संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः|
वेतनस्यानपाकर्म

कात्यायनस्मृतिः - वेतनस्यानपाकर्म

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


कर्मारम्भं तु यः कृत्वा सिद्धं नैव तु कारयेत् ।
बलात्कारयितव्योऽसौ अकुर्वन्दण्डं अर्हति ॥६५७॥

विघ्नयन्वाहको दाप्यः प्रस्थाने द्विगुणां भृतिम् ॥६५८॥

न तु दाप्यो हृतं चोरैर्दग्धमूढं जलेन वा ॥६५९॥
त्यजेत्पथि सहायं यः श्रान्तं रोगार्तं एव वा ।
प्राप्नुयात्साहसं पूर्वं ग्रामे त्र्यहं अपालयन् ॥६६०॥

यदा तु पथि तद्भाण्डं आसिध्येत ह्रियेत वा ।
यावानध्वा गतस्तेन प्राप्नुयात्तावतीं भृतिम् ॥६६१॥

हस्त्यश्वगोखरोष्ट्रादीन्गृहीत्वा भाटकेन यः ।
नार्पयेत्कृतकृत्यार्थः स तु दाप्यः सभाटकम् ॥६६२॥

गृहवार्यापणादीणि गृहीत्वा भाटकेन यः ।
स्वामिने नार्पयेद्यावत्तावद्दाप्यः सभाटकम् ॥६६३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP