संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः|
आह्वानं

कात्यायनस्मृतिः - आह्वानं

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


धर्मोत्सुकानभ्युदये रोगिणोऽथ जडानपि ।
अस्वस्थमत्तोन्मत्तार्त स्त्रियो नाह्वानयेन्नृपः ॥९६॥
न हीनपक्षां युवतिं कुले जातां प्रसूतिकाम् ।
सर्ववर्णोत्तमां कन्यां ता ज्ञातिप्रभुकाः स्मृताः ॥९७॥

तदधीनकुटुम्बिन्यः स्वैरिण्यो गणिकाश्च याः ।
निष्कुला याश्च पतितास्तासां आह्वानं इष्यते ॥९८॥

सशस्त्रोऽनुत्तरीयो वा मुक्तकेशः सहासनः ।
वामहस्तेन वा वादं वदन्दण्डं अवाप्नुयात् ॥९९॥     

आहूतस्त्ववमन्येत यः शक्तो राजशासनम् ।
तस्य कुर्यान्नृपो दण्डं विधिदृष्टेन कर्मणा ॥१००॥

हीने कर्माणि पञ्चाशन् मध्यमे द्विशतावरः ।
गुरुकार्येषु दण्डः स्यान्नित्यं पञ्चशतावरः ॥१०१॥

कल्पितो यस्य यो दण्डस्त्वपराधस्य यत्नतः ।
पणानां ग्रहणं तु स्यात्तन्मूल्यं वाथ राजनि ॥१०२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP