संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः| सम्भूयसमुत्थानम् कात्यायनस्मृतिः राजगुणाः राजधर्माः व्यवहारलक्षणादि धर्माधिकरणम् कार्यदर्शनकालः प्राड्विवाकः सभ्याः कार्यनिर्णेतॄणां गुरुलाघवम् प्रश्नप्रकारः प्रतिनिधिः आह्वानं आसेधः अनासेध्याः प्रतिभूत्वेनाग्राह्याः अभियोक्त्रादीनां उक्तिक्रमः प्रतिज्ञास्वरूपम् प्रतिज्ञादोषाः पूर्वपक्षदोषाः चतुर्विधं उत्तरम् उत्तराभासा उत्तरदोषा वा वादहानिकराणि क्रियापादः लेख्यम् लेख्यपरीक्षा भुक्तिः युक्तिः साक्षिणः साक्षिदोषोद्भावनम् साक्षिणां दोषा दण्डाश्च दिव्यदेशाः विधिः निर्णयकृत्यम् दण्डविधिः पुनर्न्यायः ऋणादाने वृद्धिविचारः आकृतवृद्धिः वृद्धेः परिमाणं ऋणोद्धरणं प्रतिभूविधानम् उपनिधिः अस्वामिविक्रयः सम्भूयसमुत्थानम् वेतनस्यानपाकर्म स्वामिपालविवादः नैगमादिसंज्ञालक्षणम् अभ्युपेत्याशुश्रूषा सीमाविवादः वाक्पारुष्यम् दण्डपारुष्यम् साहसम् स्तेयम् स्त्रीसंग्रहणम् स्त्रीपुंधर्मः दायविभागः अविभाज्यानि विभक्तचिह्नादि स्त्रीधने स्वाम्यादिविचारः मृतायाः स्त्रिया धनाधिकारिणः द्यूतसमाह्वयौ प्रकीर्णकम् कात्यायनस्मृतिः - सम्भूयसमुत्थानम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmakatyayansmritiकात्यायनकात्यायन स्मृतिःधर्मसंस्कृतस्मृतिः सम्भूयसमुत्थानम् Translation - भाषांतर समवेतास्तु ये केचिच्शल्पिनो वणिजोऽपि वा ।अविभज्य पृथग्भूतैः प्राप्तं तत्र फलं समम् ॥६२४॥भाण्डपिण्डव्ययोद्धार भारसारार्थवीक्षणम् ।कुर्युस्तेऽव्यभिचारेण समयेन व्यवस्थिताः ॥६२५॥प्रयोगं कुर्वते ये तु हेमधान्यरसादिना ।समन्यूनाधिकैरंशैर्लाभस्तेषां तथाविधः ॥६२६॥बहूनां संमतो यस्तु दद्यादेको धनं नरः ।ऋणं च कारयेद्वापि सर्वैरेव कृतं भवेत् ॥६२७॥ज्ञातिसंबन्धिसुहृदां ऋणं देयं सबन्धकम् ।अन्येषां लग्नकोपेतं लेख्यसाक्षियुतं तथा ॥६२८॥स्वेच्छादेयं हिरण्यं तु रसा धान्यं च साविधि ।देशस्थित्या प्रदातव्यं ग्रहीतव्यं तथैव च ॥६२९॥समवेतैस्तु यद्दत्तं प्रार्थनीयं तथैव तत् ।न च याचेत यः कश्चिल्लाभात्स परिहीयते ॥६३०॥चोरतः सलिलादग्नेर्द्रव्यं यस्तु समाहरेत् ।तस्यांशो दशमो देयः सर्ववादेष्वयं विधिः ॥६३१॥शिक्षकाभिज्ञकुशला आचार्यश्चेति शिल्पिनः ।एकद्वित्रिचतुर्भागान्हरेयुस्ते यथोत्तरम् ॥६३२॥परराष्ट्राद्धनं यत्स्याच्चौरैः स्वाम्याज्ञयाहृतम् ।राज्ञो दशांशं उद्धृत्य विभजेरन्यथाविधि ॥६३३॥चोराणां मुख्यभूतस्तु चतुरोऽंशांस्ततो हरेत् ।शूरोऽंशांस्त्रीन्समर्थो द्वौ शोषास्त्वेकैकं एव च ॥६३४॥तेषां चेत्प्रसृतानां यो ग्रहणं समवाप्नुयात् ।तन्मोक्षणार्थं यद्दत्तं वहेयुस्ते यथांशतः ॥६३५॥नर्तकानां एष एव धर्मः सद्भिरुदाहृतः ।तालज्ञो लभते ह्यर्धं गायनास्तु समांशिनः ।प्रमुखा द्व्यंशं अर्हन्ति सोऽयं संभूय कुर्वताम् ॥६३६॥वणिजां कर्षकाणां च चोराणां शिल्पिनां तथा ।अनियम्यांशकर्तॄणां सर्वेषां एष निर्णयः ॥६३७॥दत्तानपाकर्म दत्ताप्रदानिकं वाविक्रयं चैव दानं च न नेयाः स्युरनिच्छवः ।दाराः पुत्राश्च सर्वस्वं आत्मनैव तु योजयेत् ॥६३८॥आपत्काले तु कर्तव्यं दानं विक्रय एव वा ।अन्यथा न प्रवर्तेत इति शास्त्रविनिश्चयः ॥६३९॥सर्वस्वगृहवर्जं तु कुटुम्बभरणाधिकम् ।यद्द्रव्यं तत्स्वकं देयं अदेयं स्यादतोऽन्यथा ॥६४०॥अतश्च सुतदाराणां वशित्वं त्वनुशासने ।विक्रये चैव दाने च वशित्वं न सुते पितुः ॥६४१॥स्वेच्छया यः प्रतिश्रुत्य ब्राह्मणाय प्रतिग्रहम् ।न दद्यादृणव दाप्यः प्राप्नुयात्पूर्वसाहसम् ॥६४२॥प्रतिश्रुतस्यादानेन दत्तस्याच्छादनेन च ।कल्पकोटिशतं मर्त्यस्तिर्यग्योनौ च जायते ॥६४३॥अविज्ञातोपलब्ध्यर्थं दानं यत्र निरूपितम् ।उपलब्धिक्रियालब्धं सा भृतिः परिकीर्तिता ॥६४४॥भयत्राणाय रक्षार्थं तथा कार्यप्रसाधनात् ।अनेन विधिना लब्धं विद्यात्प्रत्युपकारतः ॥६४५॥प्राणसंशयं आपन्नं यो मां उत्तारयेदितः ।सर्वस्वं तस्य दास्यामीत्युक्तेऽपि न तथा भवेत् ॥६४६॥कामक्रोधास्वतन्त्रार्त क्लीबोन्मत्तप्रमोहितैः ।व्यत्यासपरिहासाच्च यद्दत्तं तत्पुनर्हरेत् ॥६४७॥या तु कार्यस्य सिद्ध्यर्थं उत्कोचा स्यात्प्रतिश्रुता ।तस्मिन्नपि पसिद्धेऽर्थे न देया स्यात्कथंचन ॥६४८॥अथ प्रागेव दत्ता स्यात्प्रतिदाप्यस्तथा बलात् ।दण्डं चैकादशगुणं आहुर्गार्गीयमानवाः ॥६४९॥स्तेनसाहसिकोद्वृत्त पारजायिकशंसनात् ।दर्शनाद्वृत्तनष्टस्य तथासत्यप्रवर्तनात् ॥६५०॥प्राप्तं एतैस्तु यत्किंचित्तदुत्कोचाख्यं उच्यते ।न दाता तत्र दण्ड्यः स्यान्मध्यस्थश्चैव दोषभाक् ॥६५१॥नियुक्तो यस्तु कार्येषु स चेदुत्कोचं आप्नुयात् ।स दाप्यस्तद्धनं कृत्स्नं दमश्चैकादशाधिकम् ॥६५२॥अनियुक्तस्तु कार्यार्थं उत्कोचं यं अवाप्नुयात् ।कृतप्रत्युपकारार्थस्तस्य दोषो न विद्यते ॥६५३॥स्वस्थेनार्तेन वा दत्तं श्राव्रितं धर्मकारणात् ।अदत्त्वा तु मृते दाप्यस्तत्सुतो नात्र संशयः ॥६५४॥योगाधमनविक्रीतं योगदानपतिग्रहम् ।यस्य वाप्युपधिं पश्येत्तत्सर्वं विनिवर्तयेत् ॥६५५॥भृतावनिश्चितायां तु दशभागं अवाप्नुयात् ।लाभगोवीर्यसस्यानां वणिग्गोपकृषीवलाः ॥६५६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP