तरकाननं च ।
पृथग्गतास्ते सुपरीप्सवो नृपा न कोऽपि कांस्विद्ददृशे भृशार्त्तः ॥१४॥

रामोऽपि हत्वा नृपचक्रमाजौ राज्ञः सहायर्थमुपागतं च ।
समन्वितोऽसावकृतव्रणेन सस्नौ मुदागत्य च नर्मदायाम् ॥१५॥

स्रात्वा नित्यक्रियां कृत्वा संपूज्य वृषभध्वजम् ।
प्रतस्थे द्रष्टुमुर्वीश शिवं कैलासवासिनम् ॥१६॥

गुरुपत्नीमुमां चापि सुतौ स्कन्दविनायकौ ।
मनोयायी महात्मासावकृतव्रणसंयुतः ॥१७॥

कृतकार्यो मुदा युक्तः कैलासं प्राप्य तत्क्षणम् ।
ददर्श तत्र नगरीं महतीमलकाभिधम् ॥१८॥

नानामणिगणाकीर्णभवनैरुपशोभिताम् ।
नानारुपधरैर्यक्षैः शोभितां चित्रभूषणैः ॥१९॥

नानावृक्षसमाकीणैर्वनैश्चोपवनैर्युताम् ।
दीर्घिकाभिः सुदीर्घाभिस्तडागैश्चोपशोभिताम् ॥२०॥

सर्वतोऽप्यावृतां बाह्ये सीतयालकनन्दया ।
तत्र देवाङ्गनास्नानमुक्तकुङ्कुमपिञ्जरम् ॥२१॥

तृषाविर हिताश्चांभः पिबन्ति करिणो मुदा ।
यत्र संगीतसंनादा श्रूयन्ते तत्रतत्र ह ॥२२॥

गन्धर्वैरप्सरोभिश्च सततं सहकारिभिः ।
तां दृष्ट्वा भार्गवो राजन्मुदा परमया युतः ॥२३॥

ययौ तदूर्ध्वं शिखरं यत्र शेवपरं गृहम् ।
ततो ददर्श राजेन्द्र स्निग्धच्छायं महावटम् ॥२४॥

तस्याधस्ताद्वरावासं सुसेव्यं सिद्धसंयुतम् ।
ददर्ंश तत्र प्राकारं शतयोजनमण्डलम् ॥२५॥

नानारत्नाचितं रम्यं चतुर्द्वारं गणावृतम् ।
नन्दीश्वरं महाकालं रक्ताक्षं विकटोदरम् ॥२६॥

पिङ्गलाक्षं विशालाक्षं विरूपाक्षं घटोदरम् ।
मन्दारं भैरवं बाणं रुरुं भैरवमेव च ॥२७॥

वीरकं वीरभद्रं च चण्डं भृङ्गिं रिटिं मुखम् ।
सिद्धेन्द्रनाथरुद्रांश्च विद्याधरमहोरगान् ॥२८॥

भूतप्रेतपिशाचांश्च कूष्माण्डान्ब्रह्मराक्षसान् ।
वेतालान्दानवेन्द्रांश्च योगीन्द्रांश्च जटाधरान् ॥२९॥

यक्षकिंपुरुषांश्चैव डाकिनीयो गिनीस्तथा ।
दृष्ट्वा नन्द्या५ आ तत्र प्रविष्टोऽन्तर्मुदान्वितः ॥३०॥

ददर्श तत्र भुवनैरावृतं शिवमन्दिरम् ।
चतुर्योजनविस्तीर्णं तत्र प्राग्द्वारसंस्थितौ ॥३१॥

दृष्ट्वा वामे कार्त्तिकेय दक्ष चैव विनायकम् ।
ननाम भार्गवस्तौ द्वौ शिवतुल्यपराक्रमौ ॥३२॥

पार्षदप्रवरास्तत्र क्षेत्रपालाश्च संस्थिताः ।
रत्नसिंहासनस्थाश्च रत्नभूषमभूषिताः ॥३३॥

भार्गवं प्रविशन्तं तु ह्यपृच्छञ्शिवमन्दिरम् ।
विनायको महाराज क्षणं तिष्ठेत्युवाच ह ॥३४॥

निद्रितो ह्युमया युक्तो महादेवोऽधुनेति च ।
ईश्वराज्ञां गृहीत्वाहमत्रागत्यक्षणान्तरे ॥३५॥

त्वया सार्द्धं प्रवेक्ष्यामि भ्रातस्तिष्ठात्र सांप्रतम् ।
विनायकचश्चैवं श्रुत्वा भार्गवनन्दनः ॥३६॥

प्रवक्तुमुपचक्राम गणेशं त्वरयान्वितः ।
राम उवाच
गत्वा ह्यन्तःपुरं भ्रातः प्रणम्य जगदीश्वरौ ॥३७॥

पार्वतीशङ्करौ सद्यो यास्यामि निजमन्दिरम् ।
कार्त्तवीर्यः सुचन्द्रश्च सपुत्रबलबान्धवः ॥३८॥

अन्ये सहस्रशो भूपाः कांबोजाः पङ्लवाः शाकाः ।
कान्यकुब्जाः कोशलेशा मायावन्तो महाबलाः ॥३९॥

निहताः समरे सर्वे मया शंभुप्रसादतः ।
तमिमं प्रणिपत्यैव यास्यामि स्वगृहं प्रति ॥४०॥

इत्युक्त्वा भार्गवस्तत्र तस्थौ गणपतेः पुरः ।
प्रोवाच मधुरं वाक्यं भार्गवे स गणाधिपः ॥४१॥

विनायक उवाच
ज्ञणं तिष्ट महाभाग दर्शनं ते भविष्यति ।
अद्य विश्वेश्वरो भ्रातर्भवान्या सह वर्त्तते ॥४२॥

स्त्रीपुंसोर्युक्त योस्तात सहैकासनसंस्थयोः ।
करोति सुखभङ्गं यो नरकं स व्रजेद्ध्रुवम् ॥४३॥

विशेषतस्तु पितरं गुरुं वा भूपतिं द्विजः ।
र७ यं समुपासिनं न पश्येदिति निश्चयः ॥४४॥

कामतोऽकामतो वापि पश्येद्यः सुरतोन्मुखम् ।
स्त्रीविच्छेदो भवेत्तस्य ध्रुवं सप्रसु जन्मसु ॥४५॥

श्रोणिं वक्षः स्थलं वक्त्रं यः पश्यति परस्त्रियः ।
मातुर्वापि भगिन्या वा दुहितुः स नराधमः ॥४६॥

भार्गव उवाच
अहो श्रुतमपूर्वं किं वचनं तव वक्त्रतः ।
ब्रान्त्या विनिर्गतं वापि हास्यार्थमथवोदितम् ॥४७॥

कामिनां सविकाराणामेतच्छास्त्रनिदर्शनम् ।
निर्विकारास्य च शिशोर्न दोषः कश्चिदेव हि ॥४८॥

यास्याम्यन्तः पुरं भ्रातस्तव किं तिष्ठ बालक ।
यथादृष्टं करिष्यामि तत्र यत्समयोचितम् ॥४९॥

तत्रैव माता तातश्च त्वया नाम निरूपितौ ।
जगतां पितरौ तौ च पार्वतीपरमेश्वरौ ॥५०॥

इत्युक्त्वा भार्गवो राजन्नन्तर्गन्तुं समुद्यतः ।
विनायकस्तदोत्थाय वारयामास सत्वरम् ॥५१॥

वाग्युद्धं च तयोरासीन्मिथो हस्तविकर्षणम् ।
दृष्ट्वा सकन्दस्तु संभ्रान्तो बोधयामास तौ तदा ॥५२॥

बाहुभ्यां द्वौ समुद्गृह्य पृथगुत्सारितौ तथा ।
अथ क्रुद्धो गणेशाय भार्गवः परवीरहा ।
परश्वधं समादाय सप्रक्षेप्तुं समुद्यतः ॥५३॥

तं दृष्ट्वा गजाननो भृगुवरं क्रोधात्क्षिपन्तं त्वरा स्वात्मार्थं परशुं तदा निजकरेणोद्धृत्य वेगेन तु ।
भूर्लोकं भुवः स्वरपि तस्योर्ध्वं महर्वैजनं लोकं चापि तपोऽथ सत्यमपरं वैकुण्ठमप्यानयत् ॥५४॥

तस्योर्ध्वं च विदर्शयन्भृगुवरं गोलोकमीशात्मजो निष्पात्याधरलोकसप्तक मपीत्थं दर्शयामास च ।
उद्धृत्याथ ततो हि गर्भसलिले प्रक्षप्तमात्रं त्वरा भीतं प्राणपरिप्सुमानयदथो तत्रैव यत्रास्थितः ॥५५॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे भार्गवचरिते एकचत्वारिंशत्तमोऽध्यायः॥४१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP