संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः| साहसम् कात्यायनस्मृतिः राजगुणाः राजधर्माः व्यवहारलक्षणादि धर्माधिकरणम् कार्यदर्शनकालः प्राड्विवाकः सभ्याः कार्यनिर्णेतॄणां गुरुलाघवम् प्रश्नप्रकारः प्रतिनिधिः आह्वानं आसेधः अनासेध्याः प्रतिभूत्वेनाग्राह्याः अभियोक्त्रादीनां उक्तिक्रमः प्रतिज्ञास्वरूपम् प्रतिज्ञादोषाः पूर्वपक्षदोषाः चतुर्विधं उत्तरम् उत्तराभासा उत्तरदोषा वा वादहानिकराणि क्रियापादः लेख्यम् लेख्यपरीक्षा भुक्तिः युक्तिः साक्षिणः साक्षिदोषोद्भावनम् साक्षिणां दोषा दण्डाश्च दिव्यदेशाः विधिः निर्णयकृत्यम् दण्डविधिः पुनर्न्यायः ऋणादाने वृद्धिविचारः आकृतवृद्धिः वृद्धेः परिमाणं ऋणोद्धरणं प्रतिभूविधानम् उपनिधिः अस्वामिविक्रयः सम्भूयसमुत्थानम् वेतनस्यानपाकर्म स्वामिपालविवादः नैगमादिसंज्ञालक्षणम् अभ्युपेत्याशुश्रूषा सीमाविवादः वाक्पारुष्यम् दण्डपारुष्यम् साहसम् स्तेयम् स्त्रीसंग्रहणम् स्त्रीपुंधर्मः दायविभागः अविभाज्यानि विभक्तचिह्नादि स्त्रीधने स्वाम्यादिविचारः मृतायाः स्त्रिया धनाधिकारिणः द्यूतसमाह्वयौ प्रकीर्णकम् कात्यायनस्मृतिः - साहसम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmakatyayansmritiकात्यायनकात्यायन स्मृतिःधर्मसंस्कृतस्मृतिः साहसम् Translation - भाषांतर सहसा यत्कृतं कर्म तत्साहसं उदाहृतम् ॥७९५॥सान्वयस्त्वपहारो यः प्रसह्य हरणं च यत् ।साहसं च भवेदेवं स्तेयं उक्तं विनिह्नवः ॥७९६॥विना चिह्नैस्तु यत्कार्यं साहसाख्यं प्रवर्तते ।शपथैः स विशोध्यः स्यात्सर्ववादेष्वयं विधिः ॥७९७॥एकं चेद्वहवो हन्युः संरब्धाः पुरुषं नराः ।मर्मघातो तु यस्तेषां स घातक इति स्मृतः ॥७९८॥व्यापादनेन तत्कारी वधं चित्रं अवाप्नुयात् ।विनाशहेतुं आयान्तं हन्यादेवाविचारयन् ॥७९९॥उद्यतानां तु पापानां हन्तुर्दोषो न विद्यते ।निवृत्तास्तु यदारम्भाद्ग्रहणं न वधः स्मृतः ॥८००॥आततायिनि चोत्कृष्टे तपःस्वाध्यायजन्मतः ।वधस्तत्र तु नैव स्यात्पापे हीने वधो भृगुः ॥८०१॥उद्यतासिविषाग्निश्च चापोद्यतकरस्तथा ।आथर्वणेन हन्ता च पिशुनश्चैव राजनि ॥८०२॥भार्यातिक्रमकारी च रन्ध्रान्वेषणतत्परः ।एवं आद्यान्विजानीयात्सर्वानेवाततायिनः ॥८०३॥यशोवृत्तहरान्पापानाहुर्धर्मार्थहारकान् ।अनाक्षारितपूर्वो यस्त्वपराधे प्रवर्तते ।प्राणद्रव्यापहारे च तं विद्यादाततायिनम् ॥८०४॥नखिनां शृण्गिणां चैव दंष्ट्रिणां चाततायिनाम् ।हस्त्यश्वानां तथान्येषां वधे हन्ता न दोषभाक् ॥८०५॥गर्भस्य पातने स्तेनो ब्राह्मण्यां शस्त्रपातेन ।अदुष्टां योषितं हत्वा हन्त्व्यो ब्राह्मणोऽपि हि ॥८०६॥क्षतं भङ्गोपमर्दौ च कुर्याद्द्रव्येषु यो नरः ।प्राप्नुयात्साहसं पूर्वं द्रव्यभाक्स्वाम्युदाहृतः ॥८०७॥हरेद्भिन्द्याद्दहेद्वापि देवानां प्रतिमां यदि ।तग्गृहं चैव यो भिन्द्यात्प्राप्नुयात्पूर्वसाहसम् ॥८०८॥प्राकारं भेदयेद्यस्तु पातयेच्छातयेत्तथा ।बध्नीयादम्भसो मार्गं प्राप्नुयात्पूर्वसाहसम् ॥८०९॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP