संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः| अध्यायः ६२ मध्यम भागः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ मध्यम भागः - अध्यायः ६२ ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे. Tags : brahmand puranpuranपुराणब्रह्माण्ड पुराणसंस्कृत अध्यायः ६२ Translation - भाषांतर पूर्वाचार्यमतं बुद्ध्वा प्रवक्ष्याम्यनुपूर्वशः ।विख्यातान्वै अलङ्कारांस्तन्मे निगदतः श्रुणु ॥१॥अलङ्कारास्तु वक्तव्याः स्वैः स्वैर्वर्णैः प्रहेतवः ।संस्था नयोगैश्च तथा सदा नाढ्याद्यवेक्षया ॥२॥वाक्यार्थपदयोगार्थैरलङ्कारैश्च पूरणम् ।पदानि गीतकस्याहुः पुरस्तात्पृष्ठतोऽथ वा ॥३॥स्थातोनित्रीनरो नीड्डीमनःकण्ठशिरस्थया ।एतेषु त्रिषु स्थानेषु प्रवृत्तो विधिरुत्तमः ॥४॥चत्त्वारः प्रकृतौ वर्णाः प्रविचारस्य नुर्विधा ।विकल्पमष्टधा चैव देवाः षोडशधा विदुः ॥५॥सृष्टो वर्मः प्रसंचारी तृतीयमवरोहणम् ।आरोहणं चतुर्थं तु वर्णं वर्मविदो विदुः ॥६॥तत्रैकः संचरस्थायी संचरस्तु चरोऽभवत् ।अवरोहणवर्णानामवरोहं विनिर्दिशेत् ॥७॥आरोहणेन वारोहान्वर्णान्वर्णविदो विदुः ।एतेषामेव वर्णानामलङ्कारन्निबोधत ॥८॥अलङ्कारास्तु चत्वारस्थापनी क्रमरेजनः ।प्रमादस्याप्रमादश्च तेषां वक्ष्यामि लक्षणम् ॥९॥विस्वरोऽष्टकलाश्चैव स्थानं द्व्येकतरागतः ।आवर्त्तस्याक्रमो त्वाक्षी वेकार्यां परिमाणतः ॥१०॥कुमारं संपरं विद्धि द्विस्तरं वामनं गतः ।एष वै एष चैवस्यकुतरेकः कुलाधिकः ॥११॥स्वेत स्वे कातरे जातकलामग्नितरैषितः ।तस्मिंश्चैव स्वरे वृद्धिर्निष्टप्ते तद्विचक्षणः ॥१२॥स्येनस्तु अपरो हस्त उत्तरः कमलाकलः ।प्रमाणघसबिन्दुर्ना जायते विदुरे पुनः ॥१३॥कला कार्या तु वर्णानां तदा नुः स्थापितो भवेत् ।विपर्ययस्य रोपिस्या द्यस्य प्रादुर्घटी मम ॥१४॥एकोत्तरः स्वरस्तु स्यात्षड्जतः परमः स्वरः ।अक्षेपस्कन्दनाकार्यं काकस्योयचपुष्कलम् ॥१५॥संतारौ तौनुसर्वाय्यौ कार्यं वा कारणं तथा ।आक्षिप्तमवरोह्यासीत्प्रोक्षमद्यस्तथैव च ॥१६॥द्वादशे च कलास्थानामेकान्तरगतस्तथा ।प्रेशोल्लिखितमलङ्कारमेवस्वरसमन्विता ॥१७॥स्वरस्वरबहुग्रामकाप्रयोष्टनुपत्कला ।प्रक्षिप्तमेव कलयाचोपादानारयो भवेत् ॥१८॥द्विकथंवावथाभूतयत्रभाषितमुच्यते ।उच्चराद्विश्वरारूढातथायाष्टस्वरातथा ॥१९॥वापः स्यादवरोहेण नारतो भवति ध्रुवम् ।एकान्तरं च ह्येतेवैतमेवस्वरसत्तमः ॥२०॥सक्षिप्रच्छेदनामाचचतुष्कलगणः स्मृतः ।अलङ्कारा भवन्त्येते त्रिंशद्देवैः प्रकीर्त्तिताः ॥२१॥वर्णास्थानप्रयोगेण कलामात्राप्रमाणतः ।संस्थानं च प्रमाणं च विकारो लक्षणस्तथा ॥२२॥चतुर्विधमिदं ज्ञेय मलङ्कारप्रयोजनम् ।यथात्मनो ह्यलङ्कारो विपयस्तो विगर्हितः ॥२३॥वर्ममेवाप्यलङ्कर्त्तुं विषमाह्यात्मसंभवाः ।नानाभरणसंयोगा यथा नार्या विभूषणम् ॥२४॥वर्मस्य चैवालङ्कारो विभूषा ह्यात्मसंभवः ।न पादे कुण्डलं दृष्टं न कण्ठे रसना तथा ॥२५॥एवमेवाद्यलङ्कारे विपर्यस्तो विगर्हितः ।क्रियमाणोऽप्यलङ्कारो नागं यश्चैव दर्शयत् ॥२६॥यथादृष्टस्य मार्गस्यकर्त्तव्यस्यविधीयते ।लक्षणंपर्यवस्यापिवर्त्तिका मपिवर्त्तते ॥२७॥याथातथ्येन वक्ष्यामि मासोद्भवमुखोद्भव ।त्रयोविंशतिशीतिस्तु विज्ञातपवदैवतम् ॥२८॥नगोनातुपुरस्तानुमध्यमांशस्तु पर्ययः ।तयोर्विभागो देवानां लावण्ये मार्गसंस्थितः ॥२९॥अनुषङ्गमयो दृष्टं स्वसारं वस्वरातर ।विपर्ययः संवर्त्तो च सप्तस्वरपदक्रमम् ॥३०॥गान्धारसेतुगीयन्ते वरोमद्भगवानिच ।पञ्चमंमध्यमञ्चैवधैवतं तु निषादतः ॥३१॥षड्जर्षभश्चजानीमोमद्रकेष्वेवनान्तरे ।द्वेव्द्यपरतुकिंविद्याद्द्वयमुष्णन्तिकस्यतु ॥३२॥प्राकृते वैकृते चैव गान्धारः स प्रयुज्यते ।पदस्यात्ययरूपन्तुसप्तरूपन्तुकौशिकीम् ॥३३॥गान्धारस्येनकार्त्स्येन चायं यस्यविधिः स्मृतः ।एषचैवक्रमोद्दिष्टोमध्यमांशस्य मध्यमः ॥३४॥यानि प्रोक्तानि गीतानिवतुरूपं विशेषतः ।ततः सप्तस्वरङ्कार्यंसप्तरूपञ्चकौशिकी ॥३५॥अगदर्शनमित्याहुर्मानुद्वैममकेतथा ।द्वितीयामासमात्राणाभिः सर्वाः प्रतिष्ठिताः ॥३६॥उत्तरेवप्रकृत्येवंमाताब्राह्मतलायत ।तथाहतानोपिडकेयत्रमायांनिवर्त्तते ॥३७॥पादेनैकेनमायात्रा पादोनामतिवारिमः ।संख्यापनोपहूतांवैतत्रपानमिति स्मृतम् ॥३८॥द्वितीयपादभङ्गञ्चग्रहेनामप्रतिष्ठितम् ।पूर्वमष्ठतीटती नद्वितीयं चापरान्तिकैः ॥३९॥पादभागसपादं तु प्रकृत्यमपि संस्थितम् ।चतुर्थमुत्तरं चैवमद्रवत्पावमद्रकौ ॥४०॥मद्रकोदक्षिणस्यापि यथोक्ता वर्त्तते कला ।सर्वमेवानुयोगं तु द्वितीयं बुद्धिमिष्यते ॥४१॥पादौवाहरणं चास्यात्पारं नात्र विधीयते ।एकत्वं मुनुयोगस्य द्वयोर्यद्यद्द्विजोत्तम ॥४२॥अनेकसमवायस्तु पातका हरिणा स्मृताः ।तिसृणां चैव वृत्तीनां वृत्तौ वृत्ते च दक्षिणः ॥४३॥अष्टौ तु समवायस्तु वीरा संमूर्छना तथा ।कस्यनासुतराचैव स्वरशाखा प्रकीर्त्तिता ॥४४॥इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे भार्गवचरिते गान्धर्वलक्षणं नाम द्विषष्टितमोऽध्यायः॥६२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP