संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः| लेख्यपरीक्षा कात्यायनस्मृतिः राजगुणाः राजधर्माः व्यवहारलक्षणादि धर्माधिकरणम् कार्यदर्शनकालः प्राड्विवाकः सभ्याः कार्यनिर्णेतॄणां गुरुलाघवम् प्रश्नप्रकारः प्रतिनिधिः आह्वानं आसेधः अनासेध्याः प्रतिभूत्वेनाग्राह्याः अभियोक्त्रादीनां उक्तिक्रमः प्रतिज्ञास्वरूपम् प्रतिज्ञादोषाः पूर्वपक्षदोषाः चतुर्विधं उत्तरम् उत्तराभासा उत्तरदोषा वा वादहानिकराणि क्रियापादः लेख्यम् लेख्यपरीक्षा भुक्तिः युक्तिः साक्षिणः साक्षिदोषोद्भावनम् साक्षिणां दोषा दण्डाश्च दिव्यदेशाः विधिः निर्णयकृत्यम् दण्डविधिः पुनर्न्यायः ऋणादाने वृद्धिविचारः आकृतवृद्धिः वृद्धेः परिमाणं ऋणोद्धरणं प्रतिभूविधानम् उपनिधिः अस्वामिविक्रयः सम्भूयसमुत्थानम् वेतनस्यानपाकर्म स्वामिपालविवादः नैगमादिसंज्ञालक्षणम् अभ्युपेत्याशुश्रूषा सीमाविवादः वाक्पारुष्यम् दण्डपारुष्यम् साहसम् स्तेयम् स्त्रीसंग्रहणम् स्त्रीपुंधर्मः दायविभागः अविभाज्यानि विभक्तचिह्नादि स्त्रीधने स्वाम्यादिविचारः मृतायाः स्त्रिया धनाधिकारिणः द्यूतसमाह्वयौ प्रकीर्णकम् कात्यायनस्मृतिः - लेख्यपरीक्षा स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmakatyayansmritiकात्यायनकात्यायन स्मृतिःधर्मसंस्कृतस्मृतिः लेख्यपरीक्षा Translation - भाषांतर राजाज्ञया समाहूय यथान्यायं विचारयेत् ।लेख्याचारेण लिखितं साक्ष्याचारेण साक्षिणः ॥२६६॥वर्णवाक्यक्रियायुक्तं असंदिग्धं स्फुटाक्षरम् ।अहीनक्रमचिह्नं च लेख्यं तत्सिद्धिं आप्नुयात् ॥२६७॥देशाचारयुतं वर्षं आसपक्षादिवृद्धिमत् ।ऋणिसाक्षिलेखकानां हस्ताङ्गं लेख्यं उच्यते ॥२६८॥स्थानभ्रष्टास्त्वपङ्क्तिस्थाः संदिग्धा लक्षणच्युताः ।यदा तु संस्थिता वर्णाः कूटलेख्यं तदा भवेत् ॥२६९॥देशाचारविरुद्धं यत्संदिग्धं क्रमवर्जितम् ।कृतं अस्वामिना यच्च साध्यहीनं च दुष्यति ॥२७०॥मत्तेनोपाधिभीतेन तथोन्मत्तेन पीडितैः ।स्त्रीभिर्बालास्वतन्त्रैश्च कृतं लेख्यं न सिध्यति ॥२७१॥ख्यापितं चेद्द्वितीयेऽह्नि न कश्चिद्विनिवर्तयेत् ।तथा तत्स्यात्प्रमाणं तु मत्तोन्मत्तकृतादृते ॥२७२॥साक्षिदोषाद्भवेद्दुष्टं पत्रं वै लेखकस्य वा ।धनिकस्योपधादोषात्तथा धारणिकस्य वा ॥२७३॥दुष्टैर्दुष्टं भवेल्लेख्यं शुद्धं शुद्धैर्विनिर्दिशेत् ।तत्पत्रं उपधादुष्टैः साक्षिलेखककारकैः ॥२७४॥प्रमाणस्य हि ये दोषा वक्तव्यास्ते विवादिना ।गूढास्तु प्रकटाः सभ्यैः काले शास्त्रप्रदर्शनात् ॥२७५॥साक्षिलेखककर्तारः कूटतां यान्ति ते यथा ।तथा दोषाः प्रयोक्तव्या दुष्टैर्लेख्यं प्रदुष्यात ॥२७६॥न लेखकेन लिखितं न दृष्टं साक्षिभिस्तथा ।एवं प्रत्यर्थिनोक्ते तु कूटलेख्यं प्रकीर्तितम् ॥२७७॥नातथ्येन प्रमाणं तु दोषेणैव तु दूषयेत् ।मिथ्याभियोगे दण्ड्यः स्यात्साध्यार्थाच्चापि हीयते ॥२७८॥एवं दुष्टं नृपस्थाने यस्मिंस्तद्धि विचार्यते ।विमृश्य ब्राह्मणैः सार्धं पत्रदोषान्निरूपयेत् ॥२७९॥येन ते कूटतां यान्ति साक्षिलेखककारकाः ।तेन दुष्टं भवेल्लेख्यं शुद्धैः शुद्धिं विनिर्दिशेत् ॥२८०॥धनिकेन स्वहस्तेन लिखितं साक्षिवर्जितम् ।भवेत्कूटं न चेत्कर्ता कृतं हीति विभावयेत् ॥२८१॥दत्तं लेख्ये स्वहस्तं तु ऋणिको यदि निह्नते ।पत्रस्थैः साक्षिभिर्वाच्यो लेखकस्य मतेन वा ॥२८२॥कृताकृतविवादेषु साक्षिभिः पत्रनिर्णयः ।दूषिते पत्रके वादी तदारूढांस्तु निर्दिशेत् ॥२८३॥त्रिविधस्यापि लेख्यस्य भ्रान्तिः सञ्जायते नृणाम् ।ऋणिसाक्षिलेखकानां हस्तोक्त्या साधयेत्ततः ॥२८४॥अथ पञ्चत्वं आपन्नो लेखकः सह साक्षिभिः ।तत्स्वहस्तादिभिस्तेषां विशुध्येत्तु न संशयः ॥२८५॥ऋणिस्वहस्तसंदेहे जीवतो वा मृतस्य वा ।तत्स्वहस्तकृतैरन्यैः पत्रैस्तल्लेख्यनिर्णयः ॥२८६॥समुद्रेऽपि लेख्ये मृताः सर्वेऽपि ते स्थिताः (?) ।लिखितं तत्प्रमाणं तु मृतेष्वपि हि तेषु च ॥२८७॥प्रत्यक्षं अनुमानेन न कदाचित्प्रबाध्यते ।तस्माल्लेख्यस्य दुष्टस्य वचोभिः साक्षिणां भवेत् ॥२८८॥निर्णयः स्वधनार्थं हि पत्रं दूषयति स्वयम् ।लिखितं लिखितेनैव साक्षिमत्साक्षिभिर्हरेत् ॥२८९॥कूटोक्तौ साक्षिणां वाक्याल्लेखकस्य च पत्रकम् ।नयेच्छुद्धिं न यः कूटं स दाप्यो दमं उत्तमम् ॥२९०॥आढ्यस्य निकटस्थस्य यच्छक्तेन न याचितम् ।शुद्धर्णशङ्कया तत्तु लेख्यं दुर्बलतां इयात् ॥२९१॥लेख्यं त्रिंशत्समातीतं अदृष्टाश्रावितं च यत् ।न तत्सिद्धिं अवाप्नोति तिष्ठत्स्वपि हि साक्षिषु ॥२९२॥प्रयुक्ते शान्तलाभे तु लिखितं यो न दर्शयेत् ।नैव याचेत ऋणिकं न तत्सिद्धिं अवाप्नुयात् ॥२९३॥पश्चात्कारनिबद्धं यत्तद्यत्नेन विचारयेत् ।यदि स्याद्युक्तियुक्तं तु प्रमाणं लिखितं तदा ॥२९४॥अन्यथा दूरतः कार्यं पुनरेव विनिर्णयेत् ।अतथ्यं तथ्यभावेन स्थापितं ज्ञानविभ्रमात् ।निवर्त्यं तत्प्रमाणं स्याद्यत्नेनापि कृतं नृपैः ॥२९५॥मुद्राशुद्धं क्रियाशुद्धं भुक्तिशुद्धं सचिह्नकम् ।राज्ञः स्वहस्तसंशुद्धं शुद्धिं आयाति शासनम् ॥२९६॥निर्दोषं प्रथितं यत्तु लेख्यं तत्सिद्धिं आप्नुयात् ॥२९७॥दृष्टे पत्रे स्फुटान्दोषान्नोक्तवानृणिको यदि ।ततो विंशतिवर्षाणि स्थितं पत्रं स्थिरं भवेत् ॥२९८॥शक्तस्य संनिधावर्थे येन लेख्येन भुज्यते ।वर्षाणि विंशतिं यावत्तत्पत्रं दोषवर्जितम् ॥२९९॥अथ विंशतिवर्षाणि आधिर्भुक्तः सुनिश्चितम् ।तेन लेख्येन तत्सिद्धिर्लेख्यदोषविवर्जिता ॥३००॥सीमाविवादे निर्णीते सीमापत्रं विधीयते ।तस्य दोषाः प्रवक्तव्या यावद्वर्षाणि विंशतिः ॥३०१॥आधानसहितं यत्र ऋणं लेख्ये निवेशितम् ।मृतसाक्षि प्रमाणं तु स्वल्पभोगेषु तद्विदुः ॥३०२॥प्राप्तं वानेन चेत्किञ्चिद्दानं चाप्यनिरूपितम् ।विनापि मुद्रया लेख्यं प्रमाणं मृतसाक्षिकम् ॥३०३॥यदि लब्धं भवेत्किञ्चित्प्रज्ञप्तिर्वा कृता भवेत् ।प्रमाणं एव लिखितं मृता यद्यपि साक्षिणः ॥३०४॥दर्शितं प्रतिकालं यद्ग्राहितं स्मारितं तथा ।लेख्यं सिध्यति सर्वत्र मृतेष्वपि च साक्षिषु ॥३०५॥न दिव्यैः साक्षिभिर्वापि हीयते लिखितं क्वचित् ।लेख्यधर्मः सदा श्रेष्ठो ह्यतो नान्येन हीयते ॥३०६॥तद्युक्तप्रतिलेख्येन तद्विशिष्टेन वा सदा ।लेख्यक्रिया निरस्येत निरस्यान्येन न क्वचित् ॥३०७॥दर्पणस्थं यथा बिम्बं असत्सदिव दृश्यते ।तथा लेख्यस्य बिम्बानि कुर्वन्ति कुशला जनाः ॥३०८॥द्रव्यं गृहीत्वा यल्लेख्यं परस्मै संप्रदीयते ।छन्नं अन्येन चारूढं संयतं चान्यवेश्मनि ॥३०९॥दत्ते वृत्तेऽथ वा द्रव्ये क्वचिल्लिखितपूर्वके ।एष एव विधिर्ज्ञेयो लेख्यशुद्धिविनिर्णये ॥३१०॥स्थावरे विक्रयाधाने लेख्यं कूटं करोति यः ।स सम्यग्भावितः कार्यो जिह्वापाण्यङ्घ्रिवर्जितः ॥३११॥मलैर्यद्भेदितं दग्धं छिद्रितं वीतं एव वा ।तदन्यत्कारयेल्लेख्यं स्वेदेनोल्लिखितं तथा ॥३१२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP