संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः|
अध्यायः ३०

मध्यम भागः - अध्यायः ३०

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


वासिष्ठ उवाच
श्रुस्वैतत्सकलं राजा जमदग्निवधादिकम् ।
उद्विग्नचेताः सुभृशं चिन्तयामास नैकधा ॥१॥

अहो मे सुनृसंसस्य लोकयोरुभयोरपि ।
ब्रह्मस्वहरणे वाञ्छा तद्धत्या चातिगर्हिता ॥२॥

अहो नाश्रौषमस्याहं ब्राह्मणस्य विजानतः ।
वचनं तर्हि तां जह्यां विमूढात्मा गतत्रपः ॥३॥

इति संचितयन्नंव हृदयेन विदूयता ।
स्वपुरं प्रतिचक्राम सबलः सानुगस्ततः ॥४॥

पुरीं प्रतिगते राज्ञि तस्मिन्सपरिवारके ।
आश्रमात्सहसा राजन्विनिश्चक्राम रेणुका ॥५॥

अथ सक्षतसर्वाङ्गं रुधिरेण परिप्लुतम् ।
निश्चेष्टं परितं भूमौ ददर्श पतिमात्मनः ॥६॥

ततः सा विहतं मत्वा भर्त्तारं गतचेतनम् ।
अन्वाहतेवाशनिना मूर्छितान्यपतद्भुवि ॥७॥

चिरादिव पुनर्भूमेरुत्थायातीव दुःखिता ।
पतित्वोत्थाय सा भूयः सुस्वरं प्ररुरोद ह ॥८॥

विललाप च सात्यर्थं धरणीधूलिधूसरा ।
अश्रुपूर्ममुखी दीना पतिता शोकसागरे ॥९॥

हा नाथ पिय धर्मज्ञ दाक्षिण्यामृतसागर ।
हा धिगत्यन्तशान्त त्वं नैव काङ्क्षेत चेदृशम् ॥१०॥

आश्रमादभिनिष्क्रान्तः सहसा व्यसानर्णवे ।
क्षिप्त्वानाथामगाधे मां क्व च यातोऽसि मानद ॥११॥

सतां साप्तपदे मैत्रे मुषिताहं त्वया सह ।
यासि यत्र त्वमेकाकी तत्र मां नेतुमर्हसि ॥१२॥

दृष्ट्वा त्वामीदृशावस्थमचिराद्धृदयं मम ।
न दीर्यते महाभाग कठिनाः खलु योषितः ॥१३॥

इत्येवं विलपन्ती सा रुदती च मुहुर्मुहुः ।
चुक्रोश रामरामेति भृशं दुःखपरिप्लुता ॥१४॥

तावद्रामोऽपि स वनात्समिद्भारसमन्वितः ।
अकृतव्रणसंयुक्तः स्वाश्रमाय न्यवर्त्तत ॥१५॥

अपश्यद्भयशंसीनि निमित्तानि बहूनि सः ।
पश्यन्नुद्विग्नहृदयस्तूर्णं प्रापाश्रमं विभुः ॥१६॥

तमायान्तमभिप्रेक्ष्य रुदती सा भृशातुरा ।
नविभूतेव शोकेन प्रारुदद्रेणुका पुनः ॥१७॥

रामस्य पुरतो राजन्भर्तृव्यसनपीडिता ।
उभाभ्यामपि हस्ताभ्यामुदरं समताडयत् ॥१८॥

मार्गे विदितवृत्तान्तः सम्यग्रामोऽपि मातरम् ।
कुररीमिव शोकार्त्ता दृष्ट्वा दुःखमुपेयिवान् ॥१९॥

धैर्यमारोप्य मेधावी दुःशशोकपरिप्लुतः ।
नेत्राभ्यामश्रुपूर्णाभ्यां तस्थौ भूमावर्धोमुखः ॥२०॥

तं तथागतमालोक्य रामं प्राहाकृतव्रणः ।
किमिदं भृगुशार्दूल नैतत्वय्युपपाद्यते ॥२१॥

न त्वादृशा महाभाग भृशं शोचन्ति कुत्रचित् ।
धृतिमन्तो महान्तस्तु दुःखं कुर्वति न व्यये ॥२२॥

शोकः सर्वेन्द्रियाणां हि परिशोषप्रदायकः ।
त्यज शोकं महाबाहो न तत्पात्रं भवदृशाः ॥२३॥

एहिकामुष्मिकार्थानां नूनमेकान्तरोधकः ।
शोकस्तस्यावकाशं त्वं कथं त्दृदि नियच्छसि ॥२४॥

तत्त्वं धैर्यधनो भूत्वा परिसांत्वय मातरम् ।
रुदतीं बत वैधव्यशं कापहतचेतनाम् ॥२५॥

नैवागमनमस्तीह व्यतिक्रान्तस्य वस्तुनः ।
तस्मादतीतमखिलं त्यक्त्वा कृत्यं विचिन्तय ॥२६॥

इत्येवं सांत्वमानश्च तेन दुःशसमन्वितः ।
रामः संस्तंभयामास शनैरात्मानमात्मना ॥२७॥

दुःखशोकपरीता हि रेणुका त्वरुदन्मुहः ।
त्रिःसप्तकृत्वो हस्ताभ्यामुदरं समताडयत् ॥२८॥

तावत्तदन्तिकं रामः समभ्येत्याश्रुलोचनः ।
रुदतीमलमंबेति सांत्वयामास मातरम् ॥२९॥

उवाचापनयन्दुःखाद्भर्तृशोकपरायणाम् ।
त्रिःसप्तकृत्वो यदिदं त्वया वक्षः समाहतम् ॥३०॥

तावतसंख्यमहं तस्मात्क्षत्त्रजारमशेषतः ।
हनिष्ये भुवि सर्वत्र सत्यमेतद्ब्रविमि ते ॥३१॥

तस्मात्त्वं शोकमुत्सृज्य धैर्यमातिष्ट सांप्रतम् ।
नास्त्येव नूनमायातमतिक्रान्तस्य वस्तुनः ॥३२॥

इत्युक्ता रेणुका तेन भृशं दुःखान्वितापि सा ।
कृच्छ्राद्धैर्यं समालंब्य तथेति प्रत्यभाषत ॥३३॥

ततो रामो महाबाहुः पितुः सह सहोदरैः ।
अग्नौ सत्कर्त्तुमारेभे देहं राजन्यथविधि ॥३४॥

भर्तृशोकपरिताङ्गी रेणुकापि दृढव्रता ।
पुत्रान्सर्वान्समाहूय त्विदं वचनमब्रवीत् ॥३५॥

रेणुकोवाच ।
अहं वपितरं पुत्राः स्वर्गतं पुण्यशीलिनम् ।
अनुगन्तुमिहेच्छामि तन्मेऽनुज्ञातुमर्हथ ॥३६॥

असह्यदुःशं वैधव्यं सहमाना कथं पुनः ।
भर्त्रा विरहिता तेन प्रवर्त्तिष्ये विनिन्दिता ॥३७॥

तस्मादनुगमिष्यामि भर्त्तारं दयितं मम ।
यथा तेन प्रवर्त्तिष्ये परत्रापि सहानिशम् ॥३८॥

ज्वलन्तमिममेवाग्निं संप्रविश्य चिरादिव ।
भर्तुर्मम भविष्यामि पितृलोकप्रियातिथिः ॥३९॥

अनुवादमृते पुत्रा भवद्भिस्तत्र कर्मणि ।
प्रतिभूय न वक्तव्यं यदि मत्प्रियमिच्छथ ॥४०॥

इत्येवमुक्त्वा वचनं रेणुका दृढनिश्चया ।
अग्निं प्रविश्य भर्त्तारमनुगन्तुं मनोदधे ॥४१॥

एतस्मिन्नेव काले तु रेणुकां तनयैः सह ।
समाभाष्यातिगंभीरा वागुवाचाशरीरीणी ॥४२॥

हे रेणुके स्वतनयैर्गिरं मेऽवहिता शृणु ।
मा कार्षीः साहसं भद्रे प्रवक्ष्यामि प्रियं तव ॥४३॥

साहसो नैव कर्त्तव्यः केनाप्यात्महितैषिणा ।
न मर्त्तव्यन्त्वया सर्वो जीवन्भद्राणि पश्यति ॥४४॥

तस्माद्धैर्यधना भूत्वा भव त्वं कालकाङ्क्षिणी ।
निमित्तमन्तरीकृत्य किञ्चिदेव शुचिस्मिते ॥४५॥

अचिरेणैव भर्त्ता ते भविष्यति सचेतनः ।
उत्पन्नजीवितेन त्वं कामं प्राप्स्यसि शोभने ।
भवित्री चिररात्राय बहुकल्याण भाजनम् ॥४६॥

वसिष्ठ उवाच
इति तद्वचनं श्रुत्वा धृतिमालंब्य रेणुका ।
तद्वाक्यगौरवाद्धर्षमवापुस्तनयाश्च ते ॥४७॥

ततोनीत्वा पितुर्देहमाश्रमाभ्यन्तरं मुनेः ।
शाययित्वा निवाते तु परितः समुपाविशन् ॥४८॥

तेषां तत्रोपविष्टानामप्रहृष्टात्मचेतसाम् ।
निमत्तानि शुभान्यासन्ननेकानि महान्ति च ॥४९॥

तेन ते किञ्चिदाश्वस्तचेतसो मुनिपुङ्गवाः ।
निषेदुः सहिता मात्रा काङ्क्षन्तो जीवितं पितुः ॥५०॥

एतस्मिन्नन्तरे राजन्भृगुवंशधरो मुनिः ।
विधेर्बलेन मतिमांस्तत्रागच्छद्यदृच्छया ॥५१॥

अथर्वणां विधिः सा क्षाद्वेदवेदाङ्गपारगः ।
सर्वशास्त्रार्थवित्प्राज्ञः सकलासुरवन्दितः ॥५२॥

मृतसंजीविनीं विद्यां यो वेद मुनिदुर्लभाम् ।
यथाहतान्मृतान्देवैरुत्थापयति दानवान् ॥५३॥

शास्त्रमोशनसं येन राज्ञां राज्यफलप्रदम् ।
प्रणीतमनुजीवन्ति सर्वेऽद्यापीह पार्थिवाः ॥५४॥

स तदाश्रममासाद्य प्रविष्टोऽन्तर्महामुनिः ।
ददर्श तदवस्थांस्तान्सर्वान्दुःखपरिप्लुतान् ॥५५॥

अथ ते तु भृगुं दृष्ट्वा वंशम्य पितरं मुदा ।
उत्थायास्मै ददुश्चापि सत्कृत्य परमासनम् ॥५६॥

स चाशीर्भिस्तु तान्सर्वानभिनन्द्य महामुनिः ।
पप्रच्छ किमिदं वृत्तं तत्सर्वं ते न्यवेदयन् ॥५७॥

तच्छ्रुत्वा स भृगुः शीघ्रं जलमादाय मन्त्रवित् ।
संजीविन्या विनया तं सिषेच प्रोच्चरन्निदम् ॥५८॥

यज्ञस्य तपसो वीय ममापि शुभमस्ति चेत् ।
तेनासौ जीवताच्छीघ्रं प्रसुप्त इवचोत्थितः ॥५९॥

एवमुक्ते शुभे वाक्ये भृगुणा साधुकारिणा ।
समुत्तस्थावथार्चीकः साक्षाद्ग्ररुरिवापरः ॥६०॥

दृष्ट्वा तत्र स्थितं वन्द्यं भृगुं स्वस्य पितामहम् ।
ननाम भक्त्या नृपते कृताञ्जलिरुवाच ह ॥६१॥

जमदग्निरुवाच
धन्योऽहं कृतकृत्योऽहं सफलं जीवितं च मे ॥६२॥

यत्पश्ये चरणौ तेऽद्य सुरासुरनमस्कृतौ ।
भगवन्किं करोम्यद्य शुश्रूषां तव मानद ॥६३॥

पुनीह्यात्मकुलं स्वस्य चरणांबुकणैर्विभो ।
इत्युक्त्वा सहसाऽनीतं रामेणार्ध्यं मुदान्वितः ॥६४॥

प्रददौ पादयोस्तस्य भक्त्यान मितकन्धरः ।
तज्जलं शिरसाधत्त सकुटुंबो महामनाः ॥६५॥

अथ सत्कृत्य स भृगुं पप्रच्छ विनयान्वितः ।
भगवन् किं कृतं तेन राज्ञा दुष्टेन पातकम् ॥६६॥

यस्यातिथ्यं हि कृतवानहं सम्यग्विधानतः ।
साधुबुद्ध्यास दुष्टात्मा किं चकार महामते ॥६७॥

वसिष्ठ उवाच
एवं स पृष्टो मतिमान्भृगुः सर्वविदीश्वरः ।
चिरं ध्यात्वा समालोच्य कारणं प्राह भूपते ॥६८॥

भृगुरुवाच
शृणु तात महाभाग बीजमस्य हि कर्मणः ।
यश्च वै कृतवान्पापं सर्वज्ञस्य तवानघ ॥६९॥

शप्तः पुरा वसिष्ठेन नाशार्थं स महीपतिः ।
द्विजापराधतो मूढ वीर्यं ते विनशिष्यते ॥७०॥

तत्कथं वचनं तस्य भविष्यत्यन्यथा मुनेः ।
अयं रामो महावीर्यं प्रसह्यनृपपुङ्गवम् ॥७१॥

हनिष्यति महाबाहो प्रतिज्ञां कृतवान्पुरा ।
यस्मादुरः प्रतिहतं त्वया मातर्ममाग्रतः ॥७२॥

एकविंशतिवारं हि भृशं दुःखपरीतया ।
त्रिः सप्तकृत्वो निःक्षत्रां करिष्ये पृथिवीमिमाम् ॥७३॥

अतोऽयं वार्यमाणोऽपि त्वाया पित्रा निरन्तरम् ।
भाविनोर्ऽथस्य च बलात्करिष्यत्येव मानद ॥७४॥

स तु राजा महाभागो वृद्धानां पर्युपासिता ।
दत्तात्रेयाद्धरेरंशाल्लब्धबोधो महामतिः ॥७५॥

साक्षाद्भक्तो महात्मा च तद्वधे पातकं भवेत् ।
एवमुक्त्वा महाराज स भृगुर्ब्रह्मणः सुतः ।
यथागतं ययौ विद्वान्भविष्यत्कालपर्ययात् ॥७६॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्याभागे तृतीय
उपोद्धातपादे भार्गवचरिते त्रिंशत्तमोऽध्यायः॥३०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP