मध्यम भागः - अध्यायः १४
ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.
बृहस्पतिरुवाच
अतः परं प्रवक्ष्यामि सर्वदानफलानि च ।
श्राद्धकर्मणि मेध्यानि वर्जनीयानि यानि च ॥१॥
हिमप्रपतने कुर्यादा हरेद्वा हिमं ततः ।
अग्निहोत्रमुपायुष्यं पवित्रं परमं हितम् ॥२॥
नक्तं तु वर्जयेच्छ्राद्धं राहोरन्यत्र दर्शनात् ।
सर्वस्वेनापि कर्त्तव्यङ्क्षिप्रं वै राहुदर्शने ॥३॥
उपरागे न कुर्याद्यः पङ्के गौरिव सीदति ।
कुर्वाणस्तत्तरेत्पापं सती नौरिव सागरे ॥४॥
वैश्वदेवं च सौम्यं च खड्गमांसं परं हविः ।
विषाणवर्जं खड्गस्य मात्सर्यान्नाशयामहे ॥५॥
त्वाष्ट्रा वै यजमानेन देवेशेन महात्मना ।
पिबञ्छचीपतिः सोमं पृथिव्यां मध्यगः पुरा ॥६॥
श्यामाकास्तत्र उत्पन्नाः पित्रर्थमपरजिताः ।
विप्रुषस्तस्य नासाभ्यामासक्ताभ्यां तथेक्षवः ॥७॥
श्रेष्मलाः शीतलाः स्निग्धा मधुराश्च तथेक्षवः ।
श्यामाकैरिक्षुभिश्चैव पितॄणां सर्वकामिकम् ॥८॥
कुर्यादाग्रयणं यस्तु स शीघ्रं सिद्धिमाप्नुयात् ।
श्यामाकास्तु द्विनामानो विहिता यजनेस्मृते ॥९॥
यस्मात्तेदेवसृष्टास्तु तस्मात्ते चाक्षयाः स्मृताः ।
प्रसातिकाः प्रियङ्गुश्च मुद्गाश्च हरितास्तथा ॥१०॥
एतान्यपि समानानि श्यामाकानां गुणैस्तु तैः ।
कृष्णमाषास्तिलाश्चैव श्रेष्ठास्तु यवशालयः ॥११॥
महायवाश्च निष्पावास्तथैव च मधूलिकाः ।
कृष्णाश्चैवान्नलोहाश्च गर्ह्याः स्युः श्राद्धकर्मणि ॥१२॥
राजमाषास्तथान्ये वै वर्जनीयाः प्रयत्नतः ।
मसूराश्चैव पुण्याश्च कुसुंभं श्रीनिकेतनम् ॥१३॥
वर्षास्वतियवा नित्यं तथा वृषकवासकौ ।
बिल्वामलकमृद्वीकापनसाम्रातदाडिमाः ॥१४॥
तवशोलंयताक्षौद्रखर्जूराम्रलानि च ।
खशेरुकोविदार्यश्च तालकन्दं तथा विसम् ॥१५॥
तमालं शतकन्दं च मद्वसूचान्तकान्दिकी ।
कालेयं कालशाकं च भूरिपूर्णा सुवर्चला ॥१६॥
मांसाक्षं दुविशाकं च बुबुचेता कुरस्तथा ।
कफालकं कणा द्राक्षा लकुचं चोचमेव च ॥१७॥
अलाबुं ग्रीवकं वीरं कर्कन्धूमधुसाह्वयम् ।
वैकङ्कतं नालिकेरशृङ्गज पकरूषकम् ॥१८॥
पिप्पली मरिचं चैव पठोलं बृहतीफलम् ।
सुगन्धमांसपीवन्ति कषायाः सर्व एव च ॥१९॥
एवमादीनि चान्यानि वराणि मधुराणि च ।
नागरं चात्र वै देयं दीर्घमूलकमव च ॥२०॥
वंशः करीरः सुरसः सर्जकं भूस्तृणानि च ।
वर्जनीयानि वक्ष्यामि श्राद्धकर्मणि नित्यशः ॥२१॥
लशुनं गृञ्जनं चैव तथा वै पल्वलोदकम् ।
करंभाद्यानि चान्यानि हीनानि रसगन्धतः ॥२२॥
श्राद्धकर्मणि वर्ज्यानि कारणं चात्र वक्ष्यते ।
पुरा देवासुरे युद्धे निर्जितस्य बलेः सुरैः ॥२३॥
शरैस्तु विक्षतादङ्गात्पतिता रक्तबिन्दवः ।
तत एतानि जातानि लशुनादीनि सर्वशः ॥२४॥
तथैव रक्तनिर्यासा लवणान्यौषरणि च ।
श्रद्धकर्मणि वर्ज्यानि याश्च नार्यो रजस्वलाः ॥२५॥
दुर्गन्धं फेनिलं चैव तथा वै पल्वलोदकम् ।
लभेद्यत्र न गौस्तृप्तिं नक्तं यच्चैव गुह्यते ॥२६॥
आविकं मार्गमौष्ट्रं च सर्वमेकशफं च यत् ।
माहिषं चामरं चैव पयो वर्ज्यं विजानता ॥२७॥
अतः परं प्रवक्ष्यामि वर्ज्यान्देशान्प्रयत्नतः ।
न द्रष्टव्यं च यैः श्राद्धं शौचाशौचं च कृत्स्नशः ॥२८॥
वन्यमूलफलैर्भक्ष्यैः श्राद्धं कुर्यात्तु श्रद्धया ।
राजनिष्ठामवाप्नोति स्वर्गमक्षयमेव च ॥२९॥
अनिष्टशब्दां संकीर्णां जन्तुप्याप्तामथाविलाम् ।
पूतिगन्धां तथा भूमिं वर्जयेच्छ्राद्धकर्मणि ॥३०॥
नद्यः सागरपर्यन्ता द्वारं दक्षिणपूर्वतः ।
त्रिशङ्कोर्वर्जयेद्देशं सर्वं द्वादश योजनम् ॥३१॥
उत्तरेण महानद्या दक्षिणेन च वैकटम् ।
देशास्त्रिशङ्कवो नाम वर्ज्या वै श्राद्धकर्मणि ॥३२॥
कारस्कराः कलिङ्गश्च सिधोरुत्तरमेव च ।
प्रनष्टाश्रमधर्माश्च वर्ज्या देशाः प्रयत्नतः ॥३३॥
नग्नादयो न पश्येयुः श्राद्धकर्म व्यवस्थितम् ।
गच्छन्त्येतैस्तु दृष्टानि न पितॄंश्च पितामहांन ॥३४॥
शंयुरुवाच
नग्नादीन्भगवन्सम्यगाचक्ष्व परिपृच्छतः ।
बृहस्पतिरुवाच
सर्वेषामेव भूतानां त्रयीसंवरणं स्मृतम् ॥३५॥
तां ये त्यजन्ति संमोहात्ते वै नग्नादयो जनाः ।
प्रलीयते वृषो यस्मिन्निरालंबश्च यो बृषे ॥३६॥
वृषं यस्तु परित्यज्य मोक्षमन्यत्र मार्गति ।
वृषो वेदाश्रमस्तस्मिन्यो वै सम्यङ्न पश्यति ॥३७॥
ब्राह्मणः क्षत्रियो वैश्यो वृषलः स न संशयः ।
पुरा देवासुरे युद्धे निर्जितैरसुरैस्तथा ॥३८॥
पाशण्डा वै कृतास्तात तेषां सृष्टिः प्रजायते ।
वृद्धश्रावकिनिर्ग्रन्थाः शाक्या जीवककार्पटाः ॥३९॥
ये धर्मं नानुवर्त्तन्ते ते वै नग्नादयो जनाः ।
वृथा जटी वृथा मुण्डी वृथा नग्नश्च यो द्विजः ॥४०॥
वृथा व्रती वृथा जापी ते वै नग्नादयो जनाः ।
कुलधर्मातिगाः शश्वद्वृथा वृत्तिकलत्रकाः ॥४१॥
कृतकर्मदिशस्त्वेते कुपथाः परिकीर्त्तिताः ।
एतैर्हि दत्तं दृष्टं वै श्राद्धं गच्छति दानवान् ॥४२॥
ब्रह्मघ्नश्च कृतघ्नश्च नास्तिको गुरुतल्पगः ।
दस्युश्चैव नृशंसश्च दर्णने तान्विसर्जयेत् ॥४३॥
पतिताः क्रूरकर्माणः सर्वांस्तान्परिवर्जयेत् ।
देवतानामृषीणां च विवादे प्रवदन्ति ये ॥४४॥
देवांश्च ब्राह्मणांश्चैव आम्नायं यस्तु निन्दति ।
असुरान्यातुधानांश्च दृष्टमेभिर्व्रजत्युत ॥४५॥
ब्राह्मं कृतयुगं प्रोक्तं त्रेता तु क्षत्र्रियं युगम् ।
वैश्यं द्वापरमित्याहुः शूद्रं कलियुगं स्मृतम् ॥४६॥
कृतेऽपूज्यन्त पितरस्त्रेतायां तु सुरास्तथा ।
युद्धानि द्वापरे नित्यं पाखण्डाश्च कलौ युगे ॥४७॥
अपमानापविद्धश्च कुक्कुटो ग्रामसूकरः ।
श्वा चैव हन्ति श्राद्धानि दर्शनादेव सर्वशः ॥४८॥
श्वसूकरोप संसृष्टं दीर्घरोगिभिरेव च ।
पतितैर्मलिनैश्चैव न द्रष्टव्यं कथञ्चन ॥४९॥
अन्नं पश्येयुरेते यत्तन्नार्हं हव्यकव्ययोः ।
उत्स्रष्टव्याः प्रधा नार्थैः संस्कारस्त्वापदो भवेत् ॥५०॥
हविषां संहतानां च पूर्वमेव विवर्जयेत् ।
सृष्टं युक्ताभिरद्भिश्च प्रोक्षणं च विधीयते ॥५१॥
सिद्धार्थकैः कृष्णतिलैः कार्यं वाप्यपवारणम् ।
गुरुसूर्याग्निवास्राणां दर्शनं वापि यत्नतः ॥५२॥
आसनारूढमन्नाद्यं पादोपहतमेव च ।
अमेध्यैर्जङ्गमैर्दृष्टं शुष्कं पर्युषितं च यत् ॥५३॥
अस्विन्नं परिदग्धं च तथैवाग्नावलेहितम् ।
शर्कराकीटपाषाणैः केशैर्यच्चाप्यु पाहृतम् ॥५४॥
पिण्याकं मथितं चैव तथा तिलयवादिषु ।
सिद्धीकृताश्च ये भक्ष्याः प्रत्यक्षलवणीकृताः ॥५५॥
दृष्ट्वा चैव तथा दोषोपात्तश्वोपहतं तथा ।
वाससा चावधूतानि वर्ज्यानि श्राद्धकर्मणि ॥५६॥
संति वेदविरोधेन केचिद्विज्ञाभिमानिनः ।
अयज्ञय तयो नाम ते ध्वंसंति यथा रजः ॥५७॥
दधिशाकं तथा भक्ष्यं तथा चौषधिवर्जितम् ।
वार्त्ताकं वर्जयेच्छ्राद्धे सर्वानभिषवानपि ।
सैन्धवं लवणं चैव तथा मानससंभवम् ॥५८॥
पवित्रे परमे ह्येते प्रत्यक्षमपि वर्तिते ।
अग्नौ प्रक्षिप्य गृङ्णीयाद्धस्तौ प्रक्षिप्य यत्नतः ॥५९॥
गमयेन्मस्तकं चैव ब्रह्मतीर्थं हि तत्स्मृतम् ।
द्रव्याणां प्रोक्षणं कार्यं तथैवावपनं पुनः ॥६०॥
निधाय चाद्भिः सिंचेत्त त्तथा चासु निवेशनम् ।
अश्ममूलफलेक्षूणां रज्जूनां चर्मणामपि ॥६१॥
वैदलानां च सर्वेषां पूर्ववच्छौचमिष्यते ।
तथा दन्तास्थि दारुणां शृङ्गाणां चावलेखनम् ॥६२॥
सर्वेषां मृन्मयानां च पुनर्दाहो विधीयते ।
मणिमुक्ताप्रवालानां जलजानां च सर्वशः ॥६३॥
सिद्धार्थकानां कल्केन तिलकल्केन वा पुनः ।
स्याच्छौचं सर्वबालानामाविकानां च सर्वशः ॥६४॥
द्विपदां चैव सर्वेषां मृद्भिरद्भिर्विधीयते ।
आद्यन्तयोस्तु शौचानामद्भिः प्रक्षालनं विधिः ॥६५॥
तथा कार्पासिकानां च भस्मना समुदाहृतम् ।
फलपुष्पपलाशानां प्लावनं चाद्भिरिष्यते ॥६६॥
प्रोक्षणं ह्युपलेपश्च भूमेश्चैवावलेखनम् ।
निषेको गोक्रमो दाहः खननं शुद्धिरिष्यते ॥६७॥
निष्क्रमोऽध्वगतो ग्रामाद्वायुपूता वसुंधरा ।
पुंसां चतुष्पदां चव मृद्भिः शौचं विधीयते ॥६८॥
एवमेव समुद्दिष्टः शौचानां विधिरुत्तमः ।
अनिर्दिष्टमतो यद्यत्तन्मे निगदतः शृणु ॥६९॥
प्रातर्गृहाद्दक्षिणपश्चिमेन गत्वा चेषुक्षेपमात्रं पदं वै ।
कुर्यात्पुरीषं हि शिरोऽवगुण्ठ्य न वै स्पृशेज्जातु शिरः करेण ॥७०॥
शुक्लैस्तृणैर्वा कार्ष्ठैर्वा पर्णैर्वेणुदलैन च ।
सुसंवृत्ते प्रदेशे च णन्तर्धाय वसुंधराम् ॥७१॥
उद्धृत्योदकमादाय मृत्तिकां चैव वाग्यतः ।
दिवा उदङ्मुखः कुर्याद्रात्रौ वै दक्षिणामुखः ॥७२॥
दक्षिणेन तु हस्तेन गृहीत्वाथ कमण्डलुम् ।
शौचं वामेन हस्तेन गुदे तिस्रस्तु मृत्तिकाः ॥७३॥
दश चापि शनैर्दद्याद्वामहस्ते क्रमेण तु ।
उभाभ्यां वा पुनर्दद्याद्द्वाभ्यां सप्त तु मृत्तिकाः ॥७४॥
मृदा प्रक्षाल्य पादौ तु आचम्य च यथाविधि ।
आपस्त्वाद्यास्त्रयश्चैव सुर्याग्न्यनिलदेवताः ॥७५॥
कुर्यात्संनिहितो नित्यमच्छिद्रे द्वे कमण्डलू ।
ःंसवार्यवनैरेव यथावत्पादधावनम् ॥७६॥
आचमनं द्वितीयं च देवकार्ये ततोऽपरम् ।
उपवासस्त्रिरात्रं तु दुष्टमुक्ते ह्युदात्दृतः ॥७७॥
विप्रकृष्टेषु कृच्छ्रं च प्राय श्चित्तमुदाहृतम् ।
स्पृष्ट्वा श्वानं श्वपाकं च तप्तकृच्छ्रं समाचरेत् ॥७८॥
मानुषास्थीनि संस्पृश्य उपोष्यं शुचिकारणात् ।
त्रिरात्रमुक्तं सस्नेहान्येकरात्रमतोऽन्यथा ॥७९॥
कारस्कराः कलिङ्गाश्च तथान्ध्रशबरादयः ।
पीत्वा चापोभूतिलपा गत्वा चापि युगं धरम् ॥८०॥
सिंधोरुत्तरपर्यन्तं तथोदीच्यन्तरं नरः ।
पापदेशाश्च ये केचित्पापैरध्युषिता जनैः ॥८१॥
शिष्टैस्तु वर्जिता ये वै ब्राह्मणैल्वेदपारगैः ।
गच्छतां रागसंमोहात्तेषां पापं न गच्छति ॥८२॥
गत्वा देशानपुण्यांस्तु कृत्स्नं पापं समश्नुते ।
आरुह्य भृगुतुङ्गं तु गत्वा पुण्यां सरस्वतीम् ॥८३॥
आपगां च नदीं रम्यां गङ्गां देवीं महानदीम् ।
हिमवत्प्रभवा नद्यो याश्चान्या ऋषिपूचिताः ॥८४॥
सरस्तीर्थानि सर्वाणि नदीः प्रस्रवणानि च ।
गत्वैतान्मुच्यते पापैः स्वर्गे चात्यन्तमश्नुते ॥८५॥
दशरात्रमशौचं तु प्रोक्तं मृतकमूतके ।
ब्रह्मणस्य द्वादशाहं क्षत्रियस्य विधीयते ॥८६॥
अर्द्धमासं तु वैश्यस्य मासं शूद्रस्य चैव ह ।
उदक्या सर्ववर्णानां चतूरात्रेण शुध्यति ॥८७॥
उदक्यां सूतिकां चैव श्वानमन्तावसायिनम् ।
नग्नादीन्मृतहारांश्च स्पृष्ट्वा शौचं विधीयते ॥८८॥
स्नात्वा सचैलो मृद्भिस्तु शुद्धो द्वादशभिर्द्विजः ।
एतदेव भवेच्छौचं मैथुने वमने तथा ॥८९॥
मृदा प्रक्षाल्यहस्तौ तु कुर्याच्छौचं च मानवः ।
प्रक्षाल्य चाद्भिः स्नात्वा तु हस्तौ चैव पुनर्मृदा ॥९०॥
त्रिः कृत्वा द्वादशान्तानि यथा लेपस्तथा भवेत् ।
एवं शौचविधिर्दृष्टः सर्वकृत्येषु नित्यदा ॥९१॥
परिदद्यान्मृदस्तिस्रस्तिस्रः पादावसेचने ।
अरण्ये शौचमेतत्तु ग्राम्यं वक्ष्याम्यतः परम् ॥९२॥
मृदः पञ्चदशामेध्या हस्तादीनां विशेषतः ।
अतिरिक्तमृदं दद्यान्मृदन्ते त्वद्भिरेव च ॥९३॥
अद्भिरव्यक्तके शौचमेतच्चैतेषु कृत्स्नशः ।
कण्ठं शिरो वा आवृत्य रथ्यापणगतोऽपि वा ॥९४॥
अकृत्वा पादयोः शौचमाचान्तोऽप्यशुचिर्भवेत् ।
पक्षाल्य पात्रं निक्षिप्य आचम्याभ्युक्षणं ततः ॥९५॥
द्रव्यस्यान्यस्य तु तथा कुर्यादभ्युक्षणं ततः ।
पुष्पादीनां तृणानां च प्रोक्षणं हविषां तथा ॥९६॥
परात्दृतानां द्रव्याणां निधायाभ्युक्षणं तथा ।
नाप्रोक्षितं स्पृशेत्किञ्चिच्छ्रद्धे दैवेऽथ वा पुनः ॥९७॥
उत्तरोणाहरेद्द्रव्यं दक्षिणेन विसर्जयेत् ।
संवृते यजमानस्तु सर्वश्राद्धे समाहरेत् ॥९८॥
उच्छिष्टे स्याद्विपर्यासोदैवे पित्र्येतथैव च ।
दक्षिणेन तु हस्तेन दक्षिणां वेदिमालभेत् ॥९९॥
कराभ्यामेव देवानां पितॄणां विकरं तथा ।
क्षरणं स्वप्नयोश्चैव तथा मूत्रपुरीषयो ॥१००॥
निष्ठीविते तथाभ्यङ्गे भुत्क्वा विपरिधाय च ।
उच्छिष्टानां च संस्पर्शे तथा पादावसेचने ॥१०१॥
उच्छिष्टस्य च संभाषादशित्वा प्रयतस्य वा ।
संदेहेषु च सर्वेषु शिखां मुक्त्वा तथैव च ॥१०२॥
विना यज्ञोपवीतेन मोघं तत्समुपस्पृशेत् ।
उष्ट्रस्यावेश्च संस्पर्शे दर्शनेऽवाच्यवाचिनाम् ॥१०३॥
जिह्वया चैव संस्वृश्य देतासक्तं तथैव च ।
सशब्दमेगुलीभिर्वा पतितं वा विलोकयन् ॥१०४॥
स्थितो यश्चाचमेन्मोहदाचान्तोऽप्यशुचिर्भवेत् ।
उपविश्य शुचौ देशे प्रयतः प्रागुदङ्मुखः ॥१०५॥
पादौ प्रक्षाल्य हस्तौ च अन्तर्जानु त्वपः स्पृशेत् ।
प्रसन्नस्त्रिः पिबेद्वारि प्रयतः सुसमाहितः ॥१०६॥
द्विरेव मार्जनं कुर्यात्सकृदभ्युक्षणं ततः ।
खानि मूर्द्धानमात्मानं हस्तौ पादौ तथैव च ॥१०७॥
अभ्युक्षयेत्ततस्तस्य यद्यन्मीमांसित भवेत् ।
एवमाचमतस्तस्य वेदा यज्ञास्तपांसि च ॥१०८॥
दानानि व्रतचर्याश्च भवन्ति सफलानि वै ।
क्रियां यः कुरुते मोहादनासम्येह नास्तिकः ॥१०९॥
भवन्ति हि वृथा तस्य क्रिया ह्येता न संशयः ।
वाक्कायबुद्धिपूतानि अस्पृष्टं वाप्यनिन्दितम् ॥११०॥
ज्ञेयान्येतानि मेध्यानि दुष्टमेध्यो विपर्यये ।
मनोवाक्कायमग्निश्च कालश्चैवोपलेखनम् ॥१११॥
विख्यापनं च शौचानां नित्यमज्ञानमेव वा ।
अतोऽन्यथा तु यः कुर्यान्मोहाच्छौचस्य संकरम् ॥११२॥
पिशाचान्यातुधानांश्च फलं गच्छत्यसंशयम् ।
शौचे चाश्रद्दधानो हि म्लेच्छजातिषु जायते १४.११३॥
अयज्वा चैव पापश्च तिर्यग्योनिगतोऽपि च ।
शौचेन मोक्षं कुर्वाणः स्वर्गवासी भवेन्नरः ॥११४॥
शुचिकामा हि देवा वै देवैश्चैतदुदाहृतम् ।
बीभत्सानशुचींश्चैव वर्जयन्ति सुराः सदा ॥११५॥
त्रीणि शौचानि कुर्वन्ति न्यायतः शुभकर्मिणः ।
ब्रह्मण्यायाति थेयाय शौचयुक्ताय धीमते ॥११६॥
पितृभक्ताय दान्ताय सानुक्रोशाय च द्विजाः ।
तस्मै देवाः प्रयच्छन्ति पितरः श्रीविवर्द्धनाः ।
मनसाकाङ्क्षितान्कामांस्त्रैलोक्यप्रवरानपि ॥११७॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे श्राद्धकल्पेऽशौचविधिर्नाम चतुर्दशोऽध्योयः॥१४॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP