संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः| क्रियापादः कात्यायनस्मृतिः राजगुणाः राजधर्माः व्यवहारलक्षणादि धर्माधिकरणम् कार्यदर्शनकालः प्राड्विवाकः सभ्याः कार्यनिर्णेतॄणां गुरुलाघवम् प्रश्नप्रकारः प्रतिनिधिः आह्वानं आसेधः अनासेध्याः प्रतिभूत्वेनाग्राह्याः अभियोक्त्रादीनां उक्तिक्रमः प्रतिज्ञास्वरूपम् प्रतिज्ञादोषाः पूर्वपक्षदोषाः चतुर्विधं उत्तरम् उत्तराभासा उत्तरदोषा वा वादहानिकराणि क्रियापादः लेख्यम् लेख्यपरीक्षा भुक्तिः युक्तिः साक्षिणः साक्षिदोषोद्भावनम् साक्षिणां दोषा दण्डाश्च दिव्यदेशाः विधिः निर्णयकृत्यम् दण्डविधिः पुनर्न्यायः ऋणादाने वृद्धिविचारः आकृतवृद्धिः वृद्धेः परिमाणं ऋणोद्धरणं प्रतिभूविधानम् उपनिधिः अस्वामिविक्रयः सम्भूयसमुत्थानम् वेतनस्यानपाकर्म स्वामिपालविवादः नैगमादिसंज्ञालक्षणम् अभ्युपेत्याशुश्रूषा सीमाविवादः वाक्पारुष्यम् दण्डपारुष्यम् साहसम् स्तेयम् स्त्रीसंग्रहणम् स्त्रीपुंधर्मः दायविभागः अविभाज्यानि विभक्तचिह्नादि स्त्रीधने स्वाम्यादिविचारः मृतायाः स्त्रिया धनाधिकारिणः द्यूतसमाह्वयौ प्रकीर्णकम् कात्यायनस्मृतिः - क्रियापादः स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmakatyayansmritiकात्यायनकात्यायन स्मृतिःधर्मसंस्कृतस्मृतिः क्रियापादः Translation - भाषांतर कारणात्पूर्वपक्षोऽपि ह्युत्तरत्वं प्रपद्यते ।अतः क्रिया तदा प्रोक्ता पूर्वपक्षप्रसाधिनी ॥२११॥शोधिते लिखिते सम्यगिति निर्दोष उत्तरे ।प्रत्यर्थिनोऽर्थिनो वापि क्रियाकरणं इष्यते ॥२१२॥वादिना यदभिप्रेतं स्वयं साधयितुं स्फुटम् ।तत्साध्यं साधनं येन तत्साध्यं साध्यतेऽखिलम् ॥२१३॥प्रमाणानि, तेषां च बलाबलादिविचारःलिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं विदुः ।लेशोद्देशस्तु युक्तिः स्याद्दिव्यानीह विषादयः ॥२१४॥पूर्ववादेऽपि लिखिते यथाक्षरं अशेषतः ।अर्थी तृतीयपादे तु क्रियया प्रतिपादयेत् ॥२१५॥कार्यं हि साध्यं इत्युक्तं साधनं तु क्रियोच्यते ।द्विभेदा सा पुनर्ज्ञेया दैविकी मानुषी तथा ।मानुषी लिख्यसाक्ष्यादिर्वधादिर्दैविकी मता ॥२१६॥संभवे साक्षिणां प्राज्ञो दैविकीं वर्जयेत्क्रियाम् ।संभवे तु प्रयुञ्जानो दैविकीं हीयते ततः ॥२१७॥यद्येको मानुषीं ब्रूयादन्यो ब्रूयात्तु दैविकीम् ।मानुषीं तत्र गृह्णीयान्न तु दैवीं क्रियां नृपः ॥२१८॥यद्येकदेशव्याप्तापि क्रिया विद्येत मानुषी ।सा ग्राह्या न तु पूर्णापि दैविकी वदतां नृणाम् ॥२१९॥पञ्चप्रकारं दैवं स्यान्मानुषं त्रिविधं स्मृतम् ॥२२०॥क्रियां बलवतीं मुक्त्वा दुर्बलां योऽवलम्बते ।स जयेऽवधृते सभ्यैः पुनस्तां नाप्नुयात्क्रियाम् ॥२२१॥सारभूतं पदं मुक्त्वा असाराणि बहून्यपि ।संसाधयेत्क्रिया या तु तां जह्यात्सारवर्जिताम् ।पक्षद्वयं साधयेद्या तां जह्याद्दूरतः क्रियाम् ॥२२२॥क्रिया न दैविकी प्रोक्ता विद्यामानेषु साक्षिषु ।लेख्ये च सति वादेषु न दिव्यं न च साक्षिणः ॥२२३॥कालेन हीयते लेख्यं दूषितं न्यायतस्तथा ।अलेख्यसाक्षिके दैवीं व्यवहारे विनिर्दिशेत् ।दैवसाध्ये पौरुषेयीं न लेख्यं वा प्रयोजयेत् ॥२२४॥पूगश्रेणिगणादीनां या स्थितिः परिकीर्तिता ।तस्यास्तु साधनं लेख्यं न दिव्यं न च साक्षिणः ॥२२५॥द्वारमार्गक्रियाभोग जलवाहादिके तथा ।भुक्तिरेव हि गुर्वी स्यान्न लेख्यं न च साक्षिणः ॥२२६॥दत्तादत्तेऽथ भृत्यानां स्वामिना निर्णये सति ।विक्रयादानसंबन्धे क्रीत्वा धनं अयच्छति ॥२२७॥द्यूते समाह्वये चैव विवादे समुपस्थिते ।साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेख्यकम् ॥२२८॥प्रक्रान्ते साहसे वादे पारुष्ये दण्डवाचिके ।बलोद्भूतेषु कार्येषु साक्षिणो दिव्यं एव वा ॥२२९॥गूढसाहसिकानां तु प्राप्तं दिव्यैः परीक्षणम् ।युक्तिचिह्नेङ्गिताकार वाक्चक्षुश्चेष्टितैर्नृणाम् ॥२३०॥उत्तमेषु च सर्वेषु साहसेषु विचारयेत् ।सद्भावं दिव्यदृष्टेन सत्सु साक्षिषु वै भृगुः ॥२३१॥समत्वं साक्षिणां यत्र दिव्यैस्तत्रापि शोधयेत् ।प्राणान्तिकविवादेषु विद्यामानेषु साक्षिषु ।दिव्यं आलम्बते वादी न पृच्छेत्तत्र साक्षिणः ॥२३२॥ऋणे लेख्यं साक्षिणो वा युक्तिलेशादयोऽपि वा ।दैविकी वा क्रिया प्रोक्ता प्रजानां हितकाम्यया ॥२३३॥चोदना प्रतिकालं च युक्तिलेशस्तथैव च ।तृतीयः शपथः प्रोक्तः तैरृणं साधयेत्क्रमात् ॥२३४॥अभीक्ष्णं चोद्यमानोऽपि प्रतिहन्यान्न तद्वचः ।त्रिः चतुः पञ्चकृत्वो वा परतोऽर्थं समाचरेत् ॥२३५॥चोदनाप्रतिघाते तु युक्तिलेशैः समन्वियात् ।देशकालार्थसंबन्ध परिमाणक्रियादिभिः ॥२३६॥युक्तिष्वप्यसमर्थासु शपथैरेव निणयेत् ।अर्थकालबलापेक्षैरग्न्यम्बुसुकृतादिभिः ॥२३७॥यत्र स्यात्सोपधं लेख्यं तद्राज्ञः श्रावितं यदि ।दिव्येन शोधयेत्तत्र राजा धर्मासनस्थितः ॥२३८॥वाक्पारुष्ये च भूमौ च दिव्यं न परिकल्पयेत् ॥२३९॥स्थावरेषु विवादेषु दिव्यानि परिधारयेत् ।साक्षिभिर्लिखितेनार्थे भुक्त्या चैव प्रसाधयेत् ॥२४०॥प्रमाणैर्हेतुना वापि दिव्येनैव तु निश्चयम् ।सर्वेष्वेव विवादेषु सदा कुर्यान्नराधिपः ॥२४१॥लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम् ।अनुमानं विदुर्हेतुं तर्कं चैव मनीषिणः ॥२४२॥पूर्वाभावे परेणैव नान्यथैव कदाचन ।प्रमाणैर्वादिनिर्दिष्टैर्भुक्त्या लिखितसाक्षिभिः ॥२४३॥न कश्चिदभियोक्तारं दिव्येषु विनियोजयेत् ।अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः ॥२४४॥मिथ्योक्तौ स चतुष्पात्स्यात्प्रत्यवस्कन्दने तथा ।प्राङ्न्याये स च विज्ञेयो द्विपात्संप्रतिपत्तिषु ॥२४५॥पराजयश्च द्विविधः परोक्तः स्वोक्त एव च ।परोक्तः स्याद्दशविधः स्वोक्त एकविधः स्मृतः ॥२४६॥विवादान्तरसंक्रान्तिः पूर्वोत्तरविरुद्धता ।दूषणं स्वक्रियोत्पत्तेः परवाक्योपपादनम् ॥२४७॥अनिर्देशश्च देशस्य निर्देशोऽदेशकालयोः ।साक्षिणां उपजापश्च विद्वेषो वचनस्य च ॥२४८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP