संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः|
अनासेध्याः

कात्यायनस्मृतिः - अनासेध्याः

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


यस्त्विन्द्रियनिरोधेन व्याहारोच्छ्वसनादिभिः ।
आसेधयेदनासेध्यं स दण्ड्यो न त्वतिक्रमी ॥१०६॥

वृक्षपर्वतं आरूढा हस्त्यश्वरथनौस्थिताः ।
विषमस्थाश्च ते सर्वे नासेध्याः कार्यसाधकैः ॥१०७॥

व्याध्यार्ता व्यसनस्थाश्च यजमानास्तथैव च ।
अनुत्तीर्णाश्च नासेध्या मत्तोन्मत्तजडास्तथा ॥१०८॥

न कर्षको बीजकाले सेनाकाले तु सैनिकः ।
प्रतिज्ञाय प्रयातश्च कृतकालश्च नान्तरा ॥१०९॥

उद्युक्तः कर्षकः सस्ये तोयस्यागमने तथा ।
आरम्भात्संग्रहं यावत्तत्कालं न विवादयेत् ।
आसेधयंस्त्वनासेध्यं रज्ञा शास्य इति स्थितिः ॥११०॥

अभियुक्तश्च रुद्धश्च तिष्ठेयुश्च नृपाज्ञया ।
न तस्यान्येन कर्तव्यं अभियुक्तं विदुर्बुधाः ॥१११॥

एकाहद्व्याहाद्यपेक्षं देशकालाद्यपेक्षया ।
दूताय साधिते कार्ये तेन भक्तं प्रदापयेत् ॥११२॥

देशकालवयःशक्त्याद्य् अपेक्षं भोजनं स्मृतम् ।
आकारकस्य सर्वत्र इति तत्त्वविदो विदुः ॥११३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP