मध्यम भागः - अध्यायः १९
ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.
शंयुरुवाच
किं स्विद्दत्तं पितॄणां तु तृप्तिदं वदतां वर ।
किंस्वित्स्याच्चिररात्राय किं वानन्त्याय कल्पते ॥१॥
बृहस्पतिरुवाच
हवीषि श्राद्धकल्पे तु यानि श्राद्धविदो विदुः ।
तानि मे शृणु सर्वाणि फलं चैषां यथातथम् ॥२॥
तिलैर्व्रीहियवैमाषैरद्भिर्मूलफलैस्तथा ।
दत्तेन मासं प्रीयन्ते श्राद्धेन हि पितामहाः ॥३॥
मत्स्यैः प्रीणन्ति द्वौ मासौ त्रीन्मासान्हारिणेन तु ।
शाशेन चतुरो मासान्पञ्च प्रीणाति शाकुनैः ॥४॥
वाराहेण तु षण्मासाञ्छागलं सप्तमासिकम् ।
अष्टमासिकमित्युक्तं यच्च पार्वतकं भवेत् ॥५॥
रौरवेण तु प्रीयन्ते नव मासान्पितामहाः ।
गवयस्य तु मांसेन तृप्तिः स्याद्दशमासिकी ॥६॥
औरभ्रेण च मांसेन मासानेकादशैव तु ।
श्राद्धे च तृप्तिदं गव्यं पयः संवत्सरं द्विजाः ॥७॥
आनन्त्याय भवेत्तद्वत्खड्गमांसं पितृक्षये ।
पायसं मधुसर्पिर्भ्यां छायायां कुञ्जरस्य च ॥८॥
कृष्णच्छागस्य मासेन तृप्तिर्भवति शाश्वती ।
अत्र गाथाः पितृगीताः कीर्तयन्ति पुराविदः ॥९॥
तास्तेऽहं कीर्त्तयिष्यामि यथावत्सन्निबोध मे ।
अपि नः स कुले यायाद्यो नो दद्यात्त्रयोदशीम् ॥१०॥
आजेन सर्वलोहेन वर्षासु च मघासु च ।
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ।
गौरीं वाप्युद्वहेद्भार्यां नालं वा वृषमुत्सृजेत् ॥११॥
शंयुरुवाच
गयादीनां फलं तात ब्रूहि मे परिपृच्छतः ।
दातॄणां चैव यत्पुण्यं निखिलेन प्रवीहि मे ॥१२॥
बृहस्पतिरुवाच
गयायामक्षयं श्राद्धञ्जपहोमतपांसि च ।
पितृक्षये हि तत्पुत्र तस्मात्तत्राक्षयं स्मृतम् ॥१३॥
पूर्णायामेकविंशं तु गौर्यामुत्पादितः सुतः ।
महामहांश्च जुहुयादिति तस्य फलं स्मृतम् ।
फलं वृषस्य वक्ष्यामि गदतो मे निबोधत ॥१४॥
वृषोत्स्रष्टा पुनात्येव दशातीतान्दशावरान् ॥१५॥
यत्किञ्चित्स्पृशते तोयमवतीर्णो नदीजले ।
वृषोत्सर्ग्गत्पितॄणां तु ह्यक्षयं समुदाहृतम् ॥१६॥
येनयेन स्पृशेत्तोयं लाङ्गूलादिभिरङ्गशः ।
सर्वं तदक्षयं तस्य पितॄणां नात्र संशयः ॥१७॥
शृङ्गैः खुरैर्वा भूमिं यामुल्लिखत्यनिशं वृषः ।
मधुकुल्याः पितॄंस्तस्य ह्यक्षयाश्च भवन्ति वै ॥१८॥
सहस्रनल्वमात्रेण तडागेन यथास्रुतिः ।
तृप्तिस्तु या पितॄणां वै सा वृषेणेह कल्पते ॥१९॥
यो ददाति गुडोन्मिश्रतिलानि श्राद्धकर्मणि ।
मधु वामधुमिश्रं वा सर्वमेवाक्षयं भवेत् ॥२०॥
न ब्राह्मणं परिक्षेत सदा देयं हि मानवैः ।
दैवेकर्मणि पित्र्ये च श्रूयते वै परीक्षणम् ॥२१॥
सर्ववेदव्रतस्नाताः पङ्क्तीनां पावना द्विजाः ।
ये च भाषाविदः केचिद्ये च व्याकरणे रताः ॥२२॥
अधीयते पुराणं वै धर्मशास्त्रमथापि च ।
त्रिणाचिकेतः पञ्चाग्निः स सौपर्णः षडङ्गवित् ॥२३॥
ब्रह्मदेवसुतश्चैव च्छन्दोगो ज्येष्ठसामगः ।
पुण्येषु यश्च तीर्थेषु कृतस्नानः कृतव्रतः ॥२४॥
मखेषु ये च सर्वेषु भवन्त्यवभृथाप्लुताः ।
ये च सत्यव्रता नित्यं स्वधर्मनिरताश्च ये ॥२५॥
अक्रोधना लोभपरास्ताञ्छ्राद्धेषु निमन्त्रयेत् ।
एतेभ्यो दत्तमक्षय्यमेते वै पङ्क्तिपावनाः ॥२६॥
श्राद्धीया ब्रह्मणा ये तु योगव्रतसुनिष्ठिताः ।
त्रयोऽपि पूजितास्तेन ब्रह्मविष्णुमहेश्वराः ॥२७॥
पितृभिः सह लोकाश्च यो ह्येतान्पूजयेन्नरः ।
पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम् ॥२८॥
प्रथमः सर्वधर्माणां योगधर्मो निगद्यते ।
अपाङ्क्तेयान्प्रवक्ष्यमि गदतो मे निबोधत ॥२९॥
कितवो मद्यपो यश्च पशुपालो निराकृतः ।
ग्रामप्रेष्यो वार्धुषिको ह्यापणो वणिजस्तथा ॥३०॥
अगार दाही गरदो वृषलो ग्रामयाजकः ।
काण्डपृष्ठोऽथ कुण्डाशी मधुपः सोमविक्रयी ॥३१॥
समुद्रान्तरितो भृत्यः पिशुनः कूटसाक्षिकः ।
पित्रा विवदमानश्च यस्य चोपपतिर्गृहे ॥३२॥
अभिशस्तस्तथा स्तेनः शिल्पं यश्चोपजीवति ।
स्तवकः सूपकारश्च यश्च मित्राणि निन्दति ॥३३॥
काणश्च खञ्जकश्चैव नास्तिको वेदवर्जितः ।
उन्मत्तोऽप्यथ षण्ढश्च भ्रूणहा गुरुतल्पगः ॥३४॥
भिषग्जीवी प्राशनिकः परस्त्रीं यश्च सेवते ।
विक्रीणाति च यो ब्रह्मव्रतानि नियमांस्तथा ॥३५॥
नष्टं स्यान्नास्तिके दत्तं व्रतघ्ने चापवर्जितम् ।
यच्चवाणिजके दत्तं नेह नामुत्र संभवेत् ॥३६॥
निक्षेपहारके चैव कृतघ्ने विदवर्जिते ।
तथा पाणविके वै च कारुके धर्मवर्जिते ॥३७॥
क्रीणाति यो ह्यपण्यानि विक्रीणाति प्रशंसति ।
अन्यत्रास्य समाधानं न वणिकूछ्राद्धमर्हति ॥३८॥
भस्मनीव हुतं हव्यं दत्तं पौनर्भवे द्विजः ।
षष्टिं काणः शतं षण्ढः श्वित्री पञ्चशतान्यपि ॥३९॥
पापरोगी सहस्रं वै दातुर्नाशयते फलम् ।
भ्रश्येद्धि स फलात्तस्मात्प्रदाता यस्तु बालिशः ॥४०॥
यद्विष्टितशिरा भुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः ।
सोपानत्कश्च यद्भुङ्क्ते यच्च दत्तमसत्कृतम् ॥४१॥
सर्वं तदसुरेद्राय ब्रह्मा भागमकल्पयत् ।
श्वा चैव ब्रह्महा चैव नावेक्षेत कथञ्चन ॥४२॥
तस्मात्परिवृतैर्दद्यात्तिलैश्चान्नं विकीर्य च ।
राक्षसानां तिलाः प्रोक्ताः शुनां परिवृतास्तथा ॥४३॥
दर्शनात्सूकरो हन्ति पक्षवातेन कुक्कुटः ।
रजस्वलायाः स्पर्शेन क्रुद्धोयश्च प्रयच्छति ॥४४॥
नदीतीरेषु रम्येषु सरित्सु च सरस्सु च ।
विविक्तेषु च प्रीयन्ते दत्तेनेह पितामहाः ॥४५॥
नासव्यंपातयेज्जानु न युक्तो वाचमीरयेत् ।
तस्मात्परिवृतेनेह विधिवद्दर्भपाणिना ॥४६॥
पित्रोराराधनं कार्यमेवं प्रीणयते पितॄन् ।
अनुमान्य द्विजान्पूर्वमर्गौं कुर्याद्यथाविधि ॥४७॥
पितॄणां निर्वपेद्भूमौ सूर्ये वा दर्भसंस्तरे ।
शुक्लपक्षे च पूर्वाङ्णे श्राद्धं कुर्याद्यथाविधि ॥४८॥
कृष्णपक्षेऽपरङ्णे तु रौहिणं वै न लङ्घयेत् ।
एवमेते महात्मानो महायोगा महौजसः ॥४९॥
सदा वै पितरः पूज्याः सं प्राप्तौ देशकालयोः ।
पितृभक्त्यैव तु नरो योगं प्राप्नोति दुर्ल्लभम् ॥५०॥
ध्यानेन मोक्षं गच्छेद्धि हित्वा कर्म शुभाशुभम् ।
यज्ञहेतोस्तदुद्धृत्य मोहयित्वा जगत्तथा ॥५१॥
गुहायां निहितं ब्रह्म कश्यपेन महात्मना ।
अमृतं गुह्यमुद्धृत्य योगे योगविदां वराः ॥५२॥
प्रोक्तः सनत्कुमारेण महातो ब्रह्मणः पदम् ।
देवानां परमं गुह्यमृषीणां च परायणम् ॥५३॥
पितृभक्त्या प्रयत्नेन प्राप्य ते तन्मनीषिभिः ।
पितृभक्तः समासेन पितृपूर्वपरश्च यः ॥५४॥
अयत्नात्प्राप्नुयादेव सर्वमेतन्न संशयः ॥५५॥
बृहस्पतिरुवाच
यस्मैश्राद्धानि देयानि यच्च दत्तं महत्फलम् ।
येषु चाप्यक्षयं श्राद्धं तीर्थेषु च गुहासु च ॥५६॥
येषु स्वर्गमवाप्नोति तत्ते प्रोक्तं ससंग्रहम् ।
श्रुत्वेमं श्राद्धकल्पं च न कुर्याद्यस्तु मानवः ॥५७॥
स मज्जेन्नरके घोरे नास्तिकस्तमसावृते ।
परिवादो न कर्त्तव्यो योगिनां तु विशेषतः ॥५८॥
परिवादात्क्रिमिर्भूत्वा तत्रैव परिवर्त्तते ।
योगान्परिवदेद्यस्तु ध्यानिनो मोक्षकाङ्क्षिणः ॥५९॥
स गच्छेन्नरकं घोरं श्रोताप्यस्य न संशयः ।
आवृतं तमसः सर्वं नरकं घोरदर्शनम् ।
योगीश्वरपरीवादान्न स्वर्गं याति मानवः ॥६०॥
योगेश्वराणामा क्रोशं शृणुयाद्यो यतात्मनाम् ।
सहि कालं चिरं मज्जेन्नरके नात्र संशयः ।
कुंभीपाकेषु पच्यन्ते जिह्वाच्छेदे पुनः पुनः ॥६१॥
समुद्रे च यथा लोषटस्तद्बत्सीदन्ति ते नराः ।
मनसा कर्मणा वाचा द्वेषं योगेषु वर्जयेत् ।
प्रोत्यानन्तं फलं भुङ्क्त इह वापि न संशयः ॥६२॥
न पारगो विन्दति परमात्मनस्त्रिलोकमध्ये चरति स्वकर्ममिः ।
ऋचो यजुः साम तदङ्गपारगेऽविकारमेतं ह्यनवाप्य सीदति ॥६३॥
विकारपारं प्रकृतेश्च पारगस्त्रयीगुणाना त्रिगुणस्य पारगः ।
यः स्याच्चतुर्विशतितत्त्वपारगः स पारगो नाध्ययनस्य पारगः ॥६४॥
कृत्स्नं यथावत्समुपैति तत्परस्तथैव भूयः प्रलयत्वमात्मनः ।
प्रत्याहरेद्योगपथं न यो द्विजो न सर्वपार क्रमपारगोचरः ॥६५॥
वेदस्य वेदितव्यं च वेद्यं विन्दति योगवित् ।
तं वै वेदविदः प्राहुस्तमाहुर्वेदपारगम् ॥६६॥
वेदं च वेदितव्यं च विदित्वा वै यथास्थितः ।
एवं वेदविदः प्राहुरन्यं वै वेदपारगम् ॥६७॥
यज्ञान्वेदांस्तथा कामांस्तपांसि विविधानि च ।
प्राप्नोत्यायुः प्रजाश्चैव पितृभक्तो न सशयः ॥६८॥
श्रद्धया श्राद्धकल्पं तु यस्त्विमं नियतः पठेत् ।
सर्वाण्येतानि वाप्नोति तीर्थदानफलानि च ॥६९॥
स पङ्क्तिपावनश्चैव द्विजानामग्रभुग्भवेत् ।
आश्राव्य च द्विजान्सोऽथ सर्वकामानवाप्नुयात् ॥७०॥
यश्चैतच्छृणुयान्नित्यम न्यांश्च श्रावयेद्द्विजः ।
अनसूयुर्जितक्रोधो लोभमोहविवर्जितः ॥७१॥
तीर्थादीनां फलं प्राप्य दानादीनां च सर्वशः ।
मोक्षोपायं लभेच्छ्रेष्ठं स्वर्गोपायं न संशयः ।
इह चापि परा पुष्ठिस्तस्मात्कुर्वीत नित्यशः ॥७२॥
इमं विधिं यो हि पठेदतन्द्रितः समाहितः संसदि पर्वसंधिषु ।
अपत्यभागी च परेण तेजसा दिवौकसां स व्रजते सलोकताम् ॥७३॥
येन प्रोक्तस्त्वयं कल्पो नमस्तस्मै स्वयंभुवे ।
महायोगेश्वरेभ्यश्च सदा च प्रणतोऽस्म्यहम् ॥७४॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे
श्राद्धकल्पे ब्रह्मणपरीक्षा नाम एकोनविंशोऽध्यायः॥१९॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP