संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः| अध्यायः ५७ मध्यम भागः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ मध्यम भागः - अध्यायः ५७ ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे. Tags : brahmand puranpuranपुराणब्रह्माण्ड पुराणसंस्कृत अध्यायः ५७ Translation - भाषांतर जैमिनिरुवाचततः शुष्कसुमित्राद्या मुनयः शंसितव्रताः ।ययुर्दिदृक्षवो रामं महेन्द्रमचलं प्रति ॥१॥अतीत्य सुबहून्देशान्वनानि सरितस्तथा ।आसेदुरचलश्रेष्ठं क्रमेण मुनिपुङ्गवाः ॥२॥तमारुह्य शनैस्तस्यख्यातमाश्रममण्डलम् ।प्रशान्तक्रूरसत्त्वाढ्यं शुभं मध्ये तपोवनम् ॥३॥सर्वर्त्तुफलपुष्पाढ्यतरुखण्डमनोहरम् ।स्निग्धच्छायमनौपम्यं स्वामोदिसुखमारुतम् ॥४॥तं तदाश्रममासाद्य ब्रह्मघोषेण नादितम् ।विविशुर्त्दृष्टमनसो यथावृद्धपुरस्सरम् ॥५॥ब्रह्मासने सुखासीनं मृदुकृष्णाजिनोत्तरे ।शिष्यैः परिवृतं शान्तं ददृशुस्ते तपोधनाः ॥६॥कालाग्निमिव लोकांस्त्रीन्दग्ध्वा पूर्वं निजेच्छया ।तद्दोषशान्त्यै तपसि प्रवृत्तमिव्देहिनम् ॥७॥ते समेत्य भृगुश्रेष्ठं विनयाचारशालिनः ।ववन्दिरे महामौनं भक्तिप्रणतकन्धराः ॥८॥ततस्तानागतान्दृष्ट्वा मुनीन्भृगुकुलोद्वहः ।अर्घपाद्यादिभिः सम्यक्पूजयामास सादरम् ॥९॥तानासीनान्कृतातिथ्यानृषीन्देशान्तरागतान् ।उवाच भृगुशार्दूलः स्मितपूर्वमिदं वचः ॥१०॥स्वागतं वो महाभागा यूयं सर्वे समागताः ।करणीयं किमस्माभिर्वदध्वमविचारितम् ॥११॥ततस्ते मुनयो रामं प्रणम्येदमथाब्रुवन् ।अवेह्यस्मान्मुनिश्रेष्ठ गोकर्णनिलयान्मुनीन् ॥१२॥खनद्भिः सागरैर्भूमिं कस्मिंश्चित्कारणान्तरे ।सतीर्थं तन्महाक्षेत्रं पतितं सागरांभसि ॥१३॥उत्सारितार्मवजलं क्षेत्रं तत्सर्वपावनम् ।उपलब्धुमभीप्सामो भवतस्तु न संशयः ॥१४॥विष्णोरंशेन संजातो भवान्भृगुकुले किल ।तस्मात्कर्तुमशक्यं ते त्रैलोक्येऽपि न किञ्चन ॥१५॥वाञ्छितार्थप्रदो लोके त्वमेवेत्यनुशुश्रुम ।वयं त्वामागताः सर्वे रामैतदभियाचितुम् ॥१६॥स त्वमात्मप्रभावेण क्षेत्रप्रवरमद्य तत् ।दातुमर्हसि विप्रेन्द्र समुत्सार्यार्मवोदकम् ॥१७॥राम उवाचएतत्सर्वमशेषण विदितं मे तपोधनाः ।करणीयं च वः कृत्यं मया नात्र विचारणा ॥१८॥किं तु युष्मदभिप्रेतं कर्म लोके सुदारुणम् ।शस्त्रसंग्रहणाच्छक्यं मयापि न तदन्यथा ॥१९॥दत्तसर्वाभयोऽहं वै न्यस्तशस्त्रः शमान्वितः ।तपः समास्थितश्चर्तु प्रागेव पितृ शासनात् ॥२०॥न जातु शस्त्रग्रहणं करिष्यामीत्यहं पुरा ।प्रतिश्रुत्य सतां मध्ये तपः कर्त्तुमिहानघाः ॥२१॥शस्त्रग्रहणसाध्यत्वाद्युष्मदीप्सितवस्तुनः ।किङ्कर्त्तव्यं मयात्रेति मम डोलायते मनः ॥२२॥शुष्क उपाच ।सतां संरक्षणार्थाय शस्त्रसंग्रहणं तु यत् ।तन्नच्यावयते सत्यद्यथोक्तं ब्रह्मणा पुरा ॥२३॥तस्मादस्मद्धितार्थाय भवता ग्राह्यमायुधम् ।धर्म एव महांस्तेन चरितस्ते भविष्यति ॥२४॥जैमिनिरुवाचएवं संप्रार्थ्यमानस्तु मुनिभिर्भृगुपुङ्गवः ।तमनुद्रुत्य मेधावी धर्ममुद्दिश्य केवलम् ॥२५॥स तैः सह मुनिश्रेष्ठो दिशं दक्षिणपश्चिमाम् ।समुद्दिश्य चचौ राजन्द्रष्टुकामः सरित्पतिम् ॥२६॥स सह्यमचलश्रेष्ठमवतीर्य भृगूद्वहः ।तत्परं सरितां पत्युस्तीरं प्राप महामनाः ॥२७॥स ददर्श महाभागः परितो मारुताकुलम् ।आकरं सर्वरत्नानां पूर्यमाणमनारतम् ॥२८॥अपरिज्ञेयगांभीर्यं महातामिव मानसम् ।दुष्पारपारं सर्वस्य विविधग्रहसंहतिम् ॥२९॥अप्रधृष्य तमं लोके धातारमिव केवलम् ।आत्मानमिव चात्मत्वे न्यक्कृताखिलमुद्धतम् ॥३०॥आश्रयं सर्वसत्त्वानामापगानां च पार्थिवः ।अत्यर्थचपलोत्तुगतरङ्गशतमालिनम् ॥३१॥उपान्तोपलसंघातकुहरान्तरसंश्रयात् ।विशीर्यमाणलहरीशतफेनौघसोभितम् ॥३२॥गंभीरघोषं जलधिं पश्यन्मुनिगणैः सह ।संसेव्यमानस्तरलैर्लहरीकणशीतलैः ॥३३॥मुहूर्त्तमिव राजेन्द्र तीरेनदनदीपतेः ।विशश्रमे महाबाहुर्द्रष्टुकामः प्रचेतसम् ॥३४॥ततो रामः समुत्थाय दक्षिणाभिमुखः स्थितः ।मेघगंभिरया वाचा वरुणं वाक्यमब्रवीत् ॥३५॥अहं मुनिगणैः सार्द्धमागतस्त्वद्दिदृक्षया ।तस्मात्स्वरूपधृङ्मह्यं प्रचेतो देहि दर्शनम् ॥३६॥इति श्रुत्वापि तद्वाक्यं वरुणो यादसां पतिः ।न चचाल निजस्थानान्नृप धीरतरस्त्वयम् ॥३७॥पुनः पुनश्च रामेण समाहूतोऽपि तोयराट् ।न ददौ दर्शनं तस्मै प्रतिवाच्यं च नाभ्यधात् ॥३८॥अलङ्घनीयं तद्वाक्यं वरुणेनावधीरितम् ।अत्यन्तमिति कार्यार्थी विदुषा समुपेक्षितम् ॥३९॥ततः प्रचेतसा वाक्यं मन्यमानोऽवधीरितम् ।चुकोप तमभिप्रेक्ष्य रामः शस्त्रभृतां वरः ॥४०॥संक्षुब्धसागराकारः स तदा स्वबलाश्रयात् ।निस्तोयमर्णवं कर्तुमियेष रुषितो भृशम् ॥४१॥ततो जलमुपस्पृश्य समीपे विजयं धनुः ।ततः प्रणम्य मनसा शर्वं रामो महाद्धनुः ॥४२॥गृहीत्वारोपयामास क्रोधसंरक्तलोचनः ।अभिमृश्य धनुःश्रेष्ठं सगुणं भृगुसत्तमः ॥४३॥पश्यतां सर्वभूतानां ज्याघोषमकरोत्तदा ।ज्याघोषः शुश्रुवे तस्य दिविस्पृगतिनिष्ठुरः ॥४४॥चचाल निखिलायेन सप्तद्वीपार्मवा मही ।ततः सरभसं रामश्चापे कालानलोपमम् ॥४५॥सुवर्मपुङ्खं विशिखं संदधे शरसत्तमम् ।तस्मिन्नस्त्रं महाघोरं भार्गवं वह्निदैवतम् ॥४६॥युयोज भृगुशार्दूलः समन्त्राभ्यासमोक्षणम् ।ततश्चचाल वसुधा सशैलवनकानना ॥४७॥प्रक्षोभं परमं जग्मुर्देवासुरमहोरगाः ।संधितास्त्रं भृगुश्रेष्ठं क्रोधसंरक्तलोचनम् ॥४८॥दृष्ट्वा संभ्रान्तमनसो बभूवुः सचराचराः ।सदिग्दाहभ्रपटलैरभवन्संवृता दिशः ॥४९॥ववुश्च परुषा वाता रजोव्याप्ता महारवाः ।मन्दरश्मिरशीतांशुरभूतसंरक्तमण्डलः ॥५०॥सोल्कापाताशनिर्वृष्टिर्बभूव रुधिरोदका ।किमेतदिति संभ्रान्ता धूमोद्गारातिभीषणम् ॥५१॥अधिरोपितदिव्यास्त्रं प्रचकर्ष महाशरम् ।धनुर्विकर्षमाणं तं स्फुरज्ज्वालाग्रसायकम् ॥५२॥ददृशुर्मुनयो रामं कल्पान्तानलसन्निभम् ।आकर्णाकृष्टकोदण्डमण्डलाभ्यं तरस्थितम् ॥५३॥तस्य प्रतिभयाकारं दुष्प्रापमभवद्वपुः ।विकृष्टधनुषस्तस्य रूपमुग्रं रवेरिव ॥५४॥कल्पान्तेऽभ्युदितस्येव मण्डलं परिवेषितम् ।कल्पान्ताग्नसमज्वालाभीषणं स्फुरतो वपुः ॥५५॥तस्यालक्ष्यत चक्रम्य हरेरिव च मण्डलम् ।स्फुरत्क्रोधानलज्वालापरीतस्यातिरौद्रताम् ॥५६॥अवाप विष्णोः स तदा नरसिंहाकृतेरिव ।वपुर्विकृष्टचापस्य भृकुटीकुटिलाननम् ॥५७॥रामस्याभूद्भवस्येव दिधक्षोस्त्रिपुरं पुरा ।जाज्वल्यमानवपुषं तं दृष्ट्वा सहसा भयात् ॥५८॥प्रसीद जय रामेति तुष्टुवुर्मुनयोऽखिलाः ।ततोऽस्त्राग्निस्फुरद्धूमपटलैः शकलीकृतम् ॥५९॥बभूव च्छन्नमंभोधेरन्तः पुरमशैषतः ।ज्वलदस्त्रानलज्वालाप रितापपराहतः ॥६०॥अत्यरिच्यत संभ्रान्तसलिलौघ उदन्वतः ।तिमिङ्गिलतिमिग्राहनक्रमत्स्याहिकच्छपाः ॥६१॥प्रजग्मुः परमामार्त्तिं प्राणिनः सलिलेशयाः ।उत्पतन्निपतत्ताम्यन्नानासत्त्वोद्धतोर्मिभिः ॥६२॥प्रक्षोभं भृशमंभोधिः सहसा समुपागमत् ।त्रासरासं च विपुलमंभसा प्लवता सह ॥६३॥उद्वेलतामितस्तप्ताः सलिलान्तरचारिणः ।ततस्तस्माच्छराज्ज्वालाः फूत्कृताशेष भीषणाः ॥६४॥निरूपितमिव व्यक्तं निश्चेरुः सर्वतो दिशम् ।ततः प्रचण्डपवनैः सर्वतः परिवर्त्तितम् ॥६५॥अग्निज्वालामयं रक्तवितानाभमलक्ष्यत ।प्रलयाब्धेरिवात्यर्थमस्त्राग्निव्याकुलांभसः ॥६६॥समुद्रिक्ततया तस्य तरङ्गास्तीरमभ्ययुः ।अस्त्राग्निविद्धाकुलितजलघोषेण भूयसा ॥६७॥ककुभो बधिरीकुवन्नलक्ष्यत पयोनिधिः ।परितोऽस्त्रानलज्वालापरिवीतजलाविलः ॥६८॥जगाम परमामार्त्तिं सह्यः सद्यस्तदाश्रयः ।आकर्णाकृष्टकोदण्डं दृष्ट्वा रामं पयोनिधिः ॥६९॥विषादमगमत्तीव्रं यमं दृष्ट्वेव पातकी ।भयकंपितसर्वाङ्गस्ततो नदनदीपतिः ॥७०॥विहाय सहजं धैर्यं भीरुत्वं समुपागमत् ।ततः स्वरूपमास्थाय सर्वाभरणभूषितः ॥७१॥उत्तीर्यमाणः स्वजलं वरुणः प्रत्यदृश्यत ।कृताञ्जलिः सार्वहस्तः प्रचेता भार्गवान्तिकम् ॥७२॥त्वरयाभ्यायायौ शीघ्रसायकाद्भीतभीतवत् ।अभ्येत्याकृष्टधनुषः स तस्य चरणाब्जयोः ॥७३॥अब्रवीच्च भृशं भीतः संभ्रमाकुलिताक्षरम् ।रक्ष मां भृगुशार्दूल कृपया शरणागतम् ॥७४॥अपराधमिमं राम मया कृतमजानता ।स्थितोऽस्मि तव निर्देशेशाधि किं करवाणि वै ॥७५॥इति श्रीब्रह्माण्डे महापुराणे मध्यमभागे तृतीये उपोद्धातपादे भार्गवं प्रति वरुणागमनं नाम सप्तपञ्चशत्तमोऽध्यायः॥५७॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP