संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः| अध्यायः १४ मध्यम भागः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ मध्यम भागः - अध्यायः १४ ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे. Tags : brahmand puranpuranपुराणब्रह्माण्ड पुराणसंस्कृत अध्यायः १४ Translation - भाषांतर बृहस्पतिरुवाचअतः परं प्रवक्ष्यामि सर्वदानफलानि च ।श्राद्धकर्मणि मेध्यानि वर्जनीयानि यानि च ॥१॥हिमप्रपतने कुर्यादा हरेद्वा हिमं ततः ।अग्निहोत्रमुपायुष्यं पवित्रं परमं हितम् ॥२॥नक्तं तु वर्जयेच्छ्राद्धं राहोरन्यत्र दर्शनात् ।सर्वस्वेनापि कर्त्तव्यङ्क्षिप्रं वै राहुदर्शने ॥३॥उपरागे न कुर्याद्यः पङ्के गौरिव सीदति ।कुर्वाणस्तत्तरेत्पापं सती नौरिव सागरे ॥४॥वैश्वदेवं च सौम्यं च खड्गमांसं परं हविः ।विषाणवर्जं खड्गस्य मात्सर्यान्नाशयामहे ॥५॥त्वाष्ट्रा वै यजमानेन देवेशेन महात्मना ।पिबञ्छचीपतिः सोमं पृथिव्यां मध्यगः पुरा ॥६॥श्यामाकास्तत्र उत्पन्नाः पित्रर्थमपरजिताः ।विप्रुषस्तस्य नासाभ्यामासक्ताभ्यां तथेक्षवः ॥७॥श्रेष्मलाः शीतलाः स्निग्धा मधुराश्च तथेक्षवः ।श्यामाकैरिक्षुभिश्चैव पितॄणां सर्वकामिकम् ॥८॥कुर्यादाग्रयणं यस्तु स शीघ्रं सिद्धिमाप्नुयात् ।श्यामाकास्तु द्विनामानो विहिता यजनेस्मृते ॥९॥यस्मात्तेदेवसृष्टास्तु तस्मात्ते चाक्षयाः स्मृताः ।प्रसातिकाः प्रियङ्गुश्च मुद्गाश्च हरितास्तथा ॥१०॥एतान्यपि समानानि श्यामाकानां गुणैस्तु तैः ।कृष्णमाषास्तिलाश्चैव श्रेष्ठास्तु यवशालयः ॥११॥महायवाश्च निष्पावास्तथैव च मधूलिकाः ।कृष्णाश्चैवान्नलोहाश्च गर्ह्याः स्युः श्राद्धकर्मणि ॥१२॥राजमाषास्तथान्ये वै वर्जनीयाः प्रयत्नतः ।मसूराश्चैव पुण्याश्च कुसुंभं श्रीनिकेतनम् ॥१३॥वर्षास्वतियवा नित्यं तथा वृषकवासकौ ।बिल्वामलकमृद्वीकापनसाम्रातदाडिमाः ॥१४॥तवशोलंयताक्षौद्रखर्जूराम्रलानि च ।खशेरुकोविदार्यश्च तालकन्दं तथा विसम् ॥१५॥तमालं शतकन्दं च मद्वसूचान्तकान्दिकी ।कालेयं कालशाकं च भूरिपूर्णा सुवर्चला ॥१६॥मांसाक्षं दुविशाकं च बुबुचेता कुरस्तथा ।कफालकं कणा द्राक्षा लकुचं चोचमेव च ॥१७॥अलाबुं ग्रीवकं वीरं कर्कन्धूमधुसाह्वयम् ।वैकङ्कतं नालिकेरशृङ्गज पकरूषकम् ॥१८॥पिप्पली मरिचं चैव पठोलं बृहतीफलम् ।सुगन्धमांसपीवन्ति कषायाः सर्व एव च ॥१९॥एवमादीनि चान्यानि वराणि मधुराणि च ।नागरं चात्र वै देयं दीर्घमूलकमव च ॥२०॥वंशः करीरः सुरसः सर्जकं भूस्तृणानि च ।वर्जनीयानि वक्ष्यामि श्राद्धकर्मणि नित्यशः ॥२१॥लशुनं गृञ्जनं चैव तथा वै पल्वलोदकम् ।करंभाद्यानि चान्यानि हीनानि रसगन्धतः ॥२२॥श्राद्धकर्मणि वर्ज्यानि कारणं चात्र वक्ष्यते ।पुरा देवासुरे युद्धे निर्जितस्य बलेः सुरैः ॥२३॥शरैस्तु विक्षतादङ्गात्पतिता रक्तबिन्दवः ।तत एतानि जातानि लशुनादीनि सर्वशः ॥२४॥तथैव रक्तनिर्यासा लवणान्यौषरणि च ।श्रद्धकर्मणि वर्ज्यानि याश्च नार्यो रजस्वलाः ॥२५॥दुर्गन्धं फेनिलं चैव तथा वै पल्वलोदकम् ।लभेद्यत्र न गौस्तृप्तिं नक्तं यच्चैव गुह्यते ॥२६॥आविकं मार्गमौष्ट्रं च सर्वमेकशफं च यत् ।माहिषं चामरं चैव पयो वर्ज्यं विजानता ॥२७॥अतः परं प्रवक्ष्यामि वर्ज्यान्देशान्प्रयत्नतः ।न द्रष्टव्यं च यैः श्राद्धं शौचाशौचं च कृत्स्नशः ॥२८॥वन्यमूलफलैर्भक्ष्यैः श्राद्धं कुर्यात्तु श्रद्धया ।राजनिष्ठामवाप्नोति स्वर्गमक्षयमेव च ॥२९॥अनिष्टशब्दां संकीर्णां जन्तुप्याप्तामथाविलाम् ।पूतिगन्धां तथा भूमिं वर्जयेच्छ्राद्धकर्मणि ॥३०॥नद्यः सागरपर्यन्ता द्वारं दक्षिणपूर्वतः ।त्रिशङ्कोर्वर्जयेद्देशं सर्वं द्वादश योजनम् ॥३१॥उत्तरेण महानद्या दक्षिणेन च वैकटम् ।देशास्त्रिशङ्कवो नाम वर्ज्या वै श्राद्धकर्मणि ॥३२॥कारस्कराः कलिङ्गश्च सिधोरुत्तरमेव च ।प्रनष्टाश्रमधर्माश्च वर्ज्या देशाः प्रयत्नतः ॥३३॥नग्नादयो न पश्येयुः श्राद्धकर्म व्यवस्थितम् ।गच्छन्त्येतैस्तु दृष्टानि न पितॄंश्च पितामहांन ॥३४॥शंयुरुवाचनग्नादीन्भगवन्सम्यगाचक्ष्व परिपृच्छतः ।बृहस्पतिरुवाचसर्वेषामेव भूतानां त्रयीसंवरणं स्मृतम् ॥३५॥तां ये त्यजन्ति संमोहात्ते वै नग्नादयो जनाः ।प्रलीयते वृषो यस्मिन्निरालंबश्च यो बृषे ॥३६॥वृषं यस्तु परित्यज्य मोक्षमन्यत्र मार्गति ।वृषो वेदाश्रमस्तस्मिन्यो वै सम्यङ्न पश्यति ॥३७॥ब्राह्मणः क्षत्रियो वैश्यो वृषलः स न संशयः ।पुरा देवासुरे युद्धे निर्जितैरसुरैस्तथा ॥३८॥पाशण्डा वै कृतास्तात तेषां सृष्टिः प्रजायते ।वृद्धश्रावकिनिर्ग्रन्थाः शाक्या जीवककार्पटाः ॥३९॥ये धर्मं नानुवर्त्तन्ते ते वै नग्नादयो जनाः ।वृथा जटी वृथा मुण्डी वृथा नग्नश्च यो द्विजः ॥४०॥वृथा व्रती वृथा जापी ते वै नग्नादयो जनाः ।कुलधर्मातिगाः शश्वद्वृथा वृत्तिकलत्रकाः ॥४१॥कृतकर्मदिशस्त्वेते कुपथाः परिकीर्त्तिताः ।एतैर्हि दत्तं दृष्टं वै श्राद्धं गच्छति दानवान् ॥४२॥ब्रह्मघ्नश्च कृतघ्नश्च नास्तिको गुरुतल्पगः ।दस्युश्चैव नृशंसश्च दर्णने तान्विसर्जयेत् ॥४३॥पतिताः क्रूरकर्माणः सर्वांस्तान्परिवर्जयेत् ।देवतानामृषीणां च विवादे प्रवदन्ति ये ॥४४॥देवांश्च ब्राह्मणांश्चैव आम्नायं यस्तु निन्दति ।असुरान्यातुधानांश्च दृष्टमेभिर्व्रजत्युत ॥४५॥ब्राह्मं कृतयुगं प्रोक्तं त्रेता तु क्षत्र्रियं युगम् ।वैश्यं द्वापरमित्याहुः शूद्रं कलियुगं स्मृतम् ॥४६॥कृतेऽपूज्यन्त पितरस्त्रेतायां तु सुरास्तथा ।युद्धानि द्वापरे नित्यं पाखण्डाश्च कलौ युगे ॥४७॥अपमानापविद्धश्च कुक्कुटो ग्रामसूकरः ।श्वा चैव हन्ति श्राद्धानि दर्शनादेव सर्वशः ॥४८॥श्वसूकरोप संसृष्टं दीर्घरोगिभिरेव च ।पतितैर्मलिनैश्चैव न द्रष्टव्यं कथञ्चन ॥४९॥अन्नं पश्येयुरेते यत्तन्नार्हं हव्यकव्ययोः ।उत्स्रष्टव्याः प्रधा नार्थैः संस्कारस्त्वापदो भवेत् ॥५०॥हविषां संहतानां च पूर्वमेव विवर्जयेत् ।सृष्टं युक्ताभिरद्भिश्च प्रोक्षणं च विधीयते ॥५१॥सिद्धार्थकैः कृष्णतिलैः कार्यं वाप्यपवारणम् ।गुरुसूर्याग्निवास्राणां दर्शनं वापि यत्नतः ॥५२॥आसनारूढमन्नाद्यं पादोपहतमेव च ।अमेध्यैर्जङ्गमैर्दृष्टं शुष्कं पर्युषितं च यत् ॥५३॥अस्विन्नं परिदग्धं च तथैवाग्नावलेहितम् ।शर्कराकीटपाषाणैः केशैर्यच्चाप्यु पाहृतम् ॥५४॥पिण्याकं मथितं चैव तथा तिलयवादिषु ।सिद्धीकृताश्च ये भक्ष्याः प्रत्यक्षलवणीकृताः ॥५५॥दृष्ट्वा चैव तथा दोषोपात्तश्वोपहतं तथा ।वाससा चावधूतानि वर्ज्यानि श्राद्धकर्मणि ॥५६॥संति वेदविरोधेन केचिद्विज्ञाभिमानिनः ।अयज्ञय तयो नाम ते ध्वंसंति यथा रजः ॥५७॥दधिशाकं तथा भक्ष्यं तथा चौषधिवर्जितम् ।वार्त्ताकं वर्जयेच्छ्राद्धे सर्वानभिषवानपि ।सैन्धवं लवणं चैव तथा मानससंभवम् ॥५८॥पवित्रे परमे ह्येते प्रत्यक्षमपि वर्तिते ।अग्नौ प्रक्षिप्य गृङ्णीयाद्धस्तौ प्रक्षिप्य यत्नतः ॥५९॥गमयेन्मस्तकं चैव ब्रह्मतीर्थं हि तत्स्मृतम् ।द्रव्याणां प्रोक्षणं कार्यं तथैवावपनं पुनः ॥६०॥निधाय चाद्भिः सिंचेत्त त्तथा चासु निवेशनम् ।अश्ममूलफलेक्षूणां रज्जूनां चर्मणामपि ॥६१॥वैदलानां च सर्वेषां पूर्ववच्छौचमिष्यते ।तथा दन्तास्थि दारुणां शृङ्गाणां चावलेखनम् ॥६२॥सर्वेषां मृन्मयानां च पुनर्दाहो विधीयते ।मणिमुक्ताप्रवालानां जलजानां च सर्वशः ॥६३॥सिद्धार्थकानां कल्केन तिलकल्केन वा पुनः ।स्याच्छौचं सर्वबालानामाविकानां च सर्वशः ॥६४॥द्विपदां चैव सर्वेषां मृद्भिरद्भिर्विधीयते ।आद्यन्तयोस्तु शौचानामद्भिः प्रक्षालनं विधिः ॥६५॥तथा कार्पासिकानां च भस्मना समुदाहृतम् ।फलपुष्पपलाशानां प्लावनं चाद्भिरिष्यते ॥६६॥प्रोक्षणं ह्युपलेपश्च भूमेश्चैवावलेखनम् ।निषेको गोक्रमो दाहः खननं शुद्धिरिष्यते ॥६७॥निष्क्रमोऽध्वगतो ग्रामाद्वायुपूता वसुंधरा ।पुंसां चतुष्पदां चव मृद्भिः शौचं विधीयते ॥६८॥एवमेव समुद्दिष्टः शौचानां विधिरुत्तमः ।अनिर्दिष्टमतो यद्यत्तन्मे निगदतः शृणु ॥६९॥प्रातर्गृहाद्दक्षिणपश्चिमेन गत्वा चेषुक्षेपमात्रं पदं वै ।कुर्यात्पुरीषं हि शिरोऽवगुण्ठ्य न वै स्पृशेज्जातु शिरः करेण ॥७०॥शुक्लैस्तृणैर्वा कार्ष्ठैर्वा पर्णैर्वेणुदलैन च ।सुसंवृत्ते प्रदेशे च णन्तर्धाय वसुंधराम् ॥७१॥उद्धृत्योदकमादाय मृत्तिकां चैव वाग्यतः ।दिवा उदङ्मुखः कुर्याद्रात्रौ वै दक्षिणामुखः ॥७२॥दक्षिणेन तु हस्तेन गृहीत्वाथ कमण्डलुम् ।शौचं वामेन हस्तेन गुदे तिस्रस्तु मृत्तिकाः ॥७३॥दश चापि शनैर्दद्याद्वामहस्ते क्रमेण तु ।उभाभ्यां वा पुनर्दद्याद्द्वाभ्यां सप्त तु मृत्तिकाः ॥७४॥मृदा प्रक्षाल्य पादौ तु आचम्य च यथाविधि ।आपस्त्वाद्यास्त्रयश्चैव सुर्याग्न्यनिलदेवताः ॥७५॥कुर्यात्संनिहितो नित्यमच्छिद्रे द्वे कमण्डलू ।ःंसवार्यवनैरेव यथावत्पादधावनम् ॥७६॥आचमनं द्वितीयं च देवकार्ये ततोऽपरम् ।उपवासस्त्रिरात्रं तु दुष्टमुक्ते ह्युदात्दृतः ॥७७॥विप्रकृष्टेषु कृच्छ्रं च प्राय श्चित्तमुदाहृतम् ।स्पृष्ट्वा श्वानं श्वपाकं च तप्तकृच्छ्रं समाचरेत् ॥७८॥मानुषास्थीनि संस्पृश्य उपोष्यं शुचिकारणात् ।त्रिरात्रमुक्तं सस्नेहान्येकरात्रमतोऽन्यथा ॥७९॥कारस्कराः कलिङ्गाश्च तथान्ध्रशबरादयः ।पीत्वा चापोभूतिलपा गत्वा चापि युगं धरम् ॥८०॥सिंधोरुत्तरपर्यन्तं तथोदीच्यन्तरं नरः ।पापदेशाश्च ये केचित्पापैरध्युषिता जनैः ॥८१॥शिष्टैस्तु वर्जिता ये वै ब्राह्मणैल्वेदपारगैः ।गच्छतां रागसंमोहात्तेषां पापं न गच्छति ॥८२॥गत्वा देशानपुण्यांस्तु कृत्स्नं पापं समश्नुते ।आरुह्य भृगुतुङ्गं तु गत्वा पुण्यां सरस्वतीम् ॥८३॥आपगां च नदीं रम्यां गङ्गां देवीं महानदीम् ।हिमवत्प्रभवा नद्यो याश्चान्या ऋषिपूचिताः ॥८४॥सरस्तीर्थानि सर्वाणि नदीः प्रस्रवणानि च ।गत्वैतान्मुच्यते पापैः स्वर्गे चात्यन्तमश्नुते ॥८५॥दशरात्रमशौचं तु प्रोक्तं मृतकमूतके ।ब्रह्मणस्य द्वादशाहं क्षत्रियस्य विधीयते ॥८६॥अर्द्धमासं तु वैश्यस्य मासं शूद्रस्य चैव ह ।उदक्या सर्ववर्णानां चतूरात्रेण शुध्यति ॥८७॥उदक्यां सूतिकां चैव श्वानमन्तावसायिनम् ।नग्नादीन्मृतहारांश्च स्पृष्ट्वा शौचं विधीयते ॥८८॥स्नात्वा सचैलो मृद्भिस्तु शुद्धो द्वादशभिर्द्विजः ।एतदेव भवेच्छौचं मैथुने वमने तथा ॥८९॥मृदा प्रक्षाल्यहस्तौ तु कुर्याच्छौचं च मानवः ।प्रक्षाल्य चाद्भिः स्नात्वा तु हस्तौ चैव पुनर्मृदा ॥९०॥त्रिः कृत्वा द्वादशान्तानि यथा लेपस्तथा भवेत् ।एवं शौचविधिर्दृष्टः सर्वकृत्येषु नित्यदा ॥९१॥परिदद्यान्मृदस्तिस्रस्तिस्रः पादावसेचने ।अरण्ये शौचमेतत्तु ग्राम्यं वक्ष्याम्यतः परम् ॥९२॥मृदः पञ्चदशामेध्या हस्तादीनां विशेषतः ।अतिरिक्तमृदं दद्यान्मृदन्ते त्वद्भिरेव च ॥९३॥अद्भिरव्यक्तके शौचमेतच्चैतेषु कृत्स्नशः ।कण्ठं शिरो वा आवृत्य रथ्यापणगतोऽपि वा ॥९४॥अकृत्वा पादयोः शौचमाचान्तोऽप्यशुचिर्भवेत् ।पक्षाल्य पात्रं निक्षिप्य आचम्याभ्युक्षणं ततः ॥९५॥द्रव्यस्यान्यस्य तु तथा कुर्यादभ्युक्षणं ततः ।पुष्पादीनां तृणानां च प्रोक्षणं हविषां तथा ॥९६॥परात्दृतानां द्रव्याणां निधायाभ्युक्षणं तथा ।नाप्रोक्षितं स्पृशेत्किञ्चिच्छ्रद्धे दैवेऽथ वा पुनः ॥९७॥उत्तरोणाहरेद्द्रव्यं दक्षिणेन विसर्जयेत् ।संवृते यजमानस्तु सर्वश्राद्धे समाहरेत् ॥९८॥उच्छिष्टे स्याद्विपर्यासोदैवे पित्र्येतथैव च ।दक्षिणेन तु हस्तेन दक्षिणां वेदिमालभेत् ॥९९॥कराभ्यामेव देवानां पितॄणां विकरं तथा ।क्षरणं स्वप्नयोश्चैव तथा मूत्रपुरीषयो ॥१००॥निष्ठीविते तथाभ्यङ्गे भुत्क्वा विपरिधाय च ।उच्छिष्टानां च संस्पर्शे तथा पादावसेचने ॥१०१॥उच्छिष्टस्य च संभाषादशित्वा प्रयतस्य वा ।संदेहेषु च सर्वेषु शिखां मुक्त्वा तथैव च ॥१०२॥विना यज्ञोपवीतेन मोघं तत्समुपस्पृशेत् ।उष्ट्रस्यावेश्च संस्पर्शे दर्शनेऽवाच्यवाचिनाम् ॥१०३॥जिह्वया चैव संस्वृश्य देतासक्तं तथैव च ।सशब्दमेगुलीभिर्वा पतितं वा विलोकयन् ॥१०४॥स्थितो यश्चाचमेन्मोहदाचान्तोऽप्यशुचिर्भवेत् ।उपविश्य शुचौ देशे प्रयतः प्रागुदङ्मुखः ॥१०५॥पादौ प्रक्षाल्य हस्तौ च अन्तर्जानु त्वपः स्पृशेत् ।प्रसन्नस्त्रिः पिबेद्वारि प्रयतः सुसमाहितः ॥१०६॥द्विरेव मार्जनं कुर्यात्सकृदभ्युक्षणं ततः ।खानि मूर्द्धानमात्मानं हस्तौ पादौ तथैव च ॥१०७॥अभ्युक्षयेत्ततस्तस्य यद्यन्मीमांसित भवेत् ।एवमाचमतस्तस्य वेदा यज्ञास्तपांसि च ॥१०८॥दानानि व्रतचर्याश्च भवन्ति सफलानि वै ।क्रियां यः कुरुते मोहादनासम्येह नास्तिकः ॥१०९॥भवन्ति हि वृथा तस्य क्रिया ह्येता न संशयः ।वाक्कायबुद्धिपूतानि अस्पृष्टं वाप्यनिन्दितम् ॥११०॥ज्ञेयान्येतानि मेध्यानि दुष्टमेध्यो विपर्यये ।मनोवाक्कायमग्निश्च कालश्चैवोपलेखनम् ॥१११॥विख्यापनं च शौचानां नित्यमज्ञानमेव वा ।अतोऽन्यथा तु यः कुर्यान्मोहाच्छौचस्य संकरम् ॥११२॥पिशाचान्यातुधानांश्च फलं गच्छत्यसंशयम् ।शौचे चाश्रद्दधानो हि म्लेच्छजातिषु जायते १४.११३॥अयज्वा चैव पापश्च तिर्यग्योनिगतोऽपि च ।शौचेन मोक्षं कुर्वाणः स्वर्गवासी भवेन्नरः ॥११४॥शुचिकामा हि देवा वै देवैश्चैतदुदाहृतम् ।बीभत्सानशुचींश्चैव वर्जयन्ति सुराः सदा ॥११५॥त्रीणि शौचानि कुर्वन्ति न्यायतः शुभकर्मिणः ।ब्रह्मण्यायाति थेयाय शौचयुक्ताय धीमते ॥११६॥पितृभक्ताय दान्ताय सानुक्रोशाय च द्विजाः ।तस्मै देवाः प्रयच्छन्ति पितरः श्रीविवर्द्धनाः ।मनसाकाङ्क्षितान्कामांस्त्रैलोक्यप्रवरानपि ॥११७॥इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे श्राद्धकल्पेऽशौचविधिर्नाम चतुर्दशोऽध्योयः॥१४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP