मध्यम भागः - अध्यायः ४४
ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.
वसिष्ठ उवाच
राजन्नेवं भृगुर्विद्वान्पश्यञ्जनपदान्बहून् ।
समाजगाम धर्मात्माकृतव्रणसमन्वितः ॥१॥
निलिल्युः क्षत्त्रियाः सर्वे यत्र तत्र निरीक्ष्य तम् ।
व्रजन्तं भार्गवं मार्गे प्राणरक्षणतत्पराः ॥२॥
अथाससाद राजेन्द्र रामः स्वपितुराश्रमम् ।
शान्तसत्त्वसमाकीर्णं वेदध्त्रनिनिनादितम् ॥३॥
यत्र सिंहा मृगा गावो नागमार्ज्जारमूषकाः ।
समं च रन्ति संहृष्टा भयं त्यक्त्वा सुदूरतः ॥४॥
यत्र धूमं समीक्ष्यैव ह्यग्निहोत्रसमुद्भवम् ।
उन्नदन्ति मयूराश्च नृत्यन्ति च महीपने ॥५॥
यत्र सायन्तने काले सूर्यस्याभिमुखं द्विजैः ।
जलाञ्जलीन्प्रक्षिपद्भिः क्रियते भूर्चलाविला ॥६॥
यत्रान्तेवासिभिर्नित्यं वेदाः शास्त्राणि संहिताः ।
अभ्यस्यन्ते मुदा युक्तैर्ब्रह्मचर्यव्रते स्थितैः ॥७॥
अथ रामः प्रसन्नात्मा पश्यन्नाश्रमसंपदम् ।
प्रविवेश शनै राजन्नकृतव्रणसंयुतः ॥८॥
जयशब्दं नमःशब्दं प्रोच्चरद्भिर्द्विजात्मजैः ।
द्विजैश्च सत्कृतो रामः परं हर्षमुपागतः ॥९॥
आश्रमाभ्यन्तरे तत्र संप्रविश्य निजं गृहम् ।
ददर्श पितरं रामो जमदग्निं तपोनिधिम् ॥१०॥
साक्षाद्भृगुमिवासीनं निग्रहानुग्रहक्षमम् ।
पपात चरणोपान्ते ह्यष्टाङ्गालिङ्गितावनिः ॥११॥
रामोऽहं तवा दासोऽस्मि प्रोच्चरन्निति भूपते ।
जग्राह चरणौ चापि विधिवत्सज्जनाग्रणीः ॥१२॥
अथ मातुश्च चरणवभिवाद्य कृताञ्जलिः ।
उवाच प्रणतो वाक्यं तयोः संहर्षकारणम् ॥१३॥
राम उवाच
पितस्तव प्रभावेण तपसोऽतिदुरासदः ।
कार्त्तवीर्यो हतो युद्धे समुत्रबलवाहनः ॥१४॥
यस्तेऽपराधं कृतवान्दुष्टमन्त्रिप्रचोदितः ।
तस्य दण्डो मया दत्तः प्रसह्य मुनिपुङ्गव ॥१५॥
भवन्तं तु नमस्कृत्य गतोऽहं ब्रह्मणोंऽतिकम् ।
तं नमस्कृत्य विधिवत्स्वकार्यं प्रत्यवेदयम् ॥१६॥
समामुवाच भगवाञ्छ्रुत्वा वृत्तान्तमादितः ।
व्रज स्वकार्यसिद्ध्यर्थं शिवलोकं सनातनम् ॥१७॥
श्रुत्वाहं तद्वयस्तात नमस्कृत्य पिता महम् ।
गतवाञ्छिवलोकं वै हरदर्शनकाङ्क्षया ॥१८॥
प्रविश्य तत्र भगवन्नुमया सहितः शिवः ।
नमस्कृतो मया देवो वाञ्छितार्थ प्रदायकः ॥१९॥
तदग्रे निखिलः स्वीयो वृत्तान्तो विनिवेदितः ।
मया समाहितधिया स सर्वं श्रुतवानपि ॥२०॥
श्रुत्वा विचार्य त त्सर्वं ददौ मह्यं कृपान्वितः ।
त्रैलोक्यविजयं नाम कवचं सर्वसिद्धिदम् ॥२१॥
तल्लब्ध्वा तं नमस्कृत्य पुष्करं समुपागतः ।
तत्राहं साधयित्वा तु कवचं हृष्टमानसः ॥२२॥
कार्त्तवीर्यं निहत्याजौ शिवलोकं पुनर्गतः ।
तत्र तौ तु मया दृष्टौ द्वारे स्कन्दविनायकौ ॥२३॥
तौनमस्कृत्य धर्मज्ञ प्रवेष्टुं चोद्यतोऽभवम् ।
स मामवेक्ष्य गामपो विशन्तं त्वरयान्वितम् ॥२४॥
वारयामास सहसा नाद्यावसर इत्यथ ।
मम तेन पितस्तत्र वाग्युद्धं हस्तकर्षणम् ॥२५॥
सञ्जातपरशुक्षेममतोऽभूद्भृगुनन्दन ।
स तज्ज्ञात्वा समुद्गृह्य मामधश्चोर्द्ध्वमेव च ॥२६॥
करेण भ्रामयामास पुनश्चानीतवांस्ततः ।
तं दृष्ट्वातिक्रुधा क्षिप्तः कुठारो हि मया ततः ॥२७॥
दन्तो निपति,स्तस्य ततो देव उपागतः ।
पार्वती तत्र रुष्टाभूत्तदा कृष्णः समागतः ॥२८॥
राधया सहितस्तेन सानुनीता वरं ददौ ।
मह्यं कृष्मो जगामाथ तेन मैत्रीं विधाय च ॥२९॥
ततः प्रणम्य देवेशौ पार्वतीपरमेश्वरौ ।
आगतस्तव सान्निध्यमकृतव्रणसंयुतः ॥३०॥
वसिष्ठ उवाच
इत्यक्त्वा भार्गवो रामो विरराम च भूपते ।
जमदग्निरुवाचेदं रामं शत्रुनिबर्हणम् ॥३१॥
जमदग्निरुवाच
क्षत्रहत्याभिभूतस्त्वं तावद्दोषोपशान्तये ।
प्रयश्चित्तं ततस्तावद्यथावत्कर्तुमर्हसि ॥३२॥
इत्युक्तः प्राह पितरं रामो मतिमतां वरः ।
प्रायश्चित्तं तु तद्योग्यं त्वं मे निर्देष्टुमर्हसि ॥३३॥
जमदग्निरुवाच
व्रतैश्च नियमैश्चैव कर्षयन्देहमात्मनः ।
शाकमूलफलाहारो द्वादशाब्दं तपश्चर ॥३४॥
वसिष्ठ उवाच
इत्युक्तः प्रणिपत्यैनं मातरं च भृगूद्वहः ।
प्रययौ तपसे राजन्नकृतव्रणसंयुतः ॥३५॥
स गत्वा पर्वत वरं महेन्द्रमरिकर्षणः ।
कृत्वाऽश्रमपदं तस्मिंस्तपस्तेपे सुदुश्चरम् ॥३६॥
व्रतैस्तपोभिर्नियमैर्देवताराधनैरपि ।
निन्ये वर्षाणि कति चिद्रामस्तस्मिन्महामनाः ॥३७॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे
सगरोपाख्याने भार्गवचरिते चतुश्चत्वारिंशत्तमोऽध्यायः॥४४॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP