मध्यम भागः - अध्यायः ५४
ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.
जैमिनिरुवाच
क्रोधाग्निमेनं विप्रेन्द्र सद्यः संहर्त्तुमर्हसि ।
नो चेदकाले लोकोऽयं सकलस्तेन दह्यते ॥१॥
दृष्टस्ते महिमानेन व्याप्तमासीच्चराचरम् ।
क्षमस्व संहर क्रोधं नमस्ते विप्रपुङ्गव ॥२॥
एवं संस्तूयमानस्तु भगवान्कपिलो मुनिः ।
तूर्णमेव क्षयं निन्ये क्रोधाग्निमतिभैरवम् ॥३॥
ततः प्रशान्तमभवज्जगत्सर्वं चराचरम् ।
देवास्तपस्विनश्चैव बभूवुर्विगतज्वराः ॥४॥
एतस्मिन्नेव काले तु भगवान्नारदो मुनिः ।
अयोध्या मगमद्राजन्देवलोकाद्यदृच्छया ॥५॥
तमागतमभिप्रेक्ष्य नारदं सगरस्तदा ।
अर्घ्यपाद्यादिभिः सम्यक्पूजयामास शास्त्रतः ॥६॥
परिगृह्य च तत्पूजामासीनः परमासने ।
नारदो राजशार्दूलमिदं वचनमब्रवीत् ॥७॥
नारद उवाच
हयसंचारणार्थाय संप्रयातास्तवात्मजाः ।
ब्रह्मदण्डहताः सर्वे विनष्टा नृपसत्तम ॥८॥
संरक्ष्यमाणस्तैः सर्वैर्हयस्ते यज्ञियो नृप ।
केनाप्य लक्षितः क्वापि नीतो विधिवशाद्दिवि ॥९॥
ततो विनष्टं तुरगं विचिन्वन्तो महीतले ।
प्रालभन्त न ते क्वापि तत्प्रवृत्तिं चिरान्नृप ॥१०॥
ततोऽवनेरधस्तेऽश्वं विचेतुं कृतनिश्चयाः ।
सागरास्ते समारभ्य प्रचख्नुर्वसुधातलम् ॥११॥
खनन्तो वसुधा मश्वं पाताले ददृशुर्नृप ।
समीपे तस्य योगीन्द्रं कपिलं चमहामुनिम् ॥१२॥
तं दृष्ट्वा पापकर्माणस्ते सर्वे कालचोदिताः ।
कपिलं कोपयामासुरश्वहर्त्तायमित्यलम् ॥१३॥
ततस्तत्क्रोधसंभूतनेत्राग्नेर्दहतो दिशः ।
इन्धनीभूतदेहास्ते पुत्राः संक्षयमागताः ॥१४॥
क्रूराः पापसमाचाराः सर्वलोकोपरोधकाः ।
यतस्ते तेन राजेन्द्र न शोकं कर्तुमर्हसि ॥१५॥
स त्वं धैर्यधनो भूत्वा भवित व्यतयात्मनः ।
नष्टं मृतमतीतं च नानुशोचन्ति पण्डिताः ॥१६॥
तस्मात्पौत्रमिमं बालमंशुमन्तं महामतिम् ।
तुरगानयनार्थाय नियुङ्क्ष्व नृपसत्तम ॥१७॥
इत्यक्त्वा राजशार्दूलं सदस्यर्त्विक्समन्वितम् ।
क्षणेन पश्यतां तेषां नारदोऽन्तर्दधे मुनिः ॥१८॥
तच्छ्रत्वा वचन तस्य नारदस्य नृपोत्तमः ।
दुःखशोकपरातात्मा दध्यौ चिरमुदारधीः ॥१९॥
तं ध्यानयुक्तं सदसि समासीनमवाङ्मुखम् ।
वसिष्ठः प्राह राजानं सांत्वयन्देशकालवित् ॥२०॥
किमिदं धैर्यसाराणामवकाशं भवदृशाम् ।
लभते हृदि चेच्छोकः प्राप्तं धीर तया फलम् ॥२१॥
दौर्मनस्यं शिथिलयन्सर्वं दिष्टवशानुगम् ।
मन्वानोऽनन्तरं कृत्यं कर्तुमर्हस्यसंशयम् ॥२२॥
वसिष्ठेनैवमुक्तस्तु राजा कार्यार्थतत्त्ववित् ।
धृतिं सत्त्वं समालंब्य तथेति प्रत्यभाषत ॥२३॥
अंशुमन्तं समाहूय पौत्रं विनयशालिनम् ।
ब्रह्मक्षत्त्रसभामध्ये शनैरिदमभाषत ॥२४॥
ब्रह्मदण्डहताः सर्वे पितरस्तव पुत्रक ।
पतिताः पापकर्माणो निरये शाश्वतीः समाः ॥२५॥
त्वमेव संततिर्मह्यं राज्यस्यास्य च रक्षिता ।
त्वदायत्तमशेषं मे श्रेयोऽमुत्र परत्र च ॥२६॥
स त्वं गच्छ ममादेशात्पाताले कपिलान्तिकम् ।
तुरगानयनार्थाय यत्नेन महातान्वितः ॥२७॥
तं प्रार्थयित्वा विधिवत्प्रसाद्य च विशेषतः ।
आदाय तुरगं वत्स शीघ्रमागन्तुमर्हसि ॥२८॥
जैमिनिरुवाच
एवमुक्तोंऽशुमांस्तेन प्रणम्य पितरं पितुः ।
तथेत्युक्त्वा महाबुद्धिः प्रययौ कपिलान्तिकम् ॥२९॥
तमुपागम्य विधिवन्नमस्कृत्य यथामति ।
प्रश्रयावनतो भूत्वा शनैरिदमुवाच ह ॥३०॥
प्रसीद विप्रशार्दूल त्वामहं शरणं गतः ।
कोपं च संहर क्षिप्रं लोकप्रक्षयकारकम् ॥३१॥
त्वयि क्रुद्धे जगत्सर्वं प्रणाशमुपयास्यति ।
प्रशान्तिमुपयाह्याशुलोकाः संतु गतव्यथाः ॥३२॥
प्रसन्नोऽस्मान्महाभाग पश्य सौम्येन चक्षुषा ।
ये त्वत्क्रोधाग्निनिर्दग्धास्तत्संततिमवेहि माम् ॥३३॥
नाम्नांशुमन्तं नप्तारं सगरस्य महीपतेः ।
सोऽहं तस्य नियोगेन त्वत्प्रसादाभिकाङ्क्षया ॥३४॥
प्राप्तो दास्यसि चेद्ब्रह्मंस्तुरगानयनाय च ।
जैमिनिरुवाच
इति तद्वचनं श्रुत्वा योगीन्द्रप्रवरो मुनिः ॥३५॥
अंशुमन्तं समालोक्य प्रसन्न इदमब्रवीत् ।
स्वागतं भवतो वत्स दिष्ट्या च त्वमिहागतः ॥३६॥
गच्छ शीघ्रं हयश्चायं नीयतां सगरान्तिकम् ।
अधिक्षिप्तोऽस्य यज्ञोऽपि प्रागतः संप्रवर्त्तताम् ॥३७॥
व्रियतां च वरो मत्तस्त्वया यस्ते मनोगतः ।
दास्ये सुदुर्लभमपि त्वद्भक्तिपरितोषितः ॥३८॥
एषां तु संप्रमाशं हि गत्वा वद पितामहम् ।
पापानां मरणं त्वेषां न च शोचितुमर्हसि ॥३९॥
ततः प्रणाम्य चोगीन्द्रमंशुमानिदमब्रवीत् ।
वरं ददासि चेन्मह्यं वरये त्वां महामुने ॥४०॥
वरमर्हामि चेत्त्वत्तः प्रसन्नो दातुमर्हसि ।
त्वद्रोषपावकप्लुष्टाः पितरो ये ममाखिलाः ॥४१॥
संप्रयास्यन्ति ते ब्रह्मन्निरयं शास्वतीः समाः ।
ब्रह्मदण्डहतानां तु न हि पिण्डोदकक्रियाः ॥४२॥
पिण्डोदकविहीनानामिह लोके महामुने ।
विद्यते पितृसालोक्यं न खलु श्रुतिचोदितम् ॥४३॥
अक्षयः स्वर्गवासोऽस्तु तेषां तु त्वत्प्रसादतः ।
वरेणानेन भगवन्कृतकृत्यो भावाम्यहम् ॥४४॥
तत्प्रसीद त्वमेवैषां स्वर्गतेर्वद कारणम् ।
येनोद्धारणमेतेषां वह्नेः कोपस्य वै भवेत् ॥४५॥
ततस्तमाह योगीन्द्रःसुप्रसन्नेन चेतसा ।
निरयोद्धारणं तेषां त्वया वत्स न शक्यते ॥४६॥
तैश्चापि नरके तावद्वस्तव्यं पापकर्मभिः ।
कालः प्रतीक्ष्यतां तावद्यावत्त्वत्पौत्रसंभवः ॥४७॥
कालान्ते भविता वत्स पौत्रस्तव महामतिः ।
राजा भगीरथो नाम सर्वधर्मार्थतत्त्ववित् ॥४८॥
स तु यत्नेन महता पितृगौरवयन्त्रितः ।
आनेष्यति दिवो गङ्गां तपस्तप्त्वा महाद्ध्रुवम् ॥४९॥
तदंभसा पावितेषु तेषां गात्रास्थिभस्मसु ।
प्राप्नुवन्ति गतिं स्वर्गे भवतः पितरोऽखिलाः ॥५०॥
तथेति तस्या माहात्म्यं गङ्गाया नृपनन्दन ।
भागीरथीति लोकेऽस्मिन्सा विख्यातिमुपैष्यति ॥५१॥
यत्तोयप्लावितेष्वस्थिभस्मलोमनखेष्वपि ।
निरयादपि संयाति देही स्वर्लोकमक्षयम् ॥५२॥
तस्मात्त्वं गच्छ भद्रं ते नशोकं कर्त्तुमर्हसि ।
पितामहाय चैवैनमश्वं संप्रतिपादय ॥५३॥
जैमिनिरुवाच
ततः प्रणम्य तं भक्त्या तथेत्युक्त्वा महामतिः ।
ययौ तेनाभ्यनुज्ञातः साकेतनगरं प्रति ॥५४॥
सगरं स समासाद्य तं प्रणम्य यथाक्रमम् ।
न्यवेदयच्च वृत्तान्तं मुनेस्तेषां तथान्मनः ॥५५॥
प्रददौतुरगं चापि समानीतं प्रयत्नतः ।
अतः परमनुष्ठेयमब्रवीत्किं मयेति च ॥५६॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे कपिलाश्रमस्थाश्वानयनं नाम चतुष्पञ्चाशत्तमोऽध्यायः॥५४॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP