संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः| अध्यायः ३५ मध्यम भागः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ मध्यम भागः - अध्यायः ३५ ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे. Tags : brahmand puranpuranपुराणब्रह्माण्ड पुराणसंस्कृत अध्यायः ३५ Translation - भाषांतर सगर उवाचमुने परमतत्त्वज्ञध्यानज्ञानार्थकोविद ।भगवद्भक्तिसंलीनमानसानुग्रहः कुतः ॥१॥त्वयापि हि महाभाग यतः शंससि सत्कथाः ।श्रुत्वा मृगमुखात्सर्वं भार्गवस्य विचेष्टितम् ॥२॥भूतं भवद्भविष्यं च नारायणकथान्वितम् ।पुनः प्रपच्छ किं नाथ तन्मे वद सविस्तरम् ॥३॥वसिष्ठ उवाचशृणु राजन्प्रवक्ष्यामि मृगस्य चरितं महत् ।यथा पृष्टं तया सोऽस्यै वर्णयामास तत्त्ववित् ॥४॥श्रुत्वा तु चरितं तस्य भार्गवस्य महात्मनः ।भूयः प्रपच्छ तं कान्तं ज्ञानतत्त्वार्थमादरात् ॥५॥मृग्युवाचसाधुसाधु महाभाग कृतार्थस्त्वं न संशयः ।यदस्य दर्शनात्तेऽद्य जातं ज्ञानमतीद्रियम् ॥६॥अथातश्चात्मनः सर्वं ममापि वद कारणम् ।कर्मणा येन संप्राप्तावावां तिर्यग्जनिं प्रभो ॥७॥इति वाक्यं समाकर्ण्य प्रियायाः स मृगः स्वयम् ।वर्णयामास चरितं मृग्यश्चैवात्मनस्तदा ॥८॥मृग उवाचशृणु प्रिये महाभागे यथाऽवां मृगतां गतौ ।संसारेऽस्मिन्नमहाभागे भावोऽस्य भवकारणम् ॥९॥जीवस्य सदसभ्द्यां हि कर्मभ्यामागतः स्मृतिम् ।पुरा द्रविडदेशे तु नानाऋद्धिसमाकुले ॥१०॥ब्राह्मणानां कुले वाहं जातः कौशिकगोत्रिणाम् ।पिता मे शिवदत्तोऽभून्नाम्ना शास्त्रविशारदः ॥११॥तस्य पुत्रा वयं जाताश्चत्वारो द्विजसत्तमाः ।ज्येष्ठो रामोऽनुजस्तस्य धमस्तस्यानु जः पृथुः ॥१२॥चतुर्थोऽहं प्रिये जातो सूरिरित्यभिविश्रुतः ।उपनीय क्रमात्सर्वाञ्छिवदत्तो महायशाः ॥१३॥वेदानध्यापयामास सांगांश्च सरहस्यकान् ।चत्वारोऽपि वयं तत्र वेदाध्ययनतत्पराः ॥१४॥गुरुशुश्रूषणे युक्ता जाता ज्ञानपरायणाः ।गत्वारण्यं फलान्यंबुसमित्कुशमृदोऽन्वहम् ॥१५॥आनीय पित्रे दत्त्वाथ कुर्मोऽध्ययनमेव हि ।एकदा तु वयं सर्वे संप्राप्ता पर्वते वने ॥१६॥औद्भिदं नाम लोलक्षि कृतमालातटे स्थितम् ।सर्वे स्नात्वा महानद्यामुषसि प्रीतमानसाः ॥१७॥दत्तार्घाः कृतजप्याश्च समारूढा नागोत्तमम् ।शालस्तमालैः प्रियकैः पनसैः कोविदारकैः ॥१८॥सरलार्जुनपूगैश्च खर्जूरैर्नारिकेलकैः ।जंबूभिः सहकारैश्च कट्फलैर्बृहतीद्रुमैः ॥१९॥अन्यैर्नानाविधैर्वृक्षैः परार्थप्रतिपादकैः ।स्निग्धच्छायैः समाहृष्टनानापक्षिनिनादितैः ॥२०॥शार्दूल हरिभिर्भल्लैर्गण्डकैर्मृगनाभिभिः ।गचैन्द्रैः शारभाद्यैश्च सेवितं कन्दरागतैः ॥२१॥मल्लिकापाटलाकुन्दकर्णिकारकदंबकैः ।सुगन्धिभिर्वृतं चान्यैर्वातोद्धूतपरगिभिः ॥२२॥नानामणिगणाकीर्णैर्नीलपीतसितारुणैः ।शृङ्गैः समुल्लिखन्तं च व्योम कौतुकसं युतम् ॥२३॥अत्युच्चपातध्वनिभिर्निर्झरैः कन्दरोद्गतैः ।गर्ज्जतमिव संसक्तं व्यालाद्यैर्मृगपक्षिभिः ॥२४॥तत्रातिकौतुकाहृष्टदृष्टयोभ्रातरो वयम् ।नास्मार्ष्म चात्मनात्मानं वियुक्ताश्च परस्परम् ॥२५॥एतस्मिन्नन्तरे चैका मृगी ह्यगात्पिपासिता ।निर्झरापात शिरसि पातुकामा जलं प्रिये ॥२६॥तस्याः पिबन्त्यास्तु जलं शार्दूलोऽतिभयङ्करः ।तत्र प्राप्तो यदृच्छातो जगृहे तां भयर्दिताम् ॥२७॥अहं तद्ग्रहणं पश्यन्भयेन प्रपलायितः ।अत्युच्चवत्त्वात्पतितो मृतश्चैणीमनुस्मरन् ॥२८॥सा मृता त्वं मृगी जाता मृग स्त्वाहमनुस्मरन् ।जातो भद्रे न जाने वै क्व गाता भ्रातरोऽग्रजाः ॥२९॥एतन्मे स्मृतिमापन्नं चरितं तव चात्मतः ।भूतं भविष्यं च तथा शृणु भद्रे वदाम्यहम् ॥३०॥योऽयं वा वृष्ठसंलग्नो व्याधो दूरस्थितोऽभवत् ।रामस्यास्य भयात्सोऽपि भक्षितो हरिणा धुना ॥३१॥प्राणांस्त्यक्त्वा विधानेन स्वर्गलोकं गमिष्यति ।अवाभ्यां तु जलं पीतं मध्यमे पुष्करे त्विह ॥३२॥संदृष्टो भार्गवश्चायं साक्षाद्विष्णुस्वरूपधृक् ।तेनानेकभवोत्पन्नं पातकं नाशमागतम् ॥३३॥अगस्त्यदर्शनं लब्ध्वा श्रुत्वा स्तोत्रं गतिप्रदम् ।गमिष्यावः शुभांल्लोकान्येषु गत्वा न शोचति ॥३४॥इत्येवमुक्त्वा स मृगः प्रियायै प्रियदर्शनः ।विरराम प्रसन्नात्मा पश्यन्राममना तुरः ॥३५॥भर्गवः श्रुतवांश्चैव मृगोक्तं शिष्यसंयुतः ।विस्मितोऽभूच्च राजेन्द्र गन्तुं कृतमतिस्तथा ॥३६॥अकृतव्रमसंयुक्तो ह्यगस्त्यस्याश्रमं प्रति ।स्नात्वा नित्यक्रियां कृत्वा प्रतस्थे हर्षितो भृशम् ॥३७॥रामेण गच्छता मार्गे दृष्टो व्याधो मृतस्तदा ।सिंहस्य संप्रहारेम विस्मितेन महात्मना ॥३८॥अध्यर्द्धयोजनं गत्वा कनिष्ठं पुष्करं प्रति ।स्नात्वा माध्याह्निकीं सन्ध्यां चका रातिमुदान्वितः ॥३९॥हितं तदात्मनः प्रोक्तं मृगेण स विचारयन् ।तावत्तत्पृष्ठसंलग्नं मृगयुग्ममुपागतम् ॥४०॥पुष्करे तु जलं पीत्वाभिषिच्यात्मतनुं जलैः ।पश्यतो भार्गवस्यागादगस्त्याश्रमसंमुखम् ॥४१॥रामोऽपि सन्ध्यां निर्वर्त्त्य कुंभजस्याश्रमं ययौ ।विपद्गतं पुष्करं तु पश्यमानो महामनाः ॥४२॥विष्णोः पदानि नागानां कुण्डं सप्तर्षिसंस्थितम् ।गत्वोपस्पृश्य शुच्यंभो जगामागस्त्यसंश्रयम् ॥४३॥यच्च ब्रह्मसुता राजन्समायाता सरस्वती ।त्रीन्संपूरयितुं कुण्डानग्निहोत्रस्य वै विधेः ॥४४॥तत्र तीरे शुभं पुण्यं नानामुनिनिषेवितम् ।ददर्श महदाश्चर्यं भार्गवः कुंभजाश्रमम् ॥४५॥मृगैः सिंहैः सहगतैः सेवितं शान्तमानसैः ।कुटरैरर्जुनैर्निंबैः पारिभद्रधवेगुदैः ॥४६॥खदिरासनखर्जूरैः संकुलं बदरीद्रुमैः ।तत्र प्रविश्य वै रामो ह्यकृतव्रणसंयुतः ॥४७॥ददर्श मुनिमासीनं कुम्भजं शान्तमानसम् ।स्तिमितोदसरः प्रख्यं ध्यायन्तं ब्रह्म शाश्वतम् ॥४८॥कौश्यां वृष्यां मार्गकृत्तिं वसानं पल्लवोटजे ।ननाम च महाराज स्वाभिधानं समुच्चरन् ॥४९॥रामोऽस्मि जामदग्न्योऽहं भवन्तं द्रष्टुमागतः ।ताद्विद्धि प्रणिपातेन नमस्ते लोकभावन ॥५०॥इत्युक्तवन्तं रामं तु उन्मील्य नयने शनैः ।दृष्ट्वा स्वागतमुच्चार्य तस्मायासनमादिशत् ॥५१॥मधुपर्कं समानीय शिष्येण मुनिपुङ्गवः ।ददौ पप्रच्छ कुशलं तपसश्च कुलस्य च ॥५२॥स पृष्टस्तेन वै रामो घटोद्भवमुवाच ह ।भवत्संदर्शनादीश कुशलं मम सर्वतः ॥५३॥किं त्वङ्कं संशयं जातं छिन्धि स्ववचनामृतैः ।मृगश्चैको मया दृष्टो मध्यमे पुष्करे विभो ॥५४॥तेनोक्तमखिलं वृत्तं मम भूतमनागतम् ।तच्छूत्वा विस्मयाविष्टो भवच्छरणमागतः ॥५५॥पाहि मां कृपया नाथ साधयन्त महामनुम् ।शिवेन दत्तं कवच मम साधयतो गुरो ॥५६॥कृष्मस्य समतीत तु साधिकं हि शरच्छतम् ।न च सिद्धिमवाप्तोऽहं तन्मे त्वं कृपया वद ॥५७॥वसिष्ठ उवाचएवं प्रश्नं समाकर्ण्य रामस्य सुमहात्मनः ।क्षणं ध्यात्वा महाराज मृगोक्तं ज्ञातवान् हृदा ॥५८॥मृगं चापि समायातं मृग्या सह निजाश्रमे ।श्रोतुं कृष्णामृतं स्तोत्रं सर्वं तत्कारण मुनिः ।विचार्याश्वासयामास भार्गवः स्ववचोमृतैः ॥५९॥इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीयउपोद्धातपादे भार्गवच रिते पञ्चत्रिंशत्तमोऽध्यायः॥३५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP