मध्यम भागः - अध्यायः ४८
ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.
जैमिनिरुवाच
गते तस्मिन्मुनिवरे सगरो राजसत्तमः ।
अयोध्यायामधिवस्न्पालयामास मेदिनीम् ॥१॥
सर्वसंपद्गणोपेतः सर्वधर्मार्थतत्त्ववित् ।
वयसैव स बालोऽभूत्कर्मणा वृद्धसंमतः ॥२॥
तथापि न दिवा भुक्तें शेते वा निशि संस्मरन् ।
सुदीर्घं निःश्वसित्युष्णमुद्विग्नहृदयोऽनिशम् ॥३॥
श्रुत्वा राजा स्वराज्यं निजगुरुमवजित्यारिभिः संगृहीतं मात्रा सार्द्धं प्रयान्तं वनमतिगहनंस्वर्गतं तं च तस्मिन् ।
शोकाविष्टः सरोषं सकलरिपुकुलोच्छित्तये सत्प्रतिज्ञश्चके सद्यः प्रतिज्ञां परिभवमनलं सोढुमिक्ष्वाकुवंश्यः ॥४॥
स कदाचिन्महीपालः कृतकौतुकमङ्गलः ।
रिपुं जेतुं मनश्चक्रे दिशश्च सकलाः क्रमात् ॥५॥
अनेकरथसाहस्रैर्गजाश्वरथसैनिकैः ।
सर्वतः संवृतो राजा निश्चक्राम पुरोत्तमात् ॥६॥
शत्रून्हन्तुं प्रतस्थे निजबलनिवहेनोत्पतद्भिस्तुरङ्गैर्नासत्त्वोर्मिजालाकुलजलनिधिनिभेनाथ षाडङ्गिकेन ।
मत्तैर्मातङ्गयूथैः सकुलगिरिकुलेनैव भूमण्डलेन श्वेतच्छत्रध्वजौघैरपि शशिसुकराभातखेनैव सार्द्धम् ॥७॥
तस्याग्रेसरसैन्ययूथचरणप्रक्षुण्णशैलोच्चयक्षोदापूरितनिम्नभागमवनीपालस्य संयास्यतः ।
प्रत्येकं चतुरङ्गसैन्यनिकरप्रक्षोदसंभूतभूरेणुप्रावृतिरुत्स्थली समभवद्भूमिस्तु तत्रानिशम् ॥८॥
निघ्नन्दृप्ताननेकान्द्विपतुरगरथव्यूहसंभिन्नवीरान्सद्यः शोभां दधानोऽसुरनिकरचमूर्निघ्नतश्चन्द्रमौलिः ।
दूरादेवाभिशंसन्नरिनगरनिरोधेषु कर्माभिषङ्गे तेषां शीघ्रापयानक्षणमभिदिशति प्राणिधैर्यं विधत्ते ॥९॥
विजिगीषुर्दिशो राजा राज्ञो यस्याभियास्यति ॥१०॥
विषयं स नृपस्तस्य सद्यः प्रणतिमेष्यति ।
विजित्य नृपतीन्सर्वान्कृत्वा च स्वपदानुगान् ॥११॥
संकेत गामिनः कांश्चित्कृत्वा राज्ये न्यवर्त्तत ।
एवं स विसरन्दिक्षु दक्षिणाभिमुखो नृपः ॥१२॥
स्मरन्पूर्वकृतं वैरं हैहयानभ्यवर्त्तत ।
ततस्तस्य नृपैः सार्द्धं समग्ररथकुञ्जरैः ॥१३॥
बभूव हैहयैर्वीरैः संग्रामो रोमहर्षणः ।
राज्ञां यत्र सहस्राणि स बलानि महाहवे ॥१४॥
निजघान महाबाहुः संक्रुद्धः कोसलेश्वरः ।
जित्वा हैहयभूपालान्भङ्क्त्वा दग्ध्वा च तत्पुरीम् ॥१५॥
निःशेषशून्या मकरोद्वैरान्तकरणो नृपः ।
समग्रबलसंमर्द्दप्रमृष्टाशेषभूतलः ॥१६॥
हैहयानामशेषं तु चक्रे राज्यं रजःसमम् ।
राज्यं पुरीं चापहाय भ्रष्टैश्वर्या हतत्विषः ॥१७॥
राजानो हतभूयिष्ठा व्यद्रवन्त समन्ततः ।
अभिद्रुत्य नृपांस्तांस्तु द्रवमाणान्महीपतिः ॥१८॥
जघान सानुगान्मत्तः प्रजाः क्रुद्ध इवान्तकः ।
ततस्तान्प्रति सक्रोधः सगरः समरेऽरिहा ॥१९॥
मुमोचास्त्रं महारौद्रं भार्गवं रीपुभीषणम् ।
तेनोत्सृष्टातिरौद्रत्रिभुवनभयदप्रस्फुरद्भार्गवास्त्रज्वालादन्दह्यमानावशतनुततयस्ते नृपाः साद्य एव ।
वाय्वस्त्रावृत्तधूमोद्गमपटलतमोमुष्टदृष्टिप्रसारा भ्रेमुर्भूपृष्टलोठद्बहुलतमरजोगूढमात्रा मुहूर्त्तम् ॥२०॥
आगनेयास्त्रप्रतापप्रतिहतगतयोऽदृष्टमार्गाः समन्ता द्भूपाला नष्टसंघाः परवशतनवो व्याकुलीभूतचित्ताः ।
भीताः संत्युक्तवस्त्रायुधकवचविभूषादिका मुक्तकेशा विस्पष्टोन्मत्तभावान्भृश तरमनुकुर्वन्त्यग्रतः शात्रवाणाम् ॥२१॥
विजित्य हैहयान्सर्वान्समरे सगरो बली ।
संक्षुब्धसागराकारः कांबोजानभ्यवर्त्तत ॥२२॥
नानावादित्रघोषाहतपटहरवाकर्णनध्वस्तधैर्याः सद्यः संत्यक्तराज्यस्वबलपुरपुरन्ध्रीसमूहा विमूढाः ।
कांबोजास्तालजङ्घाः शकयवनकिरातादयः साकमेते भ्रेमुर्भूर्यस्त्रभीत्या दिशि दिशि रिपवो यस्य पूर्वापराधाः ॥२३॥
भीतास्तस्य नरेश्वरस्य रिपवः केचित्प्रता पानलज्वालामुष्टदृशो विसृज्य वसतिं राज्यं च पुत्रादिभिः ।
द्विट्सैन्यैः समभिद्रुता वनभुवं संप्राप्य तत्रापि तेऽस्तैमित्यं समुपागता गिरिगुहासुप्तोत्थितेन द्विषः ॥२४॥
तालजङ्घान्निहत्याजौ राजा स बलवाहनान् ।
क्रमेण नाशयामास तद्राज्यमरिकर्षणः ॥२५॥
ततो यवनकांबोजकिरातादीननेकशः ।
निजघान रुषाविष्टः पल्हवान्पारदानपि ॥२६॥
हन्यमानास्तु ते सर्वे राजानस्तेन संयुगे ।
दुद्रुवुः संघशो भीता हतशिष्टाः समन्ततः ॥२७॥
युष्माभिर्यस्य राज्यं बहुभिरपत्दृतं तस्य पुत्रोऽधुनाहं हन्तुं वः सप्रतिज्ञं प्रसभमुपगतो वैरनिर्यातनैषी ।
इत्युच्चैः श्रावयाणो युधि निजचरितं वैरिभिर्नागवीर्यः क्षत्रैर्विध्वंसितेजाः सगरनरपतिः स्मारयामास भूपः ॥२८॥
तं दृष्ट्वा राजवर्यं सकलरिपुकुलप्रक्षयोपात्तदीक्षं भीताः स्त्रीबालपूर्वं शरणमभिययुः स्वासुसरक्षणाय ।
इक्ष्वाकूणां वसिष्ठं कुलगुरुमभितः सप्त राज्ञां कलेषु प्रख्याताः संप्रसूता नृपवररिपवः पारदाः पल्हवाद्याः ॥२९॥
वसिष्ठमाश्रमोपान्ते वसंतमृषिभिर्वृतम् ।
उपगम्याब्रुवन्सर्वे कृताञ्जलिपुटा नृपाः ॥३०॥
शरणं भंव नो ब्रह्मन्नार्त्तानामभयैषिणाम् ।
सगरास्त्राग्निनिर्दग्धशरीराणां मुमूर्षताम् ॥३१॥
स हन्त्यसमानशेषेण वैरान्तकरणोन्मुखः ।
तस्माद्भयाद्धि निष्क्रान्ता वयं जीवितकाङ्क्षिणः ॥३२॥
विभिन्नराज्यभोगर्द्धिस्वदारापत्यबान्धवाः ।
केवलं प्राणरक्षार्थं त्वां त्वयं शरणं गतः ॥३३॥
न ह्यन्योऽस्ति पुमांल्लोके सौहृदेन बलेन वा ।
यस्तं निवर्त्तयित्वास्मान्पालयेन्महतो भयात् ॥३४॥
त्वं किलार्कान्वयभुवां राज्ञां कुलगुरुर्वृतः ।
तद्वंशपूर्वजैर्भूपैस्त्वतप्रभावश्च तादृशः ॥३५॥
तेनायं सगरोऽप्यद्य गुरुगौरवयन्त्रितः ।
भवन्निदेशं नात्येति वेलामिव महोदधिः ॥३६॥
त्वं नः सुहृत्पिता माता लोकानां च गुरुर्विभो ।
तस्मादस्मान्महाभाग परित्रातुं त्वमर्हसि ॥३७॥
जैमिनिरुवाच
इति तेषां वचः श्रुत्वा वसिष्ठो भगवानृषिः ।
शनैर्विलोकयामास शरणं समुपागतान् ॥३८॥
वृद्धस्त्रीबालभूयिष्ठान्हतशेषान्नृपान्वयान् ।
दृष्ट्वा त्वतप्यद्भगवान्सर्वभूतानुकंपकः ॥३९॥
चिरं निरूप्य मनसा तान्विलोक्य च सादरम् ।
उज्जीवयञ्छनैर्वाचा मा भैष्टेति महामतिः ॥४०॥
अथावोचन्महाभागः कृपया परयान्वितः ।
समये स्थापयामास राज्ञस्ताञ्जीवितार्थिनः ॥४१॥
भूपव्या कोपदग्धं नृपकुलविहिताशेषधर्मादपेतं कृत्वा तेषां वसिष्ठः समयमवनिपालप्रतिज्ञानिवृत्त्यै ।
गत्वा तं राजवर्यं स्वयमथ शनकैः सांत्वयित्वा यथावत्सप्राणानामरीणामपगमनविधावभ्यनुज्ञां ययाचे ॥४२॥
सक्रोधोऽपि महीपतिर्गुरुवचः संभावयंस्तानरीन्धर्मस्य स्वकुलोचितस्य च तथा वेषस्य संत्यागतः ।
श्रौतस्मार्त्तविभिन्नकर्मनिरतान्विप्रैश्च दूरोञ्झितान्सासून्केवलमत्यजन्मृतसमानेकैकशः पार्थिवान् ॥४३॥
अर्द्धमुण्डाञ्छकांश्चक्रे पल्हवान् श्मश्रुधारिणः ।
यवनान्विगतश्मश्रून्कांबोजांश्चबुकान्वितान् ॥४४॥
एवं विरूपानन्यांश्च स चकार नृपान्वयान् ।
वेदोक्तकर्मनिर्मुक्तान्विप्रैश्च परिवर्जितान् ॥४५॥
कृत्वा संस्थाप्य समये जीवतस्तान्व्य सर्जयत् ।
ततस्ते रिपवस्तस्य त्यक्तस्वाचारलक्षणाः ॥४६॥
व्रात्यतां समनुप्राप्ताः सर्ववर्णविनिन्तिताः ।
धिक्कृता सततं सर्वेनृशंसा निरपत्रपाः ॥४७॥
क्रूराश्च संघशो लोके बभूवुर्म्लेछजातयः ॥४८॥
मुक्तास्तेनाथ राज्ञा शकयवनकिरातादयः सद्य एव त्यक्तस्वाचारवेषा गिरिगहनगुहाद्याशयाः संबभूवुः ।
एता अद्यापि सद्भिः सततमवमता जातयोऽसत्प्रवृत्त्या वर्त्तन्ते दुष्टचेष्टा जगति नरपतेः पालयन्तः प्रतिज्ञाम् ॥४९॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे सगरोपाख्याने सगरप्रतिज्ञापालनं नामाष्टाचत्वारिंशत्तमोऽध्यायः॥४८॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP