मध्यम भागः - अध्यायः ५१
ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.
सगर उवाच
कुशलं मम सर्वत्र महर्षे नात्र संशयः ।
यस्य मे त्वमनुध्याता शमं भार्गवसत्तमः ॥१॥
यस्तथा शिक्षितः पूर्वमस्त्रे शस्त्रे च सांप्रतम् ।
सोऽहं कथमशक्तः स्यां सकलारिविनिग्रहे ॥२॥
त्वं मे गुरुः सुहृद्दैवं बन्धुर्मित्रं च केवलम् ।
न ह्यन्यमभिजानामि त्वामृते पितरं च मे ॥३॥
त्वयोपदिष्टेनास्त्रेण सकला भूभृतो मया ।
विजिता यदनुस्मृत्या शक्तिः सा तपसस्तव ॥४॥
तपसा त्वं जगत्सर्वं पुनासि परिपासि च ।
स्रष्टुं संहर्त्तुमपि च शक्नोष्येव न संशयः ॥५॥
महाननन्यसामान्यप्रभावस्तपसश्च ते ।
इह तस्यैकदेशोऽपि दृश्यते विस्मयप्रदः ॥६॥
पश्यसिंहासने बाल्यादुपेत्य मृगपोतकः ।
पिबत्यंभः शनैर्ब्रह्मन्निःशङ्कं ते तपोवने ॥७॥
धयत्यत्रातिविस्रंभात्कृशापि हरिणी स्तनम् ।
करोति मृगशृङ्गाग्रे गण्डकण्डूयनं रुरुः ॥८॥
नवप्रसूतां हरिणीं हत्वा वृत्त्यै वनान्तरे ।
व्याघ्री त्वत्तपसावासे सैव पुष्णाति तच्छिशून् ॥९॥
गजं द्रुतमनुद्रुत्य सिंहो यस्मादिदं वनम् ।
प्रविष्टोऽनुसरन्तौ त्वद्भयादेकत्र तिष्ठतः ॥१०॥
नकुलस्त्वाशुमार्जारमयूरशशपन्नगाः ।
वृकसूकरशार्दूलशरभर्क्षप्लवङ्गमाः ॥११॥
सृगाला गवयागावो हरिणा महिषास्तथा ।
वनेऽत्र सहजं वैरं हित्वा मैत्रीमुपागताः ॥१२॥
एवंविधा तपःशक्तिर्लोकविस्मयदायिनी ।
न क्वापि दृश्यते ब्रह्मंस्त्वामृते भुवि दुर्लभा ॥१३॥
अहं तु त्वत्प्रसादेन विजित्य वसुधामि माम् ।
रिपुभिः सह विप्रर्षे स्वराज्यं समुपागतः ॥१४॥
वश्यामात्यस्त्रिवर्गेऽपि यथायोग्यकृतादरः ।
त्वयोपदिष्टमार्गेण सम्यग्राज्यमपालयम् ॥१५॥
एवं प्रवर्त्तमानस्य मम राज्येऽवतिष्ठतः ।
भवद्दिदृक्षा संजाता सापेक्षा भृगुपुङ्गव ॥१६॥
किं त्वद्य मयि पर्याप्तमनपत्यतयैव मे ।
पितृपिण्डप्रदानेन सह संरक्षणं भुवः ॥१७॥
तदिदं दुःशमत्यर्थमनिवार्यं मनोगतम् ।
नानयोऽपहर्त्तां लोकंऽस्मिन्ममेति त्वामुपागतः ॥१८॥
इत्युक्तः सगरेणाथ स्थित्वा सोऽतर्मनाः क्षणम् ।
उवाच भगवानौर्वः सनिदेशमिदं वचः ॥१९॥
नियम्य सह भार्याभ्यां किञ्चित्कालमिहावस ।
अवाप्स्यति ततोऽभीष्टं भवान्नात्र विचारमा ॥२०॥
स च तत्रावसत्प्रीतस्तच्छुश्रूषापरायमः ।
पत्नीभ्यां सह धर्मात्मा भक्तियुक्तश्चिरं तदा ॥२१॥
राजपत्न्यौ च ते तस्य सर्वकालमतन्द्रिते ।
मुनेरतनुतां प्रीतिं विनयाचारभक्तिभिः ॥२२॥
भक्त्या शुश्रूषया चैव तयोस्तुष्टो महामुनिः ।
राजपत्न्यौ समाहूय इदं वचनम ब्रवीत् ॥२३॥
भवत्यौ वरमस्मत्तो व्रियतां काममीप्सितम् ।
दास्यामि तं न संदेहो यद्यपि स्यात्सुदुर्ल्लभम् ॥२४॥
ततः प्रणम्यशिरसा तेऽप्युभे तं महामुनिम् ।
ऊचतुर्भगवान्पुत्रान्कामयावेति सादरम् ॥२५॥
ततस्ते भगवानाह भवतीभ्यां मया पुनः ।
राज्ञश्चप्रियकामेन वरो दत्तोऽयमीप्सितः ॥२६॥
पुत्रवत्यौ महाभागे भवत्यौ मत्प्रसादतः ।
भवेतां ध्रुवमन्यच्च श्रूयतां वचनं मम ॥२७॥
पुत्रो भविष्यत्येकस्यामेकः सोऽनतिधार्मिकः ।
तथापि तस्य कल्पान्तं संभूतिश्च भविष्यति ॥२८॥
षष्टिः पुत्रसहस्राणामपरस्यां च जायते ।
अकृतार्थाश्च ते सर्वे विनङ्क्ष्यन्त्यचिरादिव ॥२९॥
एवंविधगुणेपेतो वरौ दत्तौ मया युवाम् ।
अभीप्सितं तु यद्यस्याः स्वेच्छया तत्प्रकीर्त्यताम् ॥३०॥
एवमुक्ते तु मुनिना वैदर्भ्यान्वयवर्द्धनम् ।
वरयामास तनयं पुत्रानन्यास्तथा परा ॥३१॥
इति दत्त्वा वरं राज्ञे सगराय महामुनिः ।
सभार्यामनुमान्यैनं विससर्ज पुरीं प्रति ॥३२॥
मुनिना समनुज्ञातः कृत कृत्यो महीपतिः ।
रथमारुह्य वेगेन सप्रियः प्रययौ पुरीम् ॥३३॥
स प्रविश्य पुरीं रम्यां त्दृष्टपुष्टजनावृताम् ।
आनन्दितः पौरजनै रेमे परमया मुदा ॥३४॥
एतस्मिन्नेव काले तु राजपत्न्यावुभे नृप ।
राज्ञे प्रावोचतां गर्भं मुदा परमया युते ॥३५॥
ववृधे च तयोर्गर्भः शुक्लपक्षे यथोडुराट् ।
सह संतोषसंपत्त्या पित्रोः पौरजनस्य च ॥३६॥
संपूर्णे तु ततः काले मुहूर्ते केशिनीशुभे ।
असूयताग्निगर्भाभं कुमारममितद्युतिम् ॥३७॥
जातकर्मादिकं तस्य कृत्वा चैव यथाविधि ।
असमञ्चस इत्येव नाम तस्या करोन्नृपः ॥३८॥
सुमतिश्चापि तत्काले गर्भालाबमसूयत ।
संप्रसूतं तु तं त्यक्तं दृष्ट्वा राजाकरोन्मनः ॥३९॥
तज्ज्ञात्वा भगवानौर्वस्तत्रागच्छद्यदृच्छया ।
सम्यक्संभावितो राज्ञा तमुवाच त्वरान्वितः ॥४०॥
गर्भालाबुरयं राजन्न त्यक्तुं भवतार्हति ।
पुत्राणां षष्टिसाहस्रबीजभूतो यतस्तव ॥४१॥
तस्मात्तत्सकलीकृत्य घृतकुंभेषु यत्नतः ।
निःक्षिप्य सपिधानेषु रक्षणीयं पृथक्पृथक् ॥४२॥
सम्यगेवं कृते राजन्भवतो मत्प्रसादतः ।
यथोक्तसंख्या पत्राणां भविष्यति न संशयः ॥४३॥
काले पूर्णे ततः कुम्भान्भित्त्वा निर्यान्ति ते पृथक् ।
एवं ते षष्टिसाहस्रं पुत्राणां जायते नृप ॥४४॥
इत्युक्त्वा भगवानौर्वस्तत्रैवान्तरधाद्विभुः ।
राजा च तत्तथा चक्रे यथौर्वेण समीरितम् ॥४५॥
ततः संवत्सरे पूर्णे घृतकुंभात्क्रमेण ते ।
भित्त्वाभित्त्वा पुनर्जज्ञुः सहसैवानुवासरम् ॥४६॥
एवं क्रमेण संजातास्तनयास्ते महीपते ।
ववृधुः संघशो राजन्षष्टिसाहस्रसंख्याया ॥४७॥
अपृथग्धर्मचरणा महाबलपराक्रमाः ।
बभूवुस्ते दुराधर्षाः क्रूरात्मानो विशेषतः ॥४८॥
स नातिप्रीतिमांस्तेषु राजा मतिमतां वरः ।
केशिनीतनयं त्वेकं बहुमान सुतं प्रियम् ॥४९॥
विवाहं विधिवत्तस्मै कारयामास पार्थिवः ।
सचाप्यानन्दयामास स्वगुणैः सुहृदोऽखिलान् ॥५०॥
एवं प्रवर्त मानस्य केशिनीतनयस्य तु ।
अजायत सुतः श्रीमानंशुमानिति विश्रुतः ॥५१॥
स बाल्य एव मतिमानुदारैः स्वगुणैर्भृशम् ।
प्रीणयामास सुत्दृदः स्वपितामहमेव च ॥५२॥
एतस्मिन्नन्तरे राज्ञस्तस्य पुत्रोऽसमञ्जसः ।
आविष्टो नष्टचेष्टोऽभूत्स पिशाचेन केन चित् ॥५३॥
स तु कश्चिदभूद्वैश्यः पूर्वजन्मनि धर्मवित् ।
कस्याचिद्विषये राज्ञः प्रभूतधनधान्यवान् ॥५४॥
स कदाचिदरण्येषु विचरन्निधिमुत्तमम् ।
दृष्ट्वा ग्रहीतुमारेभे वणिग्लोभवरिप्लुतः ॥५५॥
ततस्तद्रक्षकोऽभ्येत्य पिशाचः प्राह तं तदा ।
क्षुधितोऽहं चिरादस्मिन्निवसन्निधिपालकः ॥५६॥
तस्मात्तत्परिहाराय मम दत्त्वा गवामिषम् ।
कामतः प्रतिगृह्णीष्व निधिमेनं ममाज्ञया ॥५७॥
सतस्मै तत्परिश्रुत्य दास्यामीति गवामिषम् ।
आदत्त च निधिं तं तु पिशाचेनानुमोदितः ॥५८॥
न प्रादाच्च ततो मौढ्यात्तस्मै यत्तत्प्रतिश्रुतम् ।
प्रतिश्रुताप्रदानोत्थरोषं न श्रद्दधे नृप ॥५९॥
तमेवं सुचिरं कालं प्रतीक्ष्याशनकाङ्क्षया ।
अपनीतधनः सोऽपि ममार व्यथितः क्षुधा ॥६०॥
वैश्योऽपि बालो मरणं संप्राप्य सगरस्य तु ।
बभूव काले केशिन्यां तनयोऽन्वयवर्द्धनः ॥६१॥
अशरीरः पिशाचेऽपि पूर्ववैरमनुस्मरन् ।
वायुभूतोऽविशद्देहं राजपुत्रस्य भूपते ॥६२॥
तेनाविष्टस्ततः सोऽपि क्रूरचित्तोऽभवत्तदा ।
मतिविभ्रंशमासाद्य मुहुस्तेन बलात्कृतः ॥६३॥
असमञ्जसत्वं नगरे चक्रे सोऽपि नृशंसवत् ।
बालांश्च यूनः स्थविरान्योषितश्च सदा खलः ॥६४॥
हत्वाहत्वा प्रचिक्षेप सरय्वामतिनिर्दयः ।
ततः पौरजनाः सर्वे दृष्ट्वा तस्य कदर्यताम् ॥६५॥
बहुशो निकृतास्तेन गत्वा राज्ञे व्यजिज्ञापन् ।
राजा च तदुपश्रुत्य तमाहूय प्रयत्नतः ॥६६॥
वारयामास बहुधा दुःखेन महतान्वितः ।
बहुशः प्रतिषिद्धोऽपि पित्रा तेन महात्मना ॥६७॥
जले तप्ते च संतप्ताः संबभूवुर्यथा यवाः ।
नाशकत्तं यदा पापाद्विनिवर्त्तयितुं नृपः ॥६८॥
लोकापवादभीरुत्वाद्विषयानत्यजत्तदा ॥६९॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे सगरचरितेऽसमञ्जसत्यागो नामैकपञ्चाशत्तमोऽध्यायः॥५१॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP