कात्यायनस्मृतिः - उत्तराभासा उत्तरदोषा वा
स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.
अप्रसिद्धं विरुद्धं यदत्यल्पं अतिभूरि च ।
संदिग्धासंभवाव्यक्तं अन्यार्थं चातिदोषवत् ॥१७३॥
अव्यापकं व्यस्तपदं निगूढार्थं तथाकुलम् ।
व्याख्यागम्यं असारं च नोत्तरं शस्यते बुधैः ॥१७४॥
यद्व्यस्तपदं अव्यापि निगूढार्थं तथाकुलम् ।
व्याख्यागम्यं असारं च नोत्तरं स्वार्थसिद्धये ॥१७५॥
चिह्नाकारसहस्रं तु समयं चाविजानता ।
भाषान्तरेण वा प्रोक्तं अप्रसिद्धं तदुत्तरम् ॥१७६॥
प्रतिदत्तं मया बाल्ये प्रतिदत्तं मया न हि ।
यदेवं आह विज्ञेयं विरुद्धं तदिहोत्तरम् ॥१७७॥
जितः पुरा मयायं च त्वर्थेऽस्मिन्निति भाषितुम् ।
पुरा मयायं इति यत्तदूनं चोत्तरं स्मृतम् ॥१७८॥
गृहीतं इति वाच्ये तु कार्यं तेन कृतं मया ।
पुरा गृहीतं यद्द्रव्यं इति यच्चातिभूरि तत् ॥१७९॥
देयं मयेति वक्तव्ये मयादेयं इतीदृशम् ।
संदिग्धं उत्तरं ज्ञेयं व्यवहारे बुधैस्तदा ॥१८०॥
बलाबलेन चैतेन साहसं स्थापितं पुरा ।
अनुक्तं एतन्मन्यन्ते तदन्यार्थं इतीरितम् ॥१८१॥
अस्मै दत्तं मया सार्धं सहस्रं इति भाषिते ।
प्रतिदत्तं तदर्धं यत्तदिहाव्यापकं स्मृतम् ॥१८२॥
पूर्ववादी क्रियां यावत्सम्यङ्नैव निवेशयेत् ।
मया गृहीतं पूर्वं नो तद्व्यस्तपदं उच्यते ॥१८३॥
तत्किं तामरसं कश्चिदगृहीतं प्रदास्यति ।
निगूढार्थं तु तत्प्रोक्तं उत्तरं व्यवहारतः ॥१८४॥
किं तेनैव सदा देयं मया देयं भवेदिति ।
एतदकुलं इत्युक्तं उत्तरं तद्विदो विदुः ॥१८५॥
काकस्य दन्ता नो सन्ति सन्तीत्यादि यदुत्तरम् ।
असारं इति तत्त्वेन सम्यङ्नोत्तरं इष्यते ॥१८६॥
प्रस्तुतादल्पं अव्यक्तं न्यूनाधिकं असङ्गतम् ।
अव्याप्यसारं संदिग्धं प्रतिपक्षं न लङ्घयेत् ॥१८७॥
संदिग्धं अन्यत्प्रकृतादत्यल्पं अतिभूरि च ।
पक्षैकदेशव्याप्येव तत्तु नैवोत्तरं भवेत् ॥१८८॥
पक्षैकदेशे यत्सत्यं एकदेशे च कारणम् ।
मिथ्या चैवैकदेशे च सङ्करात्तदनुत्तरम् ॥१८९॥
न चैकस्मिन्विवादे तु क्रिया स्याद्वादिनोर्द्वयोः ।
न चार्थसिद्धिरुभयोर्न चैकत्र क्रियाद्वयम् ॥१९०॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP