संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः| अध्यायः ५३ मध्यम भागः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ मध्यम भागः - अध्यायः ५३ ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे. Tags : brahmand puranpuranपुराणब्रह्माण्ड पुराणसंस्कृत अध्यायः ५३ Translation - भाषांतर जैमिनिरुवाचतेषु तत्र निविष्टेषु वासवेन प्रचोदितः ।जहारं तुरगं वायुस्तत्क्षणेन रसातलम् ॥१॥अदृष्टमश्वं तैः सर्वैरपहृत्य सदागतिः ।अनयत्तत्पथा राजन्कपिलस्यान्तिकं मुनेः ॥२॥ततः समाकुलाः सर्वे विनष्टेऽश्वे नृपात्मजाः ।परीत्य वसुधां सर्वां प्रमार्गन्तस्तुरगमम् ॥३॥विचित्य पृथिवीं ते तु स पुराचलकाननाम् ।अपश्यन्तो यज्ञपशुं दुःखं महदवाप्नुवन् ॥४॥ततोऽयोध्यां समासाद्य ऋषिभिः परिवारिताम् ।दृष्ट्वा प्रणम्य पितरं तस्मै सर्वं न्यवेदयन् ॥५॥परीत्य पृथ्वीमस्माभिर्निविष्टे वरुणालये ।रक्ष्यमाणोऽपि पश्यद्भिः केनापि तुरगो हृतः ॥६॥इत्युक्तस्तै रुषाविष्टस्तानुवाच नृपोत्तमः ।प्रयास्यध्वमधर्मिष्ठाः सर्वेऽनावृत्तये पुनः ॥७॥कथं भवद्भिर्जीवद्भिर्विनष्टो वै दरात्मभिः ।तुरगेण विना सत्यं नेहाग मनमस्ति वः ॥८॥ततः समेत्य तस्मात्ते सप्रयाताः परस्परम् ।ऊचुर्न दृश्यतेऽद्यापि तुरगः किं प्रकुमह ॥९॥वसुधा विचितास्माभिः सशैलवनकानना ।न चापि दृश्यते वाजी तद्वार्त्तापि न कुत्रचित् ॥१०॥तस्मादब्धेः समारभ्य पातालावधि मेदिनीम् ।विभज्य रवात्वा पातालं विविशाम तुरङ्गमम् ॥११॥इति कृत्वा मतिं सर्वे सागराः क्रूरनिश्चयाः ।निचख्नुर्भूमिमंबोधेस्तटा दारभ्य सर्वतः ॥१२॥तैः खन्यमाना वसुधा ररास भृशविह्वला ।चुक्रुशुश्चापि भूतानि दृष्ट्वा तेषां विचेष्टितम् ॥१३॥ततस्ते भारतं खण्डं खात्वा संक्षिब्य भूतले ।भूमेर्योजनसाहस्रं योजयामासुरंबुधौ ॥१४॥आपातालतलं ते तु खनन्तो मेदिनीतलम् ।चरन्तमश्वं पाताले ददृशुर्नृपनन्दनाः ॥१५॥संप्रहृष्टास्ततः सर्वे समेत्य च समन्ततः ।संतोषाज्जहसुः केचिन्ननृतुश्च मुदान्विताः ॥१६॥ददृशुश्च महात्मानं कपिलं दीप्ततेजसम् ।वृद्धं पद्मासनासीनं नासाग्रन्यस्तलोचनम् ॥१७॥ऋज्वायतशिरोग्रीवं पुरोविष्टब्धवक्षसम् ।स्वतेजसाभिसरता परिबूर्णेन सर्वतः ॥१८॥प्रकाश्यमानं परितो निवातस्थप्रदीपवत् ।स्वान्तप्रकाशिताशेषविज्ञानमयविग्रहम् ॥१९॥समाधिगतचित्तन्तु निभृतांभोधिसन्निभम् ।आरूढयोगं विधिवद्ध्येयसंलीनमानसम् ॥२०॥च्दृदद्यत्दद्वड्ढ द्यदृ डद्धठ्ठण्थ्र्ठ्ठदड्डठ्ठथ्र्ठ्ठड्डण्न्र्ठ्ठडण्ठ्ठग्ठ्ठयोगीन्द्रप्रवरं शान्तं ज्वालामाल मिवानलम् ।विलोक्य तत्र तिष्ठन्तं विमृशन्तः परस्परम् ॥२१॥मुहूर्त्तमिव ते राजन्साध्वसं परमं गताः ।ततोऽयमश्वहर्त्तेति सागरा कालचोदिताः ॥२२॥परिवव्रुर्दुरात्मानः कपिलं मुनिसत्तमम् ।ततस्तं परिवार्योचुश्वोरोऽयं नात्र संशयः ॥२३॥अश्वहर्त्ता ततोऽह्येष वध्योऽस्माभिर्दुराशयः ।तं प्राकृतवदासीनं ते सर्वे हतवुद्धयः ॥२४॥आसन्नमरणाश्चक्रुर्धर्षितं मुनिमञ्जसा ।जैमिनिरुवाचततो मुनिरदीनात्मा ध्यानभङ्गप्रधर्षितः ॥२५॥क्रोधेन महताऽविष्टश्चुक्षुभे कपिलस्तदा ।प्रचचाल दुराधर्षो धर्षितस्तैर्दुरात्मभिः ॥२६॥व्यजृंभत च कल्पान्ते मरुद्भिरिव चानलः ।तस्य चार्णवगंभीराद्वपुषः कोपपावकः ॥२७॥दिधक्षुरिव पातालांल्लोकान्सांकर्षणोऽनलः ।शुशुभे धर्षणक्रोधपरामर्शविदीपितः ॥२८॥उन्मीलयत्तदा नेत्रे वह्निचक्रसमद्युतिः ।तदाक्षिणी क्षणं राजन्राजेतां सुभृशारुणे ॥२९॥पूर्वसंव्यासमुदितौ पुष्पवन्ताविवांबरे ।ततोऽप्युद्वर्त्तमानाभ्यां नेत्राभ्यां नृपनन्दनान् ॥३०॥अवैक्षत च गंभीरः कृतान्तः कालपर्यये ।क्रुद्धस्य तस्यनेत्राभ्यां सहसा पावकार्चिषः ॥३१॥निश्चेरुरभिलोदिक्षु कालाग्नेरिव संतताः ।सधूमकवलोदग्राः स्फुलिङ्गौघमुचो मुहुः ॥३२॥मुनिक्रोधानलज्वालाः समन्ताव्द्यानशुर्दिशः ।व्यालोदरौग्रकुहरा ज्वाला स्तन्नेत्रनिर्गताः ॥३३॥विरेजुर्निभृतांभोधेर्वडवाग्नेरिवार्चिषः ।क्रोधाग्निः सुमहाराज ज्वालावव्याप्तदिगन्तरः ॥३४॥दग्धांश्चकार तान्सर्वानावृण्वानो नभस्तलम् ॥३५॥सशब्दमुद्भ्रान्तमरुत्प्रकोपविवर्त्तमानानलधूमजालैः ।महीरजोभिश्च नितान्तमुद्धतैः समावृतं लोक मभूद्भृशातुरम् ॥३६॥ततः स वह्निर्विलिखन्निवाभितः समीरवेगाभिहताभिरंबरम् ।शिखाभिरुर्वीशसुतानशेषतो ददाह सद्यः सुर विद्विषस्तान् ॥३७॥मिषतः सर्वलोकस्य क्तोधाग्निस्तमृते हयम् ।सागरांस्तानशेषेण भस्मसादकरोत्स तान् ॥३८॥एवं क्रोधाग्निना तेन सागराः पापचेतसः ।जज्वलुः सहसा दावे तरवो नीरसा इव ॥३९॥दृष्ट्वा तेषां तु निधनं सागराणान्दुरात्मनाम् ।अन्योन्यमबुवन्देवा विस्मिता ऋषिभिः सह ॥४०॥अहोदारुणपापानां विपाको न चिरायितः ।दुरन्तः खलु लोकेऽस्मिन्नराणामसदात्मनाम् ॥४१॥यदि मे पर्वताकारा नृशंसाः क्रूरवुद्धयः ।युगपद्विलयं प्राप्ताः सहसैव तृणाग्निवत् ॥४२॥उद्वेजनीया भूतानां सद्भिरत्यन्तगर्हिताः ।आजीवान्तमिमे हर्तु दिष्ट्या संक्षयमागताः ॥४३॥परोपतापि नितरां सर्वलोकजुगुप्सितम् ।इह कृत्वाशुभं कर्म कःपुमान्विन्दते सुखम् ॥४४॥विक्रोश्य सर्वभूतानि संप्रयाताः स्वकर्मभिः ।ब्रह्मदण्डहताः पापा निरयं शाश्वतीः समाः ॥४५॥तस्मात्सदैव कर्त्तव्यं कर्म पुंसां मनीपिणाम् ।दुरतश्च परित्याज्यमितरल्लोकनिन्दितम् ॥४६॥कर्त्तव्यः श्रेयसे यत्नो यावज्जीवं विजानता ।नाचरेत्कस्यचिद्द्रोहमनित्यं जीवनं यतः ॥४७॥अनित्योऽयं सदा देहःसपदश्चातिचञ्चलाः ।संसारश्चातिनिस्सारस्तत्कथं विश्वसेद्बुधः ॥४८॥एवं सुरमुनीन्द्रेषु कथयत्सु परस्परम् ।मुनिक्रोधेन्धनीभूता विनेशुः सगरात्मजाः ॥४९॥निर्दगधदेहाः सहसा भुवं विष्टभ्य भस्मना ।अवापुर्निरयं सद्यः सागरास्ते स्वकमभिः ॥५०॥सागरांस्तानशेषेण दग्धवातत्क्रोधजोऽनलः ।क्षणेन लोकानखिलानुद्यतो दग्धुमञ्जसा ॥५१॥भयभीतास्ततो देवाः समेत्य दिवि संस्थिताः ।तुष्टुवुस्ते महात्मानं क्रोधाग्निशमनार्थिनः ॥५२॥इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमाभागे तृतीय उपोद्धातपादे सगरचरितेसागराविनाशो नाम त्रिपञ्चशत्तमोऽध्यायः॥५३॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP