संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः|
अध्यायः ३५

मध्यम भागः - अध्यायः ३५

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


सगर उवाच
मुने परमतत्त्वज्ञध्यानज्ञानार्थकोविद ।
भगवद्भक्तिसंलीनमानसानुग्रहः कुतः ॥१॥

त्वयापि हि महाभाग यतः शंससि सत्कथाः ।
श्रुत्वा मृगमुखात्सर्वं भार्गवस्य विचेष्टितम् ॥२॥

भूतं भवद्भविष्यं च नारायणकथान्वितम् ।
पुनः प्रपच्छ किं नाथ तन्मे वद सविस्तरम् ॥३॥

वसिष्ठ उवाच
शृणु राजन्प्रवक्ष्यामि मृगस्य चरितं महत् ।
यथा पृष्टं तया सोऽस्यै वर्णयामास तत्त्ववित् ॥४॥

श्रुत्वा तु चरितं तस्य भार्गवस्य महात्मनः ।
भूयः प्रपच्छ तं कान्तं ज्ञानतत्त्वार्थमादरात् ॥५॥

मृग्युवाच
साधुसाधु महाभाग कृतार्थस्त्वं न संशयः ।
यदस्य दर्शनात्तेऽद्य जातं ज्ञानमतीद्रियम् ॥६॥

अथातश्चात्मनः सर्वं ममापि वद कारणम् ।
कर्मणा येन संप्राप्तावावां तिर्यग्जनिं प्रभो ॥७॥

इति वाक्यं समाकर्ण्य प्रियायाः स मृगः स्वयम् ।
वर्णयामास चरितं मृग्यश्चैवात्मनस्तदा ॥८॥

मृग उवाच
शृणु प्रिये महाभागे यथाऽवां मृगतां गतौ ।
संसारेऽस्मिन्नमहाभागे भावोऽस्य भवकारणम् ॥९॥

जीवस्य सदसभ्द्यां हि कर्मभ्यामागतः स्मृतिम् ।
पुरा द्रविडदेशे तु नानाऋद्धिसमाकुले ॥१०॥

ब्राह्मणानां कुले वाहं जातः कौशिकगोत्रिणाम् ।
पिता मे शिवदत्तोऽभून्नाम्ना शास्त्रविशारदः ॥११॥

तस्य पुत्रा वयं जाताश्चत्वारो द्विजसत्तमाः ।
ज्येष्ठो रामोऽनुजस्तस्य धमस्तस्यानु जः पृथुः ॥१२॥

चतुर्थोऽहं प्रिये जातो सूरिरित्यभिविश्रुतः ।
उपनीय क्रमात्सर्वाञ्छिवदत्तो महायशाः ॥१३॥

वेदानध्यापयामास सांगांश्च सरहस्यकान् ।
चत्वारोऽपि वयं तत्र वेदाध्ययनतत्पराः ॥१४॥

गुरुशुश्रूषणे युक्ता जाता ज्ञानपरायणाः ।
गत्वारण्यं फलान्यंबुसमित्कुशमृदोऽन्वहम् ॥१५॥

आनीय पित्रे दत्त्वाथ कुर्मोऽध्ययनमेव हि ।
एकदा तु वयं सर्वे संप्राप्ता पर्वते वने ॥१६॥

औद्भिदं नाम लोलक्षि कृतमालातटे स्थितम् ।
सर्वे स्नात्वा महानद्यामुषसि प्रीतमानसाः ॥१७॥

दत्तार्घाः कृतजप्याश्च समारूढा नागोत्तमम् ।
शालस्तमालैः प्रियकैः पनसैः कोविदारकैः ॥१८॥

सरलार्जुनपूगैश्च खर्जूरैर्नारिकेलकैः ।
जंबूभिः सहकारैश्च कट्फलैर्बृहतीद्रुमैः ॥१९॥

अन्यैर्नानाविधैर्वृक्षैः परार्थप्रतिपादकैः ।
स्निग्धच्छायैः समाहृष्टनानापक्षिनिनादितैः ॥२०॥

शार्दूल हरिभिर्भल्लैर्गण्डकैर्मृगनाभिभिः ।
गचैन्द्रैः शारभाद्यैश्च सेवितं कन्दरागतैः ॥२१॥

मल्लिकापाटलाकुन्दकर्णिकारकदंबकैः ।
सुगन्धिभिर्वृतं चान्यैर्वातोद्धूतपरगिभिः ॥२२॥

नानामणिगणाकीर्णैर्नीलपीतसितारुणैः ।
शृङ्गैः समुल्लिखन्तं च व्योम कौतुकसं युतम् ॥२३॥

अत्युच्चपातध्वनिभिर्निर्झरैः कन्दरोद्गतैः ।
गर्ज्जतमिव संसक्तं व्यालाद्यैर्मृगपक्षिभिः ॥२४॥

तत्रातिकौतुकाहृष्टदृष्टयोभ्रातरो वयम् ।
नास्मार्ष्म चात्मनात्मानं वियुक्ताश्च परस्परम् ॥२५॥

एतस्मिन्नन्तरे चैका मृगी ह्यगात्पिपासिता ।
निर्झरापात शिरसि पातुकामा जलं प्रिये ॥२६॥

तस्याः पिबन्त्यास्तु जलं शार्दूलोऽतिभयङ्करः ।
तत्र प्राप्तो यदृच्छातो जगृहे तां भयर्दिताम् ॥२७॥

अहं तद्ग्रहणं पश्यन्भयेन प्रपलायितः ।
अत्युच्चवत्त्वात्पतितो मृतश्चैणीमनुस्मरन् ॥२८॥

सा मृता त्वं मृगी जाता मृग स्त्वाहमनुस्मरन् ।
जातो भद्रे न जाने वै क्व गाता भ्रातरोऽग्रजाः ॥२९॥

एतन्मे स्मृतिमापन्नं चरितं तव चात्मतः ।
भूतं भविष्यं च तथा शृणु भद्रे वदाम्यहम् ॥३०॥

योऽयं वा वृष्ठसंलग्नो व्याधो दूरस्थितोऽभवत् ।
रामस्यास्य भयात्सोऽपि भक्षितो हरिणा धुना ॥३१॥

प्राणांस्त्यक्त्वा विधानेन स्वर्गलोकं गमिष्यति ।
अवाभ्यां तु जलं पीतं मध्यमे पुष्करे त्विह ॥३२॥

संदृष्टो भार्गवश्चायं साक्षाद्विष्णुस्वरूपधृक् ।
तेनानेकभवोत्पन्नं पातकं नाशमागतम् ॥३३॥

अगस्त्यदर्शनं लब्ध्वा श्रुत्वा स्तोत्रं गतिप्रदम् ।
गमिष्यावः शुभांल्लोकान्येषु गत्वा न शोचति ॥३४॥

इत्येवमुक्त्वा स मृगः प्रियायै प्रियदर्शनः ।
विरराम प्रसन्नात्मा पश्यन्राममना तुरः ॥३५॥

भर्गवः श्रुतवांश्चैव मृगोक्तं शिष्यसंयुतः ।
विस्मितोऽभूच्च राजेन्द्र गन्तुं कृतमतिस्तथा ॥३६॥

अकृतव्रमसंयुक्तो ह्यगस्त्यस्याश्रमं प्रति ।
स्नात्वा नित्यक्रियां कृत्वा प्रतस्थे हर्षितो भृशम् ॥३७॥

रामेण गच्छता मार्गे दृष्टो व्याधो मृतस्तदा ।
सिंहस्य संप्रहारेम विस्मितेन महात्मना ॥३८॥

अध्यर्द्धयोजनं गत्वा कनिष्ठं पुष्करं प्रति ।
स्नात्वा माध्याह्निकीं सन्ध्यां चका रातिमुदान्वितः ॥३९॥

हितं तदात्मनः प्रोक्तं मृगेण स विचारयन् ।
तावत्तत्पृष्ठसंलग्नं मृगयुग्ममुपागतम् ॥४०॥

पुष्करे तु जलं पीत्वाभिषिच्यात्मतनुं जलैः ।
पश्यतो भार्गवस्यागादगस्त्याश्रमसंमुखम् ॥४१॥

रामोऽपि सन्ध्यां निर्वर्त्त्य कुंभजस्याश्रमं ययौ ।
विपद्गतं पुष्करं तु पश्यमानो महामनाः ॥४२॥

विष्णोः पदानि नागानां कुण्डं सप्तर्षिसंस्थितम् ।
गत्वोपस्पृश्य शुच्यंभो जगामागस्त्यसंश्रयम् ॥४३॥

यच्च ब्रह्मसुता राजन्समायाता सरस्वती ।
त्रीन्संपूरयितुं कुण्डानग्निहोत्रस्य वै विधेः ॥४४॥

तत्र तीरे शुभं पुण्यं नानामुनिनिषेवितम् ।
ददर्श महदाश्चर्यं भार्गवः कुंभजाश्रमम् ॥४५॥

मृगैः सिंहैः सहगतैः सेवितं शान्तमानसैः ।
कुटरैरर्जुनैर्निंबैः पारिभद्रधवेगुदैः ॥४६॥

खदिरासनखर्जूरैः संकुलं बदरीद्रुमैः ।
तत्र प्रविश्य वै रामो ह्यकृतव्रणसंयुतः ॥४७॥

ददर्श मुनिमासीनं कुम्भजं शान्तमानसम् ।
स्तिमितोदसरः प्रख्यं ध्यायन्तं ब्रह्म शाश्वतम् ॥४८॥

कौश्यां वृष्यां मार्गकृत्तिं वसानं पल्लवोटजे ।
ननाम च महाराज स्वाभिधानं समुच्चरन् ॥४९॥

रामोऽस्मि जामदग्न्योऽहं भवन्तं द्रष्टुमागतः ।
ताद्विद्धि प्रणिपातेन नमस्ते लोकभावन ॥५०॥

इत्युक्तवन्तं रामं तु उन्मील्य नयने शनैः ।
दृष्ट्वा स्वागतमुच्चार्य तस्मायासनमादिशत् ॥५१॥

मधुपर्कं समानीय शिष्येण मुनिपुङ्गवः ।
ददौ पप्रच्छ कुशलं तपसश्च कुलस्य च ॥५२॥

स पृष्टस्तेन वै रामो घटोद्भवमुवाच ह ।
भवत्संदर्शनादीश कुशलं मम सर्वतः ॥५३॥

किं त्वङ्कं संशयं जातं छिन्धि स्ववचनामृतैः ।
मृगश्चैको मया दृष्टो मध्यमे पुष्करे विभो ॥५४॥

तेनोक्तमखिलं वृत्तं मम भूतमनागतम् ।
तच्छूत्वा विस्मयाविष्टो भवच्छरणमागतः ॥५५॥

पाहि मां कृपया नाथ साधयन्त महामनुम् ।
शिवेन दत्तं कवच मम साधयतो गुरो ॥५६॥

कृष्मस्य समतीत तु साधिकं हि शरच्छतम् ।
न च सिद्धिमवाप्तोऽहं तन्मे त्वं कृपया वद ॥५७॥

वसिष्ठ उवाच
एवं प्रश्नं समाकर्ण्य रामस्य सुमहात्मनः ।
क्षणं ध्यात्वा महाराज मृगोक्तं ज्ञातवान् हृदा ॥५८॥

मृगं चापि समायातं मृग्या सह निजाश्रमे ।
श्रोतुं कृष्णामृतं स्तोत्रं सर्वं तत्कारण मुनिः ।
विचार्याश्वासयामास भार्गवः स्ववचोमृतैः ॥५९॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय
उपोद्धातपादे भार्गवच रिते पञ्चत्रिंशत्तमोऽध्यायः॥३५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP