मध्यम भागः - अध्यायः ५
ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.
ऋषिरुवाच
दैत्यानां दानवानां च गन्धर्वोरगरक्षसाम् ।
सर्पभूतापिशा चानां वसूनां पक्षिवीरुधाम् ॥१॥
उत्पत्तिं निधनं चैव विस्तारात्कथयस्व नः ।
एवमुक्तस्तदा सूतः प्रत्युवाचर्षिसत्तमम् ॥२॥
सूत उवाच
दितेः पुत्रद्वयं जज्ञे कन्या चैका महाबला ।
कश्यपस्यात्मजौ तौ तु सर्वेभ्यः पूर्वजौ स्मृतौ ॥३॥
सौत्येऽहन्यतिरा त्रस्य कश्यपस्याश्वमेधिकाः ।
हिरण्यकशिपुर्नाम प्रथितं पृथगासनम् ॥४॥
दित्या गर्भाद्विनिः सृत्य तत्रासीनः समन्ततः ।
हिरण्य कशिपुस्तस्मात्कर्मणा तेन स समृतः ॥५॥
ऋषय ऊचुः
हिरण्यकशिपोर्जन्म नाम चैव महात्मनः ।
प्रभावं चैव दैत्यस्य विस्ताराद्ब्रूहि नः प्रभो ॥६॥
सूत उवाच
कश्यपस्याश्वमेधोऽभूत्पुण्ये वै पुष्करे तदा ।
ऋषिभिदेंवताभिश्च गन्धर्वैरुपशोभितः ॥७॥
उत्सृष्टे स्वे च विधिना आख्यानादौ यथाविधि ।
आसनान्युपकॢप्तानि सौवर्णानि तु पञ्च वै ॥८॥
कुलस्पदापि? त्रीण्यत्र कूर्चः फलकमेव च ।
मुख्यर्त्विजस्तु चत्वारस्तेषां तान्युपकल्पयन् ॥९॥
कॢप्त तत्रासनं चैकं होतुरर्थे हिरण्यम् ।
निषसाद सगर्भोऽत्र तत्रासीनः शशंस च ॥१०॥
आख्यानमानुपूर्व्येण महर्षिः कश्यपो यथा ।
तं दृष्ट्वा ऋषयस्तस्य नाम कुर्वन्ति वर्द्धितम् ॥११॥
हिरण्यकशिपुस्तस्मात्कर्मणा तेन स स्मृतः ।
हिरण्यक्षोऽनुजस्तस्य सिंहिका तस्य चानुजा ॥१२॥
राहोः सा जननी देवी विप्र चित्तेः परिग्रहः ।
हिरण्यकशिपुर्दैत्यश्चचार परमं तपः ॥१३॥
शतं वर्षसहस्राणां निराहारो ह्यधःशिराः ।
वरयामास ब्रह्माणं तुष्टं दैत्यो वरेण तु ॥१४॥
सर्वामरत्वमवधं सर्वभूतेभ्य एव हि ।
योगद्देवान् विनिर्जित्य सर्वदेवत्वमास्थितः ॥१५॥
कारयेऽहमिहैश्वर्यं बलवीर्यसमन्वितः ।
दानवास्त्वसुराश्चैव देवाश्च सह चारणैः ॥१६॥
भवन्तु वशगाः सर्वे मत्समीपानुभोजनाः ।
आर्द्रशुष्कैरवध्यश्च दिवा रात्रौ तथैव च ।
एवमुक्तस्तदा ब्रह्मानुजज्ञे सांतरं वरम् ॥१७॥
ब्रह्मोवाच ।
महानयं वरस्तात वृतो दितिसुत त्वया ।
एही दानीं प्रतिज्ञानं भविष्यत्येवमेव तु ॥१८॥
दत्त्वा चाभिमतं तस्मै तत्रेवान्तरधादथ ।
सोऽपि दैत्यस्तदा सर्वं जगत्स्थावरजङ्गमम् ॥१९॥
महिम्ना व्याप्य संतस्थे बहुमूर्त्तिरमित्रजित् ।
स एव तपति व्योम्नि चन्द्रसूर्यत्वमास्थितः ॥२०॥
स एव वायुर्भूत्वा च ववौ जगति सर्वदा ।
स गोपालोऽविपालश्च कर्षकश्च स एव ह ॥२१॥
स ज्ञाता सर्वलोकेषु मन्त्रव्याख्याकरस्तथा ।
नेता गोप्ता गोपयिता दीक्षितो याजकः स तु ॥२२॥
तस्य देवाः सुराः सर्वे तदासन्सोमपायिनः ।
एवंप्रभावो दैत्योऽसावतो भूयो निबोधत ॥२३॥
तस्मै सर्वे नमस्कारं कुर्वन्तीज्यः स एव च ।
हिरण्यकशिपोर्दैत्यैः श्लोको गीतः पुरा त्विह ॥२४॥
हिरण्यकशिपू राजा यां यामाशां निरैक्षत ।
तस्यै तस्यै तदा देवा नमश्चक्रुर्महर्षिभिः ॥२५॥
तस्यासीन्नरसिंहस्तु मृत्युर्विष्णुः पुरा किल ।
नरात्तु यस्माज्जन्मास्य नरमूर्त्तिश्च यत्प्रभुः ॥२६॥
तस्मात्स नरसिंहो वै गीयते वेदवादिभिः ।
सागरस्य च वेलायामुच्छ्रित स्तपसो विभुः ॥२७॥
शरीरं तस्य देवस्य ह्यासीद्देवमयं प्रभो ।
नाम्ना सुदर्शनं चैव विश्रुतश्च महाबलः ॥२८॥
ततः स बाहुयुद्धेन दैत्येन्द्रं तं महाबलम् ।
नखैर्बिभद संक्रुद्धो नार्द्राः शुष्का नखा इति ॥२९॥
हिरण्याक्षसुताः पञ्च विक्रान्ताः सुमहाबलाः ।
शंबरः शकुनिश्चैव कालनाभस्तथैव च ॥३०॥
महानाभः सुविक्रान्तो सुत संतापनस्तथा ।
हिरण्यक्षसुता ह्येते देवैरपि दुरासदाः ॥३१॥
तेषां पुत्राश्च पौत्राश्च दैतेयाः सगणाः स्मृताः ।
स शतानि सहस्राणि निहतास्तारकामये ॥३२॥
हिरण्यकशिपोः पुत्राश्चत्वारः सुमहाबलाः ।
प्रह्लादः पूर्वजस्तेषामनुह्ना दस्तथापरः ॥३३॥
संह्रादश्चैव ह्रादश्च ह्रादपुत्रौ निबोधत ।
सुंदो निसुन्दश्च तथा ह्रादपुतौ बभूवतुः ॥३४॥
ब्रह्यघ्नौ तौ महावीरौ मूकस्तु ह्राददायकः ।
मारीचः सुन्दपुत्रस्तु ताडकायामजायत ॥३५॥
दण्डके निहतः सोऽथ राघवेण बलीयसा ।
मूको विनिहतश्चापि कैराते सव्यसाचिना ॥३६॥
संह्रादस्य तु दैत्यस्य निवातकवचाः कुले ।
उत्पन्ना महता चैव तपसा भाविताः स्वयम् ॥३७॥
अरयो देवतानां ते जंभस्य शतदुन्दुभिः ।
तथा दक्षो सुरश्चण्डश्चत्वारो देत्यनायकाः ॥३८॥
बाष्कलस्य सुता ह्येते काल नेमेः सुताञ्छृणु ।
ब्रह्मजित्क्रतुजिच्चैव देवान्तकनरान्तकौ ॥३९॥
कालनेमिसुता ह्येते शभोस्तु शृणुत प्रजाः ।
राजाजश्चैव गोमश्च शंभोः पुत्रौ प्रकीर्त्तितौ ॥४०॥
विरोजनस्य पुत्रश्च बलिरेकः प्रतापवान् ।
बलेः पुत्रशतं जज्ञे राजानः सर्व एव ते ॥४१॥
तेषां प्रधानाश्चत्वारो विक्रान्ताः सुमहाबलाः ।
सहस्रबाहुः श्रेष्ठोऽभूद्बाणो राजा प्रतापवान् ॥४२॥
कुंभगर्त्तो दयो भोजः कुञ्चिरित्येवमा दयः ।
शकुनी पूतना चैव कन्ये द्वे तु बलेः स्मृते ॥४३॥
बलेः पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ।
बालेया नाम विख्याता गणा विक्रान्तपौरुषाः ॥४४॥
बाणस्य चैन्द्रधन्वा तु लोहिन्यामुदपद्यत ।
दितिर्विहितपुत्रा वै तोषयामास कश्यपम् ॥४५॥
तां कश्यपः प्रसन्नात्मा सम्यगाराधितस्त्वथ ।
वरेण छन्दयामास सा च वव्रे वरं तत ॥४६॥
अथ तस्यै वरं प्रादात्प्रार्थितो भगवान्पुनः ।
उक्ते वरे तु मा तुष्टा दितिस्तं समभाषत ॥४७॥
मारीचं कण्यपं देवी भर्त्तारं प्राञ्जलिस्तदा ।
हतपुत्रास्मि भगवन्नादित्यैस्तव सूनुभिः ॥४८॥
शक्रहन्तारमिच्छमि पुत्रं दीर्घतपोऽर्जितम् ।
साहं तपश्चरिष्यामि गर्भमाधातुमर्हसि ॥४९॥
पुत्रमिन्द्रवधे युक्तं त्वं मै वै दातुमर्हसि ।
तस्यास्तद्वचनं श्रुत्वा मारीचः कश्यपस्तदा ॥५०॥
प्रत्युवाच महातेजा दितिं परमदुः खितः ।
एवं भवतु गर्भे तु शुचिर्भव तपोधने ॥५१॥
जनयिष्यसि पुत्रं त्वं शक्रहन्तारमाहवे ।
पूर्णं वर्षसहस्रं तु शुचिर्यदि भविष्यसि ॥५२॥
पुत्रं त्रिलोकप्रवरं मन्मथं जनयिष्यसि ।
एवमुक्त्वा महातेजास्तथा समभावत्तदा ॥५३॥
तामालभ्य स्वभवनं जगाम भगवानृषिः ।
गते भर्त्तरि सा देवी दितिः परमहर्षिता ॥५४॥
कुशप्लवनमासाद्य तपस्तेपे सुदारुणम् ।
शक्रस्तु समुपश्रुत्य संवादं तं तयोः प्रभुः ॥५५॥
कुशप्लवनमागम्य दितिं वाक्यमभाषत ।
शुश्रूषां ते करिष्यामि मानुज्ञां दातुमर्हसि ॥५६॥
समिधश्चाहरिष्यामि पुष्पाणि च फलानि च ।
यथा त्वं मन्यसे वत्स सुश्रूषाभिरतो भव ॥५७॥
सर्वकर्मसु निष्णात आत्मनो हितमाचर ।
वरं श्रुत्वा तु त द्वाक्यं मातुः शक्रः प्रहर्षितः ॥५८॥
शुश्रूषाभिरतो भूत्वा कलुषेणान्तरात्मना ।
शुश्रूषते तु तां शक्रः सर्वकालमनुव्रतः ॥५९॥
फलपुष्पाण्युपादाय समिधश्च दृढव्रतः ।
गात्रसंवाहनं काले श्रमापनयने तथा ॥६०॥
शक्रः सर्वेषु कालेषु दितिं परिचचार ह ।
किञ्चिच्छिष्टे व्रते देवी तुष्टा शक्रमुवाच ह ॥६१॥
प्रतीताहं ते सुरश्रेष्ठ दशवर्षाणि पुत्रक ।
अवशिष्ठानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः ॥६२॥
तमहं त्वत्कृते पुत्र सह धास्ये जयैषिणम् ।
त्रैलोक्यविजयं पुत्र भोक्ष्यसे सह तेन वै ॥६३॥
नाहं पुत्राभिजानामि मद्भक्तिगतमानसम् ।
एवमुक्त्वा दितिः शक्रं मध्यं प्राप्ते दिवाकरे ॥६४॥
निद्रयापहृता दवी शिरः कृत्वा तु जानुनि ।
केशान्कृत्वा तु पादस्थान्सा सुष्वाप च देवता ॥६५॥
अधस्ताद्यत्तु नाभेर्वै सर्वं तदशुचि स्मृतम् ।
ततस्तामशुचिं ज्ञात्वा सोंतरं तदमन्यत ॥६६॥
दृष्ट्वा तु कारणं सर्वं तस्य बुद्धिरजायत ।
गर्भं निहन्तु वै देव्या स हि दोषोऽत्र दृश्यते ॥६७॥
ततो विवेश दित्या वै ह्युपस्थेनोदरं वृषा ।
प्रविश्य चापि तं दृष्ट्वा गभमिन्द्रो महौजसम् ॥६८॥
भीतस्तं सप्तधा गभ बिभेद रिपुमात्मनः ।
म गर्भो भिद्यमानस्तु वज्रणशतपर्वणा ॥६९॥
रुरोद सुस्वरं भीमं वेपमानः पुनः पुनः ।
मारोद मारोद इति गर्भं शक्रोऽभ्यभाषत ॥७०॥
तं गर्भं सप्तधा कृत्वा ह्येकैकं सप्तधा पुनः ।
कुलिशेन बिभेदेन्द्रस्ततो दितिरबुध्यता ॥७१॥
न हन्तव्यो न हन्तव्य इत्येवं दितिरब्रवीत् ।
निष्पपात ततो वज्री मातुर्वचनगौरवात् ॥७२॥
प्राञ्जलिर्वज्रसहितो दितिं शक्रोऽभ्यभाषत ।
अशुचिर्देवि सुप्तासि पादयोर्गतमूर्द्धजा ॥७३॥
तदं तरमनुप्राप्य गर्भं हेतारमाहवे ।
भिन्नवानहमेतं ते बहुधा क्षन्तुमर्हसि ॥७४॥
तस्मिंस्तु विफले गर्भे दितिः परमदुःखिता ।
सहस्राक्षं दुराधर्षं वाक्यं सानुनयाब्रवीत् ॥७५॥
ममापराधाद्गर्भोऽयं यदि ते विफलीकृतः ।
नापराधोऽस्ति देवेश तव पुत्र महाबल ॥७६॥
शत्रोर्वधे न दोषोऽस्ति भेतव्यं न च ते विभो ।
प्रियं तु कृतमिच्छामि श्रेयो गर्भस्य मे कुतः ॥७७॥
भवन्तु मम पुत्राणां सप्त स्थानानि वै दिवि ।
वातस्कन्धानिमान्सप्त चरन्तु मम पुत्रकाः ॥७८॥
मरुतस्ते तु विख्याता गतास्ते सप्तसप्तकाः ।
पृथिव्यां प्रथमस्कन्धो द्वितीयश्चापि भास्करे ॥७९॥
सोमे तृतीयो विज्ञेयश्चतुर्थो ज्योतिषां गणे ।
ग्रहेषु पञ्चमस्चैव षष्ठः सप्तर्षिमण्डले ॥८०॥
ध्रुवे तु सप्तमश्चैव वातस्कन्धाश्चसप्त ये ।
तानेते विचरन्त्वद्य कालेकाले ममात्मजाः ॥८१॥
वातस्कन्धाधिपा भूत्वा चरन्तु मम पुत्रकाः ।
पृथिव्यां प्रथमस्कन्ध आ मेघेब्यो य आवहः ॥८२॥
चरन्तु मम पुत्रास्ते सप्त ये प्रथमे गणे ।
द्वितीयश्चापि मेघेभ्य आसूर्यात्प्रवहस्ततः ॥८३॥
वातस्कन्धो हि विज्ञेयो द्वितीयश्चरतां गणः ।
सूर्यादूर्ध्वमधः सोमादुद्वहोऽथ स वै स्मृतः ॥८४॥
वातस्कन्धस्तृतीयश्च पुत्राणां चरता गणः ।
सोमादूर्द्ध्वमधर्क्षेभ्यश्चतुर्थ संवहस्तु सः ॥८५॥
चतुर्थो मम पुत्राणां गणस्तु चरतां विभो ।
ऋक्षेभ्यश्च तथैवोर्द्ध्वमा ग्रहाद्विवहस्तु यः ॥८६॥
वातस्कन्धः पञ्चमस्तु पुत्राणां चरतां गणः ।
ग्रहेभ्य ऊर्द्ध्वमार्षिभ्यः षष्ठो ह्यनुवहश्च यः ॥८७॥
वातस्कन्धस्तत्र मम पुराणां चरता गणः ।
ऋषिभ्य ऊर्द्ध्वमाध्रौवं सप्तमो यः प्रकीर्त्तितः ॥८८॥
वातस्कन्धः परिवहस्तत्र तिष्ठन्तु मे सुताः ।
एतान्सर्वाश्चरन्त्वन्ते कालेकाले ममात्मजाः ॥८९॥
त्वत्कृतेन च नाम्ना वै भवतु मरुतस्त्विमे ।
ततस्तेषां तु नामानि मत्पुत्राणां शतक्रतो ॥९०॥
तद्विधैः कर्मभिश्चैव समवेहि पृथक्पृथक् ।
शक्रज्योतिस्तथा सत्यः सत्यज्योतिस्तथापरः ॥९१॥
चित्रज्योतिश्च ज्योतिष्मान् सुतपश्चैत्य एव च ।
प्रथमोऽयं गणः प्रोक्तो द्वितीयं तु निबोधत ॥९२॥
ऋतजित्सत्यजिश्चैव सुषेणः सेनजित्तथा ।
सुतमित्रो ह्यमित्रश्च सुरमित्रस्तथापरः ॥९३॥
गण एष द्वितीयस्तु तृतीयं च निबोधत ।
धातुश्च धनदश्चैव ह्युग्रो भीमस्तथैव च ॥९४॥
वरुणश्च तृतीयं च मया प्रोक्तं निबोधत ।
अभियुक्ताक्षिकश्चैव साह्वायश्च गणः स्मृतः ॥९५॥
ईदृक्चैव तथान्यादृक्समरिद्द्रुमवृचक्षकाः ।
मितश्च समितश्चैव पञ्चमश्च तथा गणः ॥९६॥
ईदृक्च पुरुषश्चैव नान्यादृक्समचेतनः ।
संमितः समवृत्तिश्च प्रतिहर्ता च षड्गणाः ॥९७॥
यज्ञैश्चित्वास्तुवन्सर्वे तथान्ये मानुषा विशः ।
दैत्यदेवाः समाख्याताः सप्तैते सप्तसप्तकाः ॥९८॥
एते ह्येकोनपञ्चाशन्मरुतो नामतः स्मृताः ।
प्रसंख्यातास्तदा ताभ्यां दित्या शक्रेण चैव वै ॥९९॥
कृत्वा चैतानि नामानि दितिरिन्द्रमुवाच ह ।
वातस्कन्धांश्चरन्त्वेते भ्रतरो मम पुत्रकाः ॥१००॥
विचरन्तु च भद्रं ते देवैः सह ममात्मजाः ।
तस्यास्तद्वचनं श्रुत्वा महस्राक्षः पुरन्दरः ॥१०१॥
उवाच प्राञ्जलिर्भूत्वा मातर्भवतु तत्तथा ।
सर्व मेतद्यथोक्तं ते भविष्यति न संशयः ॥१०२॥
एवंभूता महात्मानः कुमारा लोकसंमताः ।
देवैः सह भविष्यन्ति यज्ञभाजस्तवात्म जाः ॥१०३॥
तस्मात्ते मरुतो देवाः सर्वे चेन्द्रानुजा वराः ।
विज्ञेयाश्चामराः सर्वे दितिपुत्रास्तरस्विनः ॥१०४॥
एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोवने ।
जग्मतुस्त्रिदिवं त्दृष्टौ शक्रमाभूद्गतज्वरः ॥१०५॥
मरुतां च शुभं जन्म शृणुयाद्यः पठेच्च वा ।
वादे विजयमाप्नोति लब्धात्मा च भवत्युत ॥१०६॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे जयाभिव्याहारो नाम पंचमोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP