संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः| प्रतिज्ञादोषाः पूर्वपक्षदोषाः कात्यायनस्मृतिः राजगुणाः राजधर्माः व्यवहारलक्षणादि धर्माधिकरणम् कार्यदर्शनकालः प्राड्विवाकः सभ्याः कार्यनिर्णेतॄणां गुरुलाघवम् प्रश्नप्रकारः प्रतिनिधिः आह्वानं आसेधः अनासेध्याः प्रतिभूत्वेनाग्राह्याः अभियोक्त्रादीनां उक्तिक्रमः प्रतिज्ञास्वरूपम् प्रतिज्ञादोषाः पूर्वपक्षदोषाः चतुर्विधं उत्तरम् उत्तराभासा उत्तरदोषा वा वादहानिकराणि क्रियापादः लेख्यम् लेख्यपरीक्षा भुक्तिः युक्तिः साक्षिणः साक्षिदोषोद्भावनम् साक्षिणां दोषा दण्डाश्च दिव्यदेशाः विधिः निर्णयकृत्यम् दण्डविधिः पुनर्न्यायः ऋणादाने वृद्धिविचारः आकृतवृद्धिः वृद्धेः परिमाणं ऋणोद्धरणं प्रतिभूविधानम् उपनिधिः अस्वामिविक्रयः सम्भूयसमुत्थानम् वेतनस्यानपाकर्म स्वामिपालविवादः नैगमादिसंज्ञालक्षणम् अभ्युपेत्याशुश्रूषा सीमाविवादः वाक्पारुष्यम् दण्डपारुष्यम् साहसम् स्तेयम् स्त्रीसंग्रहणम् स्त्रीपुंधर्मः दायविभागः अविभाज्यानि विभक्तचिह्नादि स्त्रीधने स्वाम्यादिविचारः मृतायाः स्त्रिया धनाधिकारिणः द्यूतसमाह्वयौ प्रकीर्णकम् कात्यायनस्मृतिः - प्रतिज्ञादोषाः पूर्वपक्षदोषाः स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmakatyayansmritiकात्यायनकात्यायन स्मृतिःधर्मसंस्कृतस्मृतिः प्रतिज्ञादोषाः पूर्वपक्षदोषाः Translation - भाषांतर यश्च राष्ट्रविरुद्धश्च यश्च राज्ञा विवर्जितः ।अनेकपदसंकीर्णः पूर्वपक्षो न सिद्ध्यति ॥१३६॥बहुप्रतिज्ञं यत्कार्यं व्यवहारेषु निश्चितम् ।कामं तदपि गृह्णीयाद्राजा तत्त्वबुभुत्सया ॥१३७॥देशकालविहीनश्च द्रव्यसंख्याविवर्जितः ।साध्यप्रमाणहीनश्च पक्षोऽनादेय इष्यते ॥१३८॥न्यायस्थं नेच्छते कर्तुं अन्यायं वा करोत्ययम् ।न लेखयति यत्त्वेवं तस्य पक्षो न सिध्यति ॥१३९॥अप्रसिद्धं निराबाधं निरर्थं निष्प्रयोजनम् ।असाध्यं वा विरुद्धं वा पक्षाभासं विवर्जयेत् ॥१४०॥प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितम् ।निश्चितं लोकसिद्धं च पक्षं पक्षविदो विदुः ॥१४१॥स्वल्पाक्षरः प्रभूतार्थो निःसंदिग्धो निराकुलः ।विरोधिकारणैर्मुक्तो विरोधिप्रतिषेधकः ॥१४२॥यदा त्वेवं विधः पक्षः कल्पितः पूर्ववादिना ।दद्यात्तत्पक्षसंबद्धं प्रतिवादी तदोत्तरम् ॥१४३॥श्राव्यमाणोऽर्थिना यत्र यो ह्यर्थो न विघातितः ।दानकालेऽथवा तूष्णीं स्थितः सोऽर्थोऽनुमोदितः ॥१४४॥उत्तरं सद्यो दातव्यं कालान्तरेण वा दातव्यम्श्रुत्वा लेख्यगतं त्वर्थं प्रत्यर्थी कारणाद्यदि ।कालं विवादे याचेत तस्य देयो न संशयः ॥१४५॥सद्यो वैकाहपञ्चाह त्र्यहं वा गुरुलाघवात् ।लभेतासौ त्रिपक्षं वा सप्ताहं वा ऋणादिषु ॥१४६॥कालं शक्तिं विदित्वा तु कार्याणां च बलाबलम् ।अल्पं वा बहु वा कालं दद्यात्प्रत्यर्थिने प्रभुः ॥१४७॥दिनं मासार्धमासौ वा ऋतुः संवत्सरोऽपि वा ।क्रियास्थित्यनुरूपस्तु देयं कालः परेण तु ॥१४८॥व्यपैति गौरवं यत्र विनाशस्त्याग एव वा ।कालं तत्र न कुर्वीत कार्यं आत्ययिकं हि तत् ॥१४९॥धेनावनडुहि क्षेत्रे स्त्रीषु प्रजनने तथा ।न्यासे याचितके दत्ते तथैव क्रयविक्रये ॥१५०॥कन्याया दूषणे स्तेये कलहे साहसे निधौ ।उपधौ कौटसाक्ष्ये च सद्य एव विवादयेत् ॥१५१॥साहसस्तेयपारुष्य गोऽभिशापे तथात्यये ।भूमौ विवादयेत्क्षिप्रं अकालेऽपि बृहस्पतिः ॥१५२॥सद्यः कृतेषु कार्येषु सद्य एव विवादयेत् ।कालातीतेषु वा कालं दद्यात्प्रत्यर्थिने प्रभुः ॥१५३॥सद्यः कृते सद्य एव मासातीते दिनं भवेत् ।षडाब्दिके त्रिरात्रं स्यात्सप्ताहं द्वादशाब्दिके ॥१५४॥विंशत्यब्दे दशाहं तु मासार्धं वा लभेत सः ।मासं त्रिंशत्समातीते त्रिपक्षं परतो भवेत् ॥१५५॥कालं संवत्सरादर्वाक्स्वयं एव यथेप्सितम् ।संवत्सरं जडोन्मत्त मनस्के व्याधिपीडिते ॥१५६॥दिगन्तरप्रपन्ने वा अज्ञातार्थे च वस्तुनि ।मूलं वा साक्षिणो वाथ परदेशे स्थिता यदा ॥१५७॥तत्र कालो भवेत्पुंसां आ स्वदेशसमागमात् ।दत्तेऽपि काले देयं स्यात्पुनः कार्यस्य गौरवात् ॥१५८॥पूर्वपक्षश्रुतार्थस्तु प्रत्यर्थी तदनन्तरम् ।पूर्वपक्षार्थसंबन्धं प्रतिपक्षं निवेदयेत् ॥१५९॥आचारद्रव्यदानेष्ट कृत्योपस्थाननिर्णये ।नोपस्थितो यदा कश्चिच्छलं तत्र न कारयेत् ॥१६०॥दैवराजकृतो दोषस्तस्मिन्काले यदा भवेत् ।अबाधत्यागमात्रेण न भवेत्स पराजितः ॥१६१॥दैवराजकृतं दोषं साक्षिभिः प्रतिपादयेत् ।जैह्म्येन वर्तमानस्य दण्डो दाप्यस्तु तद्धनम् ॥१६२॥अभियुक्तोऽभियोक्तारं अभियुञ्जीत कर्हिचित् ।अन्यत्र दण्डपारुष्य स्तेयसंग्रहणात्ययात् ॥१६३॥यावन्यस्मिन्समाचारः पारंपर्यक्रमागतः ।तं प्रतीक्ष्य यथान्यायं उत्तरं दापयेन्नृपः ॥१६४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP