संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः|
विधिः

कात्यायनस्मृतिः - विधिः

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अग्निदिव्यविधिः

प्रस्खलत्यभियुक्तश्चेत्स्थानादन्यत्र दह्यते ।
न दग्धं तु विदुर्देवास्तस्य भूयोऽपि दापयेत् ॥४४१॥
उदकदिव्यविधिः

शरांस्त्वनायसैरग्रैः प्रकुर्वीत विशुद्धये ।
वेणकाण्डमयांश्चैव क्षेप्ता च सुदृढं क्षिपेत् ॥४४२॥

क्षिप्ते तु मज्जनं कार्यं गमनं समकालिकम् ।
गमने त्वागमः कार्यः पुमानन्यो जले विशेत् ॥४४३॥

शिरोमानं तु दृश्येत न कर्णौ नापि नासिका ।
अप्सु प्रवेशने यस्य शुद्धं तं अपि निर्दिशेत् ॥४४४॥

निमज्ज्योत्प्लवते यस्तु दृष्टश्चेत्प्राणिभिर्नरः ।
पुनस्तत्र निमज्जेत्स देशचिह्नविभाविते ॥४४५॥
विषदिव्यविधिः

अजाशृङ्गनिभं श्यामं सुपीनं शृङ्गसंभवम् ।
भङ्गे च शृङ्गवेराभं ख्यातं तच्शृङ्गिणां विषम् ॥४४६॥

रक्तं तदसितं कुर्यात्कटिनं चैव तल्लक्षणात् ।
अनेन विधिना ज्ञेयं दिव्यं दिव्यविशारदैः ॥४४७॥

वत्सनाभनिभं पीतं वर्णज्ञानेन निश्चयः ।
शुक्तिशङ्खाकृतिर्भङ्गे विद्यात्तद्वत्सनाभकम् ॥४४८॥

मधुक्षीरसमायुक्तं स्वच्छं कुर्वीत तत्क्षणात् ।
बाह्यं एवं समाख्यातं लक्षणं धर्मसाधकैः ॥४४९॥

पूर्वाह्णे शीतले देशे विषं दद्यात्तु देहिनाम् ।
घृतेन योजितं श्लक्ष्णं पिष्टं त्रिंशद्गुणेन तु ॥४५०॥

विषस्य पलषड्भागाद्भागो विंशतिं अस्तु यः ।
तं अष्टभागहीनं शोध्ये देयं घृताप्लुतम् ॥४५१॥
कोशदिव्यविधिः

स्वल्पेऽपराधे देवानां स्नापयित्वायुधोदकम् ।
पाय्यो विकारे चाशुद्धो नियम्यः शुचिरन्यथा ॥४५२॥
तण्डुलविधिः

देवतास्नानपानीय दिव्ये तण्डुलभक्षणे ।
शुद्धनिष्ठीवनाच्शुद्धो नियम्योऽशुचिरन्यथा ॥४५३॥

अवष्टम्भाभियुक्तस्य विशुद्धस्यापि कोशतः ।
सदण्डं अभियोगं च दापयेदभियोजकम् ।
दिव्येन शुद्धं पुरुषं सत्कुर्याद्धार्मिको नृपः ॥४५४॥

शोणितं दृश्यते यत्र हनुवालं च सीदति ।
गात्रं च कम्पते यस्य तं अशुद्धं विनिर्दिशेत् ॥४५५॥

अथ दैवविसंवादात्त्रिसप्ताहात्तु दापयेत् ।
अभियुक्तं तु यत्नेन तं अर्थं दण्डं एव च ॥४५६॥

तस्यैकस्य न सर्वस्य जनस्य यदि तद्भवेत् ।
रोगोऽग्निर्ज्ञातिमरणं ऋणं दाप्यो दमं च सः ॥४५७॥

क्षयातिसारविस्फोटास्ताल्वस्थिपरिपीडनम् ।
नेत्ररुग्गलरोगश्च तथोन्मादः प्रजायते ।
शिरोरुग्भुजभङ्गश्च दैविका व्याधयो नृणाम् ॥४५८॥

शतार्धं दापयेच्शुद्धं अशुद्धो दण्डभाग्भवेत् ॥४५९॥

विषे तोये हुताशे च तुलाकोशे च तण्डुले ।
तप्तमाषकदिव्ये च क्रमाद्दण्डं प्रकल्पयेत् ॥४६०॥

सहस्रं षट्शतं चैव तथा पञ्च शतानि च ।
चतुस्त्रिद्व्येकं एवं च हीनं हीनेषु कल्पयेत् ॥४६१॥
शपथविधिः

यत्रोपदिश्यते कर्म कर्तुरङ्गं न तूच्यते ।
दक्षिणस्तत्र विज्ञेयः कर्मणां पारगः करः ॥४६२॥

आचतुर्दशकादह्नो यस्य नो राजदैविकम् ।
व्यसनं जायते घोरं स ज्ञेयः शपथे शुचिः ॥४६३॥
उन्मत्तास्वतन्त्रादिकृतानां विचारः

उन्मत्तेनैव मत्तेन तथा भावान्तरेण वा ।
यद्दत्तं यत्कृतं वाथ प्रमाणं नैव तद्भवेत् ॥४६४॥

अस्वतन्त्रकृतं कार्यं तस्य स्वामी निवर्तयेत् ।
न भर्त्रा विवदेतान्यो भीतोन्मत्तकृतादृते ॥४६५॥

पितास्वतन्त्रः पितृमान्भ्राता भातृव्य एव वा ।
कनिष्ठो वाविभक्तस्वो दासः कर्मकरस्तथा ॥४६६॥

न क्षेत्रगृहदासानां दानाधमनविक्रयाः ।
अस्वतन्त्रकृताः सिद्धिं प्राप्नुयुर्नानुवर्णिताः ॥४६७॥

प्रमाणं सर्व एवैते पण्यानां क्रयविक्रये ।
यदि संव्यवहारं ते कुर्वन्तोऽप्यनुमोदिताः ॥४६८॥

क्षेत्रादीणां तथैव स्युर्भ्राता भ्रातृसुतः सुतः ।
निसृष्टाः कृत्यकरणे गुरुणा यदि गच्छता ॥४६९॥

निसृष्टार्थस्तु यो यस्मिन्तस्मिन्नर्थे प्रभुस्तु सः ।
तद्भर्ता तत्कृतं कार्यं नान्यथा कर्तुं अर्हति ॥४७०॥

सुतस्य सुतदाराणां वशित्वं त्वनुशासने ।
विक्रये चैव दाने च वशित्वं न सुते पितुः ॥४७१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP