संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः| अध्यायः ३७ मध्यम भागः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ मध्यम भागः - अध्यायः ३७ ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे. Tags : brahmand puranpuranपुराणब्रह्माण्ड पुराणसंस्कृत अध्यायः ३७ Translation - भाषांतर वसिष्ठ उवाचदृष्ट्वा परशुरामस्तु तदाश्चर्यं महाद्भुतम् ।जगाद सर्ववृत्तान्तं मृगयोस्तु यथाश्रुतम् ॥१॥तच्छ्रुत्वा भगवान्साक्षादगस्त्यः कुंभसंभवः ।मोदमान उवाचेदं भार्गवं पुरतः स्थितम् ॥२॥अगस्त्य उवाचशृणु राम महाभाग कार्याकार्विशारद ।हितं वदामि यत्तेऽद्य तत्कुरुष्व समाहितः ॥३॥इतो विदूरे सुमहत्स्थानं विष्णोः सुदुर्लभम् ।पदानि यत्र दृश्यन्ते न्यस्तानि सुमाहात्मना ॥४॥यत्र गङ्गा समुद्भूता वामस्य महात्मनः ।पदाग्रात्क्रमतो लोकांस्तद्बलेस्तु विनिग्रहे ॥५॥तत्र गत्वा स्तवं चेदं मासमैकमनन्यधीः ।पठस्व नियमेनैव नियतो नियताशनः ॥६॥यत्त्वया कवचं पूर्वमभ्यस्तं सिद्धिमिच्छता ।शत्रूणां निग्रहार्थाय तच्च ते सिद्धिदं भवेत् ॥७॥वसिष्ठ उवाचएव मुक्तो ह्यगस्त्येन रामः शत्रुनिबर्हणः ।नमस्कृत्य मुनीं शान्तं निर्जगामाश्रमाद्बहिः ॥८॥पुनस्तेनैव मार्गेण संप्राप्तस्तत्र सत्वरम् ।यत्रोत्तरात्पदन्यासान्निर्गता स्वर्णदी नृप ॥९॥तत्र वासं प्रकल्प्यासावकृतव्रणसंयुतः ।समभ्यस्यत्स्तवं दिव्यं कृष्मप्रेमामृताभिधम् ॥१०॥नित्यं व्रजपतेस्तस्य स्तोत्रं तुष्टोऽभवद्धरिः ।जगाम दर्शनं तस्य जामदग्न्यस्य भूपते ॥११॥चतुर्व्यूहाधिपः साक्षात्कृष्णः कमललोचनः ।किरीटंनार्कवर्णेन कुण्डलाभ्यां च राजितः ॥१२॥कौस्तुभोद्भासितोरस्कः पीतवासा धनप्रभः ।मुरलीवादनपरः साक्षान्मोहनरूपधृक् ॥१३॥तं दृष्ट्वा सहसोत्थाय जामदग्न्यो मुदान्वितः ।प्रणम्य दण्डवद्भमौ तुष्टाव प्रयतो विभुम् ॥१४॥परशुरामुवाचनमो नमः कारणविग्रहाय प्रपन्नपालाय सुरार्त्तिहारिणे ।ब्रह्मेशविष्ण्विद्रमुखस्तुताय नतोऽस्मि नित्यं परमेश्वराय ॥१५॥यं वेदवादैर्विविधप्रकारैर्निर्णेतुमीशानमुखा न शक्नुयुः ।तं त्वामनिर्देश्यमचं पुराममनन्तमीडे भव मे दयापरः ॥१६॥यस्त्वेक ईशो निजवाञ्च्छितप्रदो धत्ते तनूर्लोकविहार रक्षणे ।नाना विधा देवमनुष्यतिर्यग्यादः सु भूमेर्भरवारणाय ॥१७॥तं त्वामहं भक्तजनानुरक्तं विरक्तमत्यन्तमपीन्दिरादिषु ।स्वयं समक्षंव्यभिचारदुष्टचित्तास्वपि प्रेमनिबद्धमानसम् ॥१८॥यं वै प्रसन्ना असुराः सुरा नराः सकिन्नरास्तिर्यकेयोनयोऽपि हि ।गताः स्वरूपं निखलं विहाय ते देहस्त्र्यपत्यार्थममत्वमीश्वर ॥१९॥तं देवदेवं भजतामभीप्सितप्रदं निरीहं गुणवर्जितं च ।अचिन्त्यमव्यक्तमघौघनाशनं प्राप्तोऽरणं प्रेमनिधानमादरात् ॥२०॥तपन्ति तापैर्विविधैः स्वदेहमन्ये तु यज्ञैर्विविधैर्यजन्ति ।स्वप्नेऽपि ते रूपमलौकिकंविभो पश्यन्ति नैवार्थनिबद्धवासनाः ॥२१॥ये वै त्वदीयं चरणं भवश्रमान्निर्विण्मचित्ता विधिवत्स्मरन्ति ।नमन्ति भक्त्याथ समर्चयन्ति वै परस्परं संसदि वर्णयन्ति ॥२२॥तेनैकजन्मोद्भवपङ्कभेदनप्रसक्तचित्ता भवतोंऽघ्रिपद्मे ।तरन्ति चान्यानपि तारयन्ति हि भवौषधं नाम सुधा तवेश ॥२३॥अहं प्रभो कामनिबद्धचित्तो भवन्तमार्यं विविधप्रयत्नैः ।आराधयं नाथ भवानभिज्ञः किं ते ह विज्ञाप्यमिहास्ति लोके ॥२४॥वसिष्ठ उवाचइत्येवं जामदग्न्यं तु स्तुवन्तं प्रणतं पुरः ।उवाचागाधया वाचा मोहयन्निव मायया ॥२५॥कृष्ण उवाचहन्त राम महाभाग सिद्धं ते कार्यमुत्तमम् ।कवचस्य स्तवस्यापि प्रभावादवधारय ॥२६॥हत्वा तं कार्त्तवीर्यं हि राजानं दृप्तमानसम् ।साधयित्वा पितुर्वैरं कुरु निःक्षत्रियां महीम् ॥२७॥मम चक्रावतारो हि कार्त्तवीर्यो धरातले ।कृतकार्यो द्विजश्रेष्ट तं समापय मानद ॥२८॥अद्य प्रभृति लोकेऽस्मिन्नंशावेशेन मे भवान् ।चरिष्यति यथा कालं कर्त्ता हर्त्ता स्वयं प्रभुः ॥२९॥चतुर्विशे युगे वत्स त्रेतायां रघुवंशजः ।रामो नाम भविष्यामि चतुर्व्यूहः सनातनः ॥३०॥कौसल्यानन्दजनको राज्ञो दशरथादहम् ।तदा कौशिकयज्ञं तु साधयित्वा सलक्ष्मणः ॥३१॥गमिष्यामि महाभाग जनकस्य पुर महत् ।तत्रेशचापं निर्भज्य परिणीय विदेहजाम् ॥३२॥तदा यास्यन्नयोध्यां ते हरिष्ये तेज उन्मदम् ।वसिष्ठ उवाचकृष्ण एवं समदिश्य जामदग्न्यं तपोनिधिम् ।पश्यतोंऽतर्दधे तत्र रामस्य मुमहात्मनः ॥३३॥इति श्रीब्रहामाण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीयउपोद्धातपादे भर्गवचरिते सप्तत्रिंशत्तमोऽध्यायः॥३७॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP