संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः| अध्यायः २४ मध्यम भागः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ मध्यम भागः - अध्यायः २४ ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे. Tags : brahmand puranpuranपुराणब्रह्माण्ड पुराणसंस्कृत अध्यायः २४ Translation - भाषांतर वसिष्ठ उवाचइत्युक्तस्तेन भूपाल रामो मतिमतां वरः ।निरूप्य मनसा भूयस्तमुवाचाभिविस्मितम् ॥१॥राम उवाचकस्त्वं ब्रूहि महाभाग न वै प्राकृतपूरुषः ।इन्द्रस्येवानुभावेन वपुरालक्ष्यते तव ॥२॥विचित्रार्थपदौदार्यगुणगांभीर्यजातिभिः ।सर्वज्ञस्यैव ते वाणी श्रूयतेऽतिमनोहरा ॥३॥इन्द्रो वह्निर्यमो धाता वरुणो वा धनाधिपः ।ईशानस्तपनो ब्रह्मा वायुः सोमो गुरुर्गुहः ॥४॥एषामन्यतमः प्रायो भवान्भवितुमर्हति ।अनुभावेन जातिस्ते हृदिशङ्कां तनोति मे ॥५॥मायावी भगवान्विष्णुः श्रूयते पुरुषोत्तमः ।को वा त्वं वपुषानेन ब्रूहि मां समुपागतः ॥६॥अथ वा जगतां नाथः सर्वज्ञः परमेश्वरः ।परमात्मात्मसंभूतिरात्मारामः सनातनः ॥७॥स्वच्छन्दचारी भगवाञ्छिवः सर्वजगन्मयः ।वपुषानेन संयुक्ते भवान्भवितुमर्हति ॥८॥नान्यस्येदृग्भवेल्लोके प्रभावानुगतं वपुः ।जात्यर्थसौष्ठवोपेता वाणी चौदार्यशालिनी ॥९॥मन्येऽहं भक्तवात्सल्याद्वानेन वपुषाहरः ।प्रत्यक्षतामुपगतो संदेहोऽस्मत्परीक्षया ॥१०॥न केवलं भवान् व्याधस्तेषां नेदृग्विधाकृतिः ।तस्मात्तुभ्यं नमस्तस्मै सुरुपं संप्रदर्शय ॥११॥आविष्कुर्वन्प्रसीदात्ममहिमानुगुणं वपुः ।ममानेकविधा शङ्कामुच्येत येन मानसी ॥१२॥प्रसीद सर्वभावेन बुद्धिमोहौ ममाधुना ।प्रणाशय स्वरूपस्य ग्रहणादेव केवलम् ॥१३॥प्रार्थयेत्वां महाभाग प्रणम्य शिरसासकृत् ।कस्त्वं मे दर्शयात्मानं बद्धोऽयं ते मयाञ्जलिः ॥१४॥इत्युक्त्वा तं महाभाग ज्ञातुमिच्छन्भृगूद्वहः ।उपविश्य ततो भूमौ ध्यानमास्ते समाहितः ॥१५॥बद्धपद्मासनो मौनी यतवाक्कायमानसः ।निरुद्धप्राणसंचारो दध्यौ चिरमुदारधीः ॥१६॥सन्नियम्येन्द्रियग्रामं मनो हृदि निरुध्य च ।चिन्तयामास देवेशं ध्यानदृष्ट्या जगद्गुरुम् ॥१७॥अपश्यच्च जगन्नाथमात्मसंधानचक्षुषा ।स्वभक्तानुग्रहकरं मृगव्याधस्वरूपिणम् ॥१८॥तत उन्मील्य नयने शीघ्रमुत्थाय भार्गवः ।ददर्श देवं तेनैव वपुषा पुरतः स्थितम् ॥१९॥आत्मनोऽनुग्रहार्थाय शरण्यं भक्तवत्सलम् ।आविर्भूतं महाराज दृष्ट्वा रामः ससंभ्रमम् ॥२०॥रोमाञ्छोद्भिन्नसर्वाङ्गो हर्षाश्रुप्लुतलोचनः ।पपात पादयोर्भूमौ भक्त्या तस्य महामतिः ॥२१॥स गद्गदमुवाचैनं संभ्रमाकुलया गिरा ।शरणं भव शर्वेति शङ्करेत्यसकृन्नृप ॥२२॥ततः स्वरुपधृक्शंभुस्तद्भक्तिपरितोषितः ।राममुत्थापयामास प्रणा मावनतं भुवि ॥२३॥उत्थापितो जगद्धात्रा स्वहस्ताभ्यां भृगूद्वहः ।तुष्टाव देवदेवेशं पुरः स्थित्वा कृताजलिः ॥२४॥राम उवाचनमस्ते देवदेवाय शङ्करायादिमूर्त्तये ।नमः शर्वाय शान्ताय शाश्वताय नमोनमः ॥२५॥नमस्ते नीलकण्ठाय नीललोहितमूर्त्तये ।नमस्ते भूतनाथाय भूतवासाय ते नमः ॥२६॥व्यक्ताव्यक्तस्वरूपाय महादेवाय मीढुषे ।शिवाय बहुरूपाय त्रिनेत्राय नमोनमः ॥२७॥शरणं भव मे शर्व त्वद्भक्तस्य जगत्पते ।भूयोऽनन्याश्रयाणां तु त्वमेव हि परायणम् ॥२८॥यन्मयापकृतं देव दुरुक्तं वापि शङ्कर ।अजानता त्वां भगवन्मम तत्क्षन्तुमर्हसि ॥२९॥अनन्यवेद्यरुपस्य सद्भावमिहकः पुमान् ।त्वामृते तव सर्वेश सम्यक्शक्रोति वेदितुम् ॥३०॥तस्मात्त्वं सर्वभावेन प्रसीद मम शङ्कर ।नान्यास्ति मे गतिस्तुभ्यं नमो भूयो नमो नमः ॥३१॥वसिष्ठ उवाचइति संस्तूयमानस्तु कृताञ्जलिपुटं पुरः ।तिष्ठन्तमाह भगवान्प्रसन्नात्मा जगन्मयः ॥३२॥भगवानुवाचप्रीतोऽस्मि भवते तात तपसानेन सांप्रतम् ।भक्त्या चैवानपायिन्या ह्यपि भार्गवसत्तम ॥३३॥दास्ये चाभि मतं सवे भवतेऽहं त्वया वृतम् ।भक्तो हि मे त्वमत्यर्थं नात्र कार्या विचारणा ॥३४॥मयैवावगतं सर्वं त्दृदि वत्तेऽद्यवर्त्तते ।तस्माद्ब्रवीमि यत्त्वाहं तत्कुरुष्वाविशङ्कितम् ॥३५॥नास्त्राणां धारणे वत्स विद्यते शक्तिरद्य ते ।रौद्राणां तेन भूयोऽपि तपो घोरं समाचर ॥३६॥परीत्य पृथिवीं सर्वां सर्वतीर्थेषु च क्रमात् ।स्रात्वा पवित्रदेहस्त्तवं सर्वाण्यस्त्राण्यवाप्स्यसि ॥३७॥इत्युक्त्वान्तर्दधे देवस्तेनैव वपुषा विभुः ।रामस्य पश्यतो राजन्क्षणेन भवभागकृत् ॥३८॥अन्तर्हिते जगन्नाथे रामो नत्वा तु शङ्करम् ।परीत्यवसुधां सर्वां तीर्थस्नानेऽकरोन्मनः ॥३९॥ततः स पृथिवीं सर्वां परिक्रम्य यथाक्रमम् ।चकार सर्वतीर्थेषु स्नानं विधिवदात्मवान् ॥४०॥तीर्थेषु क्षेत्रमुख्येषु तथा देवालयेषु च ।पितॄन्देवांश्च विधिवदतर्पयदतन्द्रितः ॥४१॥उपवासतपोहोमजपस्नानादिसुक्रियाः ।तीर्थेषु विधिवत्कुर्वन्परिचक्राम मेदिनीम् ॥४२॥एवं क्रमेण तीर्थेषु स्नात्वा चैव वसुंधराम् ।प्रदक्षिणीकृत्य शनैः शुद्धदेहोऽभवन्नृप ॥४३॥परीत्यैवं वसुमतीं भार्गवः शंभुशासनात् ।जगां भूयस्तं देशं यत्र पूर्वमुवास सः ॥४४॥गत्वा राजन्सतत्रैव स्थित्वा देवमुमापतिम् ।भक्त्या संपूजयामास तपोभिर्न्नियमैरपि ॥४५॥एतस्मिन्नेव काले तु देवानामसुरैः सह ।बभूव सुचिरं राजन्संग्रामो रोमहर्षणः ॥४६॥ततो देवान्पराजित्य युद्धेऽतिबलिनोऽसुराः ।अवापुरमरैश्वर्यमशेषमकुतोभयाः ॥४७॥युद्धे पराजिता देवाः सकला वासवादयः ।शङ्करं शरणं चग्मुर्हतैश्वर्या ह्यरातिभिः ॥४८॥तोषयित्वा जगन्नाथं प्रणामजय संस्तवैः ।प्रार्थयामासुरसुरान्हन्तुं देवाः पिनाकिनम् ॥४९॥ततस्तेषां प्रतिश्रुत्य दानवानां वधं नृप ।देवानां वरदः शंभुर्महो दरमुवाच ह ॥५०॥हिमद्रेर्दक्षिणे भागे रामो नाम महातपाः ।मुनिपुत्रोऽतितेजस्वी मामुद्दिश्य तपस्यति ॥५१॥तत्र गत्वात्वमद्यैव निवेद्य मम शासनम् ।महोदर तपस्यन्तं तमिहानय माचिरम् ॥५२॥इत्याज्ञप्रस्तथेत्युक्त्वा प्रणभ्येशं महोदरः ।जगाम वायुवेगेन यत्र रामो व्यवस्थितः ॥५३॥समासाद्य स तं देशं दृष्ट्वा रामं महामुनिम् ।तपस्यन्तमिदं वाक्यमुवाच विनयान्वितः ॥५४॥द्रष्टुमिच्छति शम्भुस्त्वां भृगुवर्यं तदाज्ञया ।आगतोऽहं तदागच्छ तत्पादांबुजसन्निधिम् ॥५५॥तच्छ्रुत्वा वचनं तस्य शीघ्रमुत्थाय भार्गवः ।तदाज्ञां शिरसानन्द्य तथेति प्रत्यभाषत ॥५६॥ततो रामं त्वरोपेतः शंभुपार्श्वं महोदरः ।प्रापयामास सहसा कैलासे नागसत्तमे ॥५७॥सहितं सकलैर्भूतैरिन्द्राद्यैश्च सहामरैः ।ददर्श भार्गवश्रेष्ठः शङ्करं भक्तवत्सलम् ॥५८॥संस्तूयमानं मुनिभिर्नारदाद्यैस्तपोधनैः ।गन्धर्वैरुपगायद्भिर्नृत्यद्भिश्चाप्सरोगणैः ॥५९॥उपास्यमानं देवेशं गजचर्मधृताम्बरम् ।भस्मोद्धूलितसर्वाङ्गं त्रिनेत्रं चन्द्रशेखरम् ॥६०॥धृतपिङ्गजटाभारं नागाभरमभूषितम् ।प्रलम्बोष्ठभुजं सौम्यं प्रसन्नमुखपङ्कजम् ॥६१॥आस्थितं काञ्चने पट्टे गीर्वाणसमितौ नृप ।उपासर्पत्तु देवेशं भृगुवर्यः कृताञ्जलिः ॥६२॥श्रीकण्ठदर्शनोद्वत्तरोमाञ्चाञ्चितविग्रहः ।बाष्पत्तु सिक्तकायेन स तु गत्वा हरान्तिकम् ॥६३॥भक्त्या ससंभ्रमं वाचा हर्षगद्गदयासकृत् ।नमस्ते देवदेवेति व्यालपन्नाकुलाक्षरम् ॥६४॥पपात संस्पृशन्मूर्ध्ना चरणौ पुरविद्विषः ।पश्यतां देववृन्दानां मध्ये भृगुकुलोद्वहम् ॥६५॥तमुत्थाप्य शिवः प्रीतः प्रसन्नमुखपङ्कजम् ।रामं मधुरया वाचा प्रहसन्नाह सादरम् ॥६६॥इमे दैत्यगणैः क्रान्ताः स्वाधिष्ठानात्परिच्युताः ।अशक्रुवन्तस्तान्हन्तुं गीर्वाणा मामुपागताः ॥६७॥तस्मान्ममाज्ञया राम देवानां च प्रियेप्सया ।जहि दैत्यगणान्सर्वान्समर्थस्त्वं हि मे मतः ॥६८॥ततो रामोऽब्रवीच्छर्वं प्रणिपत्य कृताञ्जलिः ।शृण्वतां सर्वदेवानां सप्रश्रयमिदं वचः ॥६९॥स्वामिन्न विदितं किं ते सर्वज्ञस्याखिलात्मनः ।तथापि विज्ञापयतो वचनं मेऽवधारय ॥७०॥यदि शक्रादिभिर्देवैरखिलैरमरारयः ।न शक्या हन्तुमेकस्य शक्याः स्यस्ते कथं मम ॥७१॥अनस्त्रज्ञोऽस्मि देवेश युद्धानामप्यकोविदः ।कथं हनिष्ये सकलान्सुरशत्रूननायुधः ॥७२॥इत्युक्तस्तेन देवेशः सितं कालाग्निसप्रभम् ।शैवमस्त्रमयं तेजो ददौ तस्मै महात्मने ॥७३॥आत्मीयं परशुं दत्वा सर्वशस्त्राभिभावकम् ।रामपाह प्रसन्नात्मा गीर्वाणानां तु शृण्वतम् ॥७४॥मत्प्रसादेन सकलान्सुरशत्रून्विनिघ्नतः ।शक्तिर्भवतु ते सौम्य समस्तारिदुरासदा ॥७५॥अनेनैवायुधेन त्वं गच्छ युध्यस्व शत्रुभिः ।स्वयमेव च वेत्सि त्वं यथावद्युद्धकौशलम् ॥७६॥वसिष्ठ उवाचएवमुक्तस्ततो रामः शंभुना तं प्रणम्य च ।जग्राह परशुं शैव विबुधारिवधोद्यतः ॥७७॥ततः स शुशुभे रामो विष्णुतेर्ञ्जोऽशसंभवः ।रुद्रभक्त्या समायुक्तो द्युत्येव सवितुर्महः ॥७८॥सोऽनुज्ञातस्त्रिनेत्रेण देवैः सर्वैः समन्वितः ।जगाम हन्तुमसुरान्युद्धाय कृतनिश्चयः ॥७९॥ततोऽभवत्पुनर्युद्धं देवानामसुरैः सह ।त्रैलोक्यविजयोद्युक्तै राजन्नतिभयङ्करम् ॥८०॥अथ रामो महाबाहुस्तस्मिन्युद्धे सुदारुणे ।कुद्धः परशुना तेन निजघान महासुरान् ॥८१॥प्रहारैरशनिप्रख्यैर्निघ्नन्दैत्यान्सहस्रशः ।चचार समरे रामः क्रुद्धः काल इवापरः ॥८२॥हत्वा तु सकलान्दैत्यान्देवान्सर्वानहर्षयत् ।क्षणेन नाशयामास रामः प्रहरतां वरः ॥८३॥रामेण हन्यमा नास्तु समस्ता दैत्यदानवाः ।ददृशुः सर्वतो रामं हतशेषा भयान्विताः ॥८४॥हतेष्वसुरसंघेषु विद्रुतेषु च कृत्स्नशः ।राममामन्त्र्य विबुधाः प्रययुस्त्रिदिवं पुनः ॥८५॥रामोऽपि हत्वा दितिजानभ्यनुज्ञाप्य चामरान् ।स्वमाश्रमं समापेदे तपस्यासक्तमानसः ॥८६॥मृगव्याधप्रतिकृतिं कृत्वा शम्भोर्महामतिः ।भक्त्या संपूजयामास स तस्मिन्नाश्रमेवशी ॥८७॥गन्धैः पुष्पैस्तथा हृद्यैर्नैवेद्यैरभिवन्दनैः ।स्तोत्रैश्च विधिवद्भक्त्या परां प्रीतिमुपानयत् ॥८८॥इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादेर्ऽजुनोपाख्याने चतुर्विंशतितमोऽध्यायः॥२४॥ Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP