संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः| अध्यायः ३४ मध्यम भागः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ मध्यम भागः - अध्यायः ३४ ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे. Tags : brahmand puranpuranपुराणब्रह्माण्ड पुराणसंस्कृत अध्यायः ३४ Translation - भाषांतर सगर उवाचब्रह्मपुत्र महाभाग महान्मेऽनुग्रहः कृतः ।यदिदं कवचं मह्यं प्रकाशितमनामयम् ॥१॥और्वेणानुगृहीतोऽहं कृतास्त्रो यदनुग्रहात् ।भवतस्तु कृपापात्रं जातोऽहमधुना विभो ॥२॥रामेण भार्गवेन्द्रेण कार्त्तवीर्यो नृपो गुरो ।यथा समापितो वीरस्तन्मे विस्तरतो वद ॥३॥कृपापात्रं स दत्तस्य राजा रामः शिवस्य च ।उभौ तौ समरे वीरौ जघटाते कथं गुरो ॥४॥वसिष्ठ उवाचशृणु राजन्प्रवक्ष्यामि चरितं पापनाशनम् ।कार्त्तवीर्यस्य भूपस्य रामस्य च महात्मनः ॥५॥स रामः कवचं लब्ध्वा मन्त्रं चैव गुरोर्मुखात् ।चकार माधनं तस्य भक्त्या परमया युतः ॥६॥भूमिशागी त्रिषवण स्नानसध्यापरायणः ।उवासपुष्करे राम शतवर्षमतन्द्रितः ॥७॥समित्पुष्पकुशादीनि द्रव्याण्यहरहर्भृगोः ।आनीय काननाद्भूप प्रायच्छदकृतव्रणः ॥८॥सततं ध्यानसंयुक्तो रामो मतिमतां वरः ।आराधयामास विभुं कृष्णं कल्मषनाशनम् ॥९॥तस्यैवं यजमानस्य रामस्य जगतीपते ।गतं वर्षशतं तत्र ध्यानयुक्तस्य नित्यदा ॥१०॥एकदा तु महाराज रामः स्नातुं गतो महान् ।मध्यमं पुष्करं तत्र ददर्शाश्वर्यमुत्तमम् ॥११॥मृग एकः समायातो मृग्य युक्तः पलायितः ।व्याधस्य मृगयां प्राप्तो धर्मतप्तोऽतिपीडितः ॥१२॥पिपासितो महाभाग जलपानसमुत्सुकः ।रामस्य पश्यतस्तत्र सरसस्तटमागतः ॥१३॥पश्चान्मृगी समायाता भीता सा चकितेक्षणा ।उभो तौ पिबतस्तत्र जलं शङ्कितमानसौ ॥१४॥तावत्समागतो व्याधो बाणपाणिर्धनुर्द्धरः ।स दृष्ट्वा तत्र संविष्टं रामं भार्गवनन्दनम् ॥१५॥अकृतव्रणसंयुक्तं तस्थौ दूरकृतेक्षणः ।स चिन्तयामास तदा शङ्कितो भृगुनन्दनात् ॥१६॥अयं रामो महावीरो दुष्टानामन्तकारकः ।कथमेतस्य हन्म्येतौ पश्यतो मृगयामृगौ ॥१७॥इति चिन्ता समाविष्टो व्याधो राजन्यसत्तम ।तस्थौ तत्रैव रामस्य भयात्संत्रस्तमानसः ॥१८॥रामस्तु तौ मृगों दृष्ट्वा पिबन्तौ सभ्यं जलम् ।तर्कयामास मेधावी किमत्र भयकारणम् ॥१९॥नैवात्र व्याघ्रसेनादो न च व्याधो हि दृश्यते ।केनैतौ कारणेनाहो शङ्कितौ चकितेक्षणौ ॥२०॥अथ वा मृगजातिर्हि निसर्गाच्चकितेक्षणा ।चेनैतौ जलपानेऽपि पश्यतश्चकितेक्षणौ ॥२१॥नैतावत्कारणं चात्र किन्तु खेदभयातुरौ ।लक्षयेते खिन्नसर्वाङ्गौ कम्पयुक्तौ यतस्त्विमौ ॥२२॥एवं संचिन्त्य मतिमान्स तस्थौ मध्यपुष्करे ।शिष्येण संयुतो रामो यावत्तौ चापि संस्थितौ ॥२३॥पीत्वा जलं ततस्तौ तु वृक्षच्छायासमाश्रितौ ।रामं दृष्ट्वा महात्मानं कथां तौ चक्रतुर्मुदा ॥२४॥मृग्युवाचकान्त चात्रैव तिष्ठावो यावद्रामोऽत्रसंस्थितः ।अस्य वीरस्य सांनिध्ये भयं नैवावयोर्भवेत् ॥२५॥अत्राप्यागत्य चैव्द्याधौ ह्यावयोः प्रहरिष्यति ।दृष्टमात्रो हि मुनिना भस्मीभूतो भविष्यति ॥२६॥इत्युक्ते वचने मृग्या रामर्शनतुष्टया ।मृगश्चोवाच हर्षेण समाविष्टः प्रियां स्वकाम् ॥२७॥एवमेव महाभागे यद्वै वदसि भामिनि ।जानेऽहमपि रामस्य प्रभावं सुमहात्मनः ॥२८॥योऽयं संदृश्यते चास्य पार्श्वं शिष्योऽकृतव्रणः ।सचाने न महाभागस्त्रातो व्याघ्रभयातुरः ॥२९॥अयं रामो महाभागे जमदग्निसुतोऽनुजः ।पितरं कार्त्तवीर्येण दृष्ट्वा चैव तिरस्कृतम् ॥३०॥चकारातितरां क्रुद्धः प्रतिज्ञां नृपघातिनीम् ।तत्पूर्तिकामो ह्यगमद्ब्रह्मलोकं पुरा ह्ययम् ॥३१॥स ब्रह्मा दिष्टवांश्चैनं शिवलोकं व्रजेति ह ।तस्य त्वाज्ञां समादाय गतोऽसौ शिवसन्निधिम् ॥३२॥प्रोवाचाखिलवृत्तान्त राज्ञश्चप्यात्मनः पितुः ।स कृपालुर्महादेवः सभाज्य भृगुनन्दनम् ॥३३॥ददौ कृष्णस्य सन्मन्त्रमभेद्यं कवचं तथा ।स्वीयं पाशुपतं चास्त्रमन्यास्त्रग्राममेव च ॥३४॥विसर्जयामास मुदा दत्त्वा शस्त्राणि चादरात् ।सोऽयमत्रागतो भद्रे मेत्रसाधनतत्परः ॥३५॥नित्यं जपति धर्मात्मा कृष्णस्य कवचं सुधीः ।शतवर्षाणि चाप्यस्य गतानि सुमहात्मनः ॥३६॥मन्त्र साधयतो भद्रे न च तत्सिद्धिरेति हि ।आत्रास्ति कारणं भक्तिः साव वै त्रिविधा मता ॥३७॥उत्तमा मध्यमा चैव कनिष्ठा तरलेक्षणे ।शिवस्य नारदस्यापि शुकस्य च महात्मनः ॥३८॥अंबरीष्स्य राजर्षे रन्तिदेवस्य मारुतेः ।बलेर्विभीषणस्यापि प्रह्लादस्य महात्मनः ॥३९॥उत्तमा भक्तिरेवास्ति गोपीनामुद्धवस्य च ।वसिष्ठादिमुनीशानां मन्वादीनां शुभेक्षणे ॥४०॥मध्या च भक्तिरेवास्ति प्राकृतान्यजनेषु सा ।मध्यभक्तिरयं रामो नित्यं यमपरायणः ॥४१॥सेवते गोपिकाधीशं तेन सिद्धिं न चागतः ।वसिष्ठ उवाचइत्युक्ता त्वरितं कान्तं सा मृगी हृष्टमानसा ॥४२॥पुनः पप्रच्छ भक्तेस्तु लक्षणं प्रेमदायकम् ।मृग्युवाचसाधुकान्त महाभाग वचस्तेऽलौकिकं प्रिय ।र्हदृग्ज्ञानं तव कथं संजातं तद्वदाधुना ॥४३॥मृग उवाचशृणु प्रिये महाभागे ज्ञानं पुण्येन जायते ॥४४॥तत्पुण्यमद्य संजातं भार्गवस्यास्य दर्शनात् ।पुण्यात्मा भार्गवश्चायं कृष्णाभक्तो जितेन्द्रियः ॥४५॥गुरुशुश्रूषको नित्यं नित्यनैमित्तिकादरः ।अतोऽस्य दर्शनाज्जातं ज्ञानं ं द्यैव भामिनि ॥४६॥त्रैलोक्यस्थितसत्त्वानां शुभाशुभनिदर्शकम् ।अद्यैव विदितं मेऽभूद्रासस्यास्य महात्मनः ॥४७॥चरितं पुण्यदं चैव पापघ्नं शृण्वतामिदम् ।यद्यत्करिष्यते चैव तदपि ज्ञानगोचरम् ॥४८॥योत्तमा भक्तिराख्याता तां विना नैव सिद्ध्यति ।कवचं मन्त्रसहितं ह्यपि वर्षायुतायुतैः ॥४९॥यद्ययं भार्गवो भद्रे ह्यगस्त्यानुग्रहं लभेत् ।कृष्णप्रेमामृतं नाम स्तोत्रमुत्तमभक्तिदम् ॥५०॥ज्ञात्वा च लप्स्यते सिद्धिं मन्त्रस्य कवचस्य च ।स मुनिर्ज्ञाततत्त्वार्थः सानुकंपोऽभयप्रदः ॥५१॥उपदेक्ष्यति चैवैनं तत्त्वज्ञानं मुदावहम् ।श्रीकृष्णचारितं सर्वं नामभिर्ग्रथितं यतः ॥५२॥कृष्णप्रेमामृतस्तोत्राज्ज्ञास्यतेऽस्य महामतिः ।ततः संसिद्ध कवचौ राजनं हैहयाधिपम् ॥५३॥हत्वा सपुत्रामात्यं च ससुहृद्बलवाहनम् ।त्रिः सप्तकृत्वो निर्भूपां करिष्यत्यवनीं प्रिय ॥५४॥वसिष्ठ उवाचएवमुक्त्वा मृगो राजन्विरराम मृगीं ततः ।आत्मनो मृगभावस्य कारणं ज्ञातवांश्च ह ॥५५॥इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीयउपोद्धातपादे भार्गवचरिते चतुस्त्रिंशत्तमोऽध्यायः॥३४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP