कात्यायनस्मृतिः - साक्षिणां दोषा दण्डाश्च
स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.
अपृष्टः सर्ववचने पृष्टस्याकथने तथा ।
साक्षिणः संनिरोद्धव्या गर्ह्या दण्ड्याश्च धर्मतः ॥४०२॥
वाक्पारुष्ये छले वादे दप्याः स्युर्त्रिशतं दमम् ।
ऋणादिवादेषु धनं ते स्युर्दाप्या ऋणं तथा ॥४०३॥
यः साक्षी नैव निर्दिष्टा नाहूतो नापि दर्शितः ।
ब्रूयान्मिथ्येति तथ्यं वा दण्ड्यः सोऽपि नराधमः ॥४०४॥
साक्षी साक्ष्यं न चेद्ब्रूयात्समदण्डं वहेदृणम् ।
अतोऽन्येषु विवादेषु त्रिशतं दण्डं अर्हति ॥४०५॥
उक्त्वान्यथा ब्रुवाणाश्च दण्ड्याः स्युर्वाक्छलान्विताः ॥४०६॥
येन कार्यस्य लोभेन निर्दिष्टाः कूटसाक्षिणः ।
गृहीत्वा तस्य सर्वस्वं कुर्यान्निर्विषयं ततः ॥४०७॥
यत्र वै भावितं कार्यं साक्षिभिर्वादिना भवेत् ।
प्रतिवादी यदा तत्र भावयेत्कार्यं अन्यथा ।
बहुभिश्च कुलीनैर्वा पूर्वाः स्युः कूटसाक्षिणः ॥४०८॥
यदा शुद्धा क्रिया न्यायात्तदा तद्वाक्यशोधनम् ।
शुद्धाच्च वाक्याद्यः शुद्धः स शुद्धोऽर्थ इति स्थितिः ॥४०९॥
सप्ताहात्तु प्रतीयेत यत्र साक्ष्यनृतं वदेत् ।
रोगोऽग्निर्ज्ञातिमरणं द्विसप्ताहात्त्रिसप्त वा ।
षट्चत्वारिंशके वापि द्रव्यजात्यादिभेदतः ॥४१०॥
दिव्यानि तेषां च विवादपदविषयिणी व्यवस्था
न कश्चिदभियोक्तारं दिव्येषु विनियोजयेत् ।
अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः ॥४११॥
पार्थिवैः शङ्कितानां तु तुलादीनि नियोजयेत् ।
आत्मशुद्धिविधाने च न शिरस्तत्र कल्पयेत् ॥४१२॥
लोकापवाददुष्टानां शङ्कितानां च दस्युभिः ।
तुलादीनि नियोज्यानि न शिरस्तत्र वै भृगुः ॥४१३॥
न शङ्कासु शिरः कोशे कल्पयेत्तु कदाचन ।
अशिरांसि च दिव्यानि राजभृत्येषु दापयेत् ॥४१४॥
शङ्काविश्वाससंधाने विभागे रिक्थिनां सदा ।
क्रियासमूहकर्तृत्वे कोशं एव प्रदापयेत् ॥४१५॥
दत्तस्यापह्नवो यत्र प्रमाणं तत्र कल्पयेत् ।
स्तेयसाहसयोर्दिव्यं स्वल्पेऽप्यर्थे प्रदापयेत् ॥४१६॥
सर्वद्रव्यप्रमाणं तु ज्ञात्वा हेम प्रकल्पयेत् ।
हेमप्रमाणयुक्तं तु तदा दिव्यं नियोजयेत् ॥४१७॥
ज्ञात्वा संख्यां सुवर्णानां शतनाशे विषं स्मृतम् ।
अशीतेस्तु विनाशे वै दद्याच्चैव हुताशनम् ॥४१८॥
षष्ट्या नाशे जलं देयं चत्वारिंशति वै घटम् ।
विंशद्दशविनाशे वै कोशपानं विधीयते ॥४१९॥
पञ्चाधिकस्य वा नाशे तदर्धार्धस्य तन्दुलाः ।
तदर्धार्धस्य नाशे तु स्पृशेत्पुत्रादिमस्तकम् ॥४२०॥
तदर्धार्धस्य नाशे तु लौकिकाश्च क्रियाः स्मृताः ।
एवं विचारयन्राजा धर्मार्थाभ्यां न हीयते ॥४२१॥
दिव्यानां अर्थिप्रत्यर्थिजातिशिल्पानुसारिण्यो व्यवस्थाः
राजन्येऽग्निं घटं विप्रे वैश्ये तोयं नियोजयेत् ।
सर्वेषु सर्वदिव्यं वा विषं वरंज्य द्वियोत्तमे ॥४२२॥
गोरक्षकान्वाणिजकांस्तथा कारुकुशीलवान् ।
प्रेष्यान्वार्धुषिकांश्चैव ग्राहयेच्शूद्रवद्द्विजान् ॥४२३॥
न लोहशिल्पिनां अग्निं सलिलं नाम्बुसेविनाम् ।
मन्त्रयोगविदां चैव विषं दद्याच्च न क्वचित् ।
तण्डुलैर्न नियुञ्जीत व्रतिनं मुखरोगिणम् ॥४२४॥
कुष्ठिनां वर्जयेदग्निं सलिलं श्वासकासिनाम् ।
पित्तश्लेष्मवतां नित्यं विषं तु परिवर्जयेत् ॥४२५॥
मद्यपस्त्रीव्यसनिनां कितवानां तथैव च ।
कोशः प्राज्ञैर्न दातव्यो ये च नास्तिकवृत्तयः ॥४२६॥
मातापितृद्विजगुरु बालस्त्रीराजघातिनाम् ।
महापातकयुक्तानां नास्तिकानां विशेषतः ॥४२७॥
लिङ्गिनां प्रशठानां तु मन्त्रयोगक्रियाविदाम् ।
वर्णसंकरजातानां पापाभ्यासप्रवर्तिनाम् ॥४२८॥
एतेष्वेवाभियोगेषु निन्द्येष्वेव च यत्नतः ।
दिव्यं प्रकल्प्येन्नैव राजा धर्मपरायणः ॥४२९॥
एतैरेव नियुक्तानां साधूनां दिव्यं अर्हति ।
नेच्छन्ति साधवो यत्र तत्र शोध्याः स्वकैर्नरैः ॥४३०॥
महापातकयुक्तेषु नास्तिकेषु विशेषतः ।
न देयं तेषु दिव्यं तु पापाभ्यासरतेषु च ॥४३१॥
एषु वादेषु दिव्यानि प्रतिषिद्धानि यत्नतः ।
कारयेत्सज्जनैस्तानि नाभिशस्तं त्यजेन्मनुः ॥४३२॥
अस्पृश्याधमदासानां म्लेच्छानां पापकारिणाम् ।
प्रातिलोम्यपसूतानां निश्चयो न तु राजनि ।
तत्प्रसिद्धानि दिव्यानि संशये तेषु निर्दिशेत् ॥४३३॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP