संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः|
प्रतिभूत्वेनाग्राह्याः

कात्यायनस्मृतिः - प्रतिभूत्वेनाग्राह्याः

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


न स्वामी न च वै शत्रुः स्वामिनाधिकृतस्तथा ।
निरुद्धो दण्डितश्चैव संशयस्थाश्च न क्वचित् ॥११४॥

नैव रिक्थी न रिक्तश्च न चैवात्यन्तवासिनः ।
राजकार्यनियुक्तश्च ये च प्रव्रजिता नराः ॥११५॥

नाशक्तो धनिने दातुं दण्डं राज्ञे च तत्समम् ।
जीवन्वापि पिता यस्य तथैवेच्छाप्रवर्तकः ।
नाविज्ञातो ग्रहीतव्यः प्रतिभूत्वक्रियां प्रति ॥११६॥

अथ चेत्प्रतिभूर्नास्ति वादयोग्यस्य वादिनः ।
स रक्षितो दिनस्यान्ते दद्याद्दूताय वेतनम् ॥११७॥

द्विजातिः प्रतिभूहीनो रक्ष्यः स्याद्बाह्यचारिभिः ।
शूद्रादीन्प्रतिभूहीनान्बन्धयेन्निगडेन तु ॥११८॥

अतिक्रमेऽपयाते च दण्डयेत्तं पणाष्टकम् ।
नित्यकर्मापरोधस्तु कार्यः सर्ववर्णिनाम् ॥११९॥

ग्रहीतग्रहणो न्याये न प्रवर्त्यो महीभृता ।
तस्य वा तत्समर्प्यं स्यात्स्थापयेद्वा परस्य तत् ॥१२०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP