संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः| वादहानिकराणि कात्यायनस्मृतिः राजगुणाः राजधर्माः व्यवहारलक्षणादि धर्माधिकरणम् कार्यदर्शनकालः प्राड्विवाकः सभ्याः कार्यनिर्णेतॄणां गुरुलाघवम् प्रश्नप्रकारः प्रतिनिधिः आह्वानं आसेधः अनासेध्याः प्रतिभूत्वेनाग्राह्याः अभियोक्त्रादीनां उक्तिक्रमः प्रतिज्ञास्वरूपम् प्रतिज्ञादोषाः पूर्वपक्षदोषाः चतुर्विधं उत्तरम् उत्तराभासा उत्तरदोषा वा वादहानिकराणि क्रियापादः लेख्यम् लेख्यपरीक्षा भुक्तिः युक्तिः साक्षिणः साक्षिदोषोद्भावनम् साक्षिणां दोषा दण्डाश्च दिव्यदेशाः विधिः निर्णयकृत्यम् दण्डविधिः पुनर्न्यायः ऋणादाने वृद्धिविचारः आकृतवृद्धिः वृद्धेः परिमाणं ऋणोद्धरणं प्रतिभूविधानम् उपनिधिः अस्वामिविक्रयः सम्भूयसमुत्थानम् वेतनस्यानपाकर्म स्वामिपालविवादः नैगमादिसंज्ञालक्षणम् अभ्युपेत्याशुश्रूषा सीमाविवादः वाक्पारुष्यम् दण्डपारुष्यम् साहसम् स्तेयम् स्त्रीसंग्रहणम् स्त्रीपुंधर्मः दायविभागः अविभाज्यानि विभक्तचिह्नादि स्त्रीधने स्वाम्यादिविचारः मृतायाः स्त्रिया धनाधिकारिणः द्यूतसमाह्वयौ प्रकीर्णकम् कात्यायनस्मृतिः - वादहानिकराणि स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmakatyayansmritiकात्यायनकात्यायन स्मृतिःधर्मसंस्कृतस्मृतिः वादहानिकराणि Translation - भाषांतर प्रपद्य कारणं पूर्वं अन्यद्गुरुतरं यदि ।प्रतिवाक्यगतं ब्रूयात्साध्यते तद्धि नेतरत् ॥१९१॥यथार्थं उत्तरं दद्यादयच्छन्तं च दापयेत् ।सामभेदादिभिर्मार्गैर्यावत्सोऽर्थः समुत्थितः ॥१९२॥मोहाद्वा यदि वा शाठ्याद्यन्नोक्तं पूर्ववादिना ।उत्तरान्तर्गतं चापि तद्ग्राह्यं उभयोरपि ॥१९३॥उपायैश्चोद्यमानस्तु न दद्यादुत्तरं तु यः ।अतिक्रान्ते सप्तरात्रे जितोऽसौ दातुं अर्हति ॥१९४॥श्रावयित्वा यथाकार्यं त्यजेदन्यद्वदेदसौ ।अन्यपक्षाश्रयस्तेन कृतो वादी स हीयते ॥१९५॥न मयाभिहितं कार्यं अभियुज्य परं वदेत् ।विब्रुवंश्च भवेदेवं हीनं तं अपि निर्दिशेत् ॥१९६॥लेखयित्वा तु यो वाक्यंं हीनं वाप्यधिकं पुनः ।वदेद्वादी स हीयेत नाभियोगं तु सोऽर्हति ॥१९७॥सभ्याश्च साक्षिणश्चैव क्रिया ज्ञेया मनीषिभिः ।तां क्रियां द्वेष्टि यो मोहात्क्रियाद्वेषी स उच्यते ॥१९८॥आह्वानादनुपस्थानात्सद्य एव प्रहीयते ॥१९९॥ब्रूहीत्युक्तोऽपि न ब्रूयात्सद्यो बन्धनं अर्हति ।द्वितीयेऽहनि दुर्बुद्धेर्विद्यात्तस्य पराजयम् ॥२००॥व्याजेनैव तु यत्रासौ दीर्घकालं अभीप्सति ।सापदेशं तु तद्विद्याद्वादहानिकरं स्मृतम् ॥२०१॥अन्यवादी पणान्पञ्च क्रियाद्वेषी पणान्दश ।नोपस्थाता दश द्वौ च षोडशैव निरुत्तरः ।आहूतप्रपलायी च पणान्ग्राह्यस्तु विंशतिम् ॥२०२॥त्रिराहूतं अनायान्तं आहूतप्रपलायिनम् ।पञ्चरात्रं अतिक्रान्तं विनयेत्तं महीपतिः ॥२०३॥श्रावितव्यवहाराणां एकं यत्र प्रभेदयेत् ।वादिनं लोभयेच्चैव हीनं तं इति निर्दिशेत् ॥२०४॥भयं करोति भेदं वा भीषणं वा निरोधनम् ।एतानि वादिनोरर्थस्य व्यवहारे स हीयते ॥२०५॥दोषानुरूपं संग्राह्यः पुनर्वादो न विद्यते ।उभयोर्लिखिते वाच्ये प्रारब्धे कार्यनिश्चये ।अयुक्तं तत्र यो ब्रूयात्तस्मादर्थात्स हीयते ॥२०६॥साक्षिणो यस्तु निर्दिश्य कामतो न विवादयेत् ।स वादी हीयते तस्मात्त्रिंशद्रात्रात्परेण तु ॥२०७॥पलायनानुत्तरत्वादन्यपक्षाश्रयेण च ।हीनस्य गृह्यते वादो न स्ववाक्यजितस्य तु ॥२०८॥यो हीनवाक्येन जितस्तस्योद्धारं विदुर्बुधाः ।स्ववाक्यहीनो यस्तु स्यात्तस्योद्धारो न विद्यते ॥२०९॥आवेद्य प्रगृहीतार्थाः प्रशमं यान्ति ये मिथः ।सर्वे द्विगुणदण्ड्याः स्युः विप्रलम्भान्नृपस्य ते ॥२१०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP