संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः| अध्यायः ६६ पूर्वभागः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ पूर्वभागः - अध्यायः ६६ अठरा पुराणांमध्ये भगवान् शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे. Tags : lingapuranpothipuranपुराणपोथीलिंगपुराणसंस्कृत अध्यायः ६६ Translation - भाषांतर सूत उवाच ॥त्रिधन्वा देवदेवस्य प्रसादात्तंडिनस्तथा ॥अश्वमेधसहस्रस्य फलं प्राप्य प्रयत्नतः ॥१॥गाणपत्यं दृढं प्राप्तः सर्वदेवनमस्कृतः ॥आसीत्त्रिधन्वनश्चापि विद्वांस्त्रय्यारुणो नृपः ॥२॥तस्य सत्यव्रतो नाम कुमारोऽभून्महाबलः ॥तेन भार्या विदर्भस्य हृता हत्वामितौजसम् ॥३॥पाणिग्रहणमंत्रेषु निष्ठामप्रापितेष्विह ॥तेनाधर्मेण संयुक्तं राजा त्रय्यारुणोत्यजत् ॥४॥पितरं सोब्रवीत्त्यक्तः क्व गच्छामीति वै द्विजाः ॥पिता त्वेनमथोवाच श्वपाकैः सह वर्तय ॥५॥इत्युक्तः स विचक्राम नगराद्वचनात् पितुः ॥स तु सत्यव्रतो धीमाञ्छ्वपाकावसथान्तिके ॥६॥पित्रा त्यक्तोऽवसद्वीरः पिता चास्य वनं ययौ ॥सर्वलोकेषु विख्यातस्त्रिशंकुरिति वीर्यवान् ॥७॥वसिष्ठकोपात्पुण्यात्मा राजा सत्यव्रतः पुरा ॥विश्वामित्रो महातेजा वरं दत्त्वा त्रिशंकवे ॥८॥राज्येऽभिषिच्य तं पित्र्ये याजयामास तं मुनिः ॥मिषतां देवतानां च वसिष्ठस्य च कौशिकः ॥९॥सशरीरं तदा तं वै दिवमारोपयद्विभुः ॥तस्य सत्य व्रता नाम भार्या कैकयवंशजा ॥१०॥कुमारं जनयामास हरिश्चंद्रमकल्मषम् ॥हरिश्चंद्रस्य च सुतो रोहितो नाम वीर्यवान् ॥११॥हरितो रोहितस्याथ धुंधुर्हारित उच्यते ॥विजयश्च सुतेजाश्च धुंधुपुत्रौ बभुवतुः ॥१२॥जेता क्षत्त्रस्य सर्वत्र विजयस्तेन स स्मृतः ॥रुचकस्तस्य तनयो राजा परमाधार्मिकः ॥१३॥रुचकस्य वृकः पुत्रस्तस्माद्बाहुश्च जज्ञिवान् ॥सगरस्तस्य पुत्रोभूद्राजा परमधार्मिकः ॥१४॥द्वे भार्ये सगरस्यापि प्रभा भानुमती तथा ॥ताभ्यामाराधितः पूर्वमौर्वोग्निः पुत्रकाम्यया ॥१५॥और्वस्तुष्टस्तयोः प्रादाद्यथेष्टं वरमुत्तमम् ॥एका षष्टिसहस्राणि सुतमेकं परा तथा ॥१६॥अगृह्णाद्वंशकर्तारं प्रभागृह्णात्सुतान्बहून् ॥एकं भानुमतिः पुत्रमगृह्णादसमंजसम् ॥१७॥ततः षष्टिसहस्राणि सुषुवे सा तु वै प्रभा ॥खनंतः पृथिवीं दग्धा विष्णुहुंकारमार्गणैः ॥१८॥असमंजस्य तनयः सोंशुमान्नाम विश्रुतः ॥तस्य पुत्रो दिलीपस्तु दिलीपात्तु भगीरथः ॥१९॥येन भागीरथी गंगा तपः कृत्वाऽवतारिता ॥भगीरथ सुतश्चापि श्रुतो नाम बभूव ह ॥२०॥नाभागस्तस्य दायादो भवभक्तः प्रतापवान् ॥अंबरीषः सुतस्तस्य सिंधुद्वीपस्ततोभवत् ॥२१॥नाभागेनांबरीषेण भुजाभ्यां परिपालिता ॥बभूव वसुधात्यर्थं तापत्रयविवर्जिता ॥२२॥अयुतायुः सुतस्तस्य सिन्धुद्वीपस्य वीर्यवान् ॥पुत्रोऽयुतायुषो धीमानृतुपर्णो महायशाः ॥२३॥दिव्याक्षहृदयज्ञो वै राजा नलसखो बली ॥नलौ द्वावेव विख्यातौ पुराणेषु दृढव्रतौ ॥२४॥वीरसेनसुतश्चान्यो यश्चेक्ष्वाकुकुलोद्भवः ॥ऋतुपर्णस्य पुत्रोभूत्सार्वभौमः प्रजेश्वरः ॥२५॥सुदासस्तस्य तनयो राजा त्विन्द्रसमोभवत् ॥सुदासस्य सुतः प्रोक्तः सौदासो नाम पार्थिवः ॥२६॥ख्यातः कल्माषपादो वै नाम्ना मित्रसहश्च सः ॥वसिष्ठस्तु महा तेजाः क्षेत्रे कल्माषपादके ॥२७॥अश्मकं जनयामास इक्ष्वाकुकुलवर्धनम् ॥अश्मकस्योत्तरायां तु मूलकस्तु सुतोभवत् ॥२८॥स हि रामभयाद्राजा स्त्रीभिः परिवृतो वने ॥बिभर्ति त्राणमिच्छन्वै नारीकवचमुत्तमम् ॥२९॥मूलकस्यापि धर्मात्मा राजा शतरथः सुतः ॥तस्माच्छतरथाज्जज्ञे राजा त्विलविलो बली ॥३०॥आसीत्त्वैलविलिः श्रीमान्वृद्धशर्मा प्रतापवान् ॥पुत्रो विश्वसहस्तस्य पितृकन्या व्यजीजनत् ॥३१॥दिलीपस्तस्य पुत्रोभूत्खट्वांग इति विश्रुतः ॥येन स्वर्गादिहागत्य मुहूर्तं प्राप्य जीवितम् ॥३२॥त्रयोऽग्नयस्त्रयो लोका बुद्ध्या सत्येन वै जिताः ॥दीर्घबाहुः सुतस्तस्य रघुस्तस्मादजायत ॥३३॥अजः पुत्रो रघोश्चापि तस्माज्जज्ञे च वीर्यवान् ॥राजा दशरथस्तस्माच्छ्रीमानिक्ष्वाकुवंशकृत् ॥३४॥रामो दशरथाद्वीरो धर्मज्ञो लोकविश्रुतः ॥भरतो लक्ष्मणश्चैव शत्रुघ्नस्च महाबलः ॥३५॥तेषां श्रेष्ठो महातेजा रामः परमवीर्यवान् ॥रावणं समरे हत्वा यज्ञैरिष्ट्वा च धर्मवित् ॥३६॥दशवर्षसहस्राणि रामो राज्यं चकार सः ॥रामस्य तनयो जज्ञे कुश इत्यभिविश्रुतः ॥३७॥लवश्च सुमहाभागः सत्यवानभवत्सुधीः ॥अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य चात्मजः ॥३८॥नलस्तु निषधाज्जातो नभस्तस्मादजायत ॥नभसः पुंडरीकाख्यः क्षेमधन्वा ततः स्मृतः ॥३९॥तस्य पुत्रोभवद्वीरो देवानीकः प्रतापवान् ॥अहीनरः सुतस्तस्य सहस्राश्वस्ततः परः ॥४०॥शुभश्चंद्रावलोकश्च तारापीडस्ततोभवत् ॥तस्यात्मजश्चन्द्रगिरिर्भानुचन्द्रस्ततोभवत् ॥४१॥श्रुतायुरभवत्तस्माद्बृहद्बल इति स्मृतः ॥भारते यो महातेजाः सौभद्रेण निपातितः ॥४२॥एते इक्ष्वाकुदायादा राजानः प्रायशः स्मृताः ॥वंशे प्रधाना एतस्मिन्प्रादान्येन प्रकीर्तिताः ॥४३॥सर्वे पाशुपते ज्ञानमधीत्य परमेश्वरम् ॥समभ्यर्च्य यथाज्ञानमिष्ट्वा यज्ञैर्यथाविधि ॥४४॥दिवं गता महात्मानः केचिन्मुक्तात्मयोगिनः ॥नृगो ब्राह्मणशापेन कृकलासत्वमागतः ॥४५॥धृष्टश्च धृष्टकेतुश्च यमबालश्च वीर्यवान्।रणधृष्टश्च ते पुत्रास्त्रयः परमधार्मिकाः ॥४६॥आनर्तो नाम शर्यातेः सुकन्या नाम दारिका ॥आनर्तस्याभवत् पुत्रो रोचमानः प्रतापवान् ॥४७॥रोचमानस्य रेवोभूद्रेवाद्रैवत एव च ॥ककुद्मी चापरो ज्येष्ठपुत्रः पुत्रशतस्य तु ॥४८॥रेवती यस्य सा कन्या पत्नी रामस्य विश्रुता ॥नरिष्यन्तस्य पुत्रोभूज्जितात्मा तु महाबली ॥४९॥नाभागादंबरीषस्तु विष्णुभक्तः प्रतापवान् ॥ऋतस्तस्य सुतः श्रीमान्सर्वधर्मविदांवरः ॥५०॥कृतस्तस्य सुधर्माभूत्पृषितो नाम विश्रुतः ॥करूषस्य तु कारूषाः सर्वे प्रख्यातकीर्तयः ॥५१॥पृषितो हिंसयित्वा गां गुरोः प्राप सुकल्मषम् ॥शापाच्छूद्रत्वमापन्नश्चयवनस्योति विश्रुतः ॥५२॥दिष्टपुत्रास्तु नाभागस्तस्मादपि भलंदनः ॥भलंदनस्य विक्रांतो राजासीदजवाहनः ॥५३॥एते समासतः प्रोक्ता मनुपुत्रा महाभुजाः ॥इक्ष्वाकोः पुत्रपौत्राद्य एलस्याथ वदामि वः ॥५४॥सूत उवाच ॥ऐलः पुरूरवा नाम रुद्रभक्तः प्रतापवान् ॥चक्रे त्वकण्टकं राज्यं देशे पुण्यतमे द्विजाः ॥५५॥उत्तरे यमुनातीरे प्रयागे मुनिसेविते ॥प्रतिष्ठानाधिपः श्रीमान्प्रतिष्ठाने प्रतिष्ठितः ॥५६॥तस्य पुत्राः सप्त भवन्सर्वे वितततेजसः ॥गंधर्वलोकविदिता भवभक्ता महाबलाः ॥५७॥आयुर्मायुरमायुश्च विश्वायुश्चैव वीर्यवान् ॥श्रुतायुश्च शतायुश्च दिव्याश्चैवोर्वशीसुताः ॥५८॥आयुषस्तनया वीराः पंचैवासन्महौजसः ॥स्वर्भानुतनयायां ते प्रभायां जज्ञिरे नृपाः ॥५९॥नहुषः प्रथमस्तेषां धर्मज्ञो लोकविश्रुतः ॥नहुषस्य तु दायादाः षडिन्द्रोपमतेजसः ॥६०॥उत्पन्नाः पितृकन्यायं विरजायां महौजसः ॥यतिर्ययातिः संयातिरायातिः पंचमोऽन्धकः ॥६१॥विजातिश्चेति षडिमे सर्वे प्रख्यातकीर्तयः ॥यतिर्ज्येष्ठश्च तेषां वै ययातिस्तु ततोऽवरः ॥६२॥ज्येष्ठस्तु यतिर्मोक्षार्थो ब्रह्मभूतोऽभवत्प्रभुः ॥तेषां ययातिः पंचानां महाबलपराक्रमः ॥६३॥देवयानीमुशनसः सुतां भार्यामवाप सः ॥शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः ॥६४॥यदुं च तुर्वसुं चैव देवयानी व्यजायत ॥तावुभौ शुभकर्माणौ स्तुतौ विद्याविशारदौ ॥६५॥द्रुह्यं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥ययातये रथं तस्मै ददौ शुक्रः प्रतापवान् ॥६६॥तोषितस्तेन विप्रेन्द्रः प्रीतः परमभास्वरम् ॥सुसंगं कांचनं दिव्यमक्षये च महेषुधी ॥६७॥युक्तं मनोजवैरश्वैयेंन कन्यां समुद्वहन् ॥स तेन रथमुख्येन षण्मासेनाजयन्महीम् ॥६८॥ययातिर्युधि दुर्धर्षो देवदानवमानुषैः ॥भवभक्तस्तु पुण्यात्मा धर्म निष्ठः समंजसः ॥६९॥यज्ञयाजी जितक्रोधः सर्वभूतानुकंपनः ॥कौरवाणां च सर्वेषां स भवद्रथ उत्तमः ॥७०॥यावन्नरेन्द्रप्रवरः कौरवो जनमेजयः ॥पूरोर्वंशस्य राज्ञस्तु राज्ञः पारिक्षितस्य तु ॥७१॥जगाम स रथो नाशं शापाद्गर्गस्य धीमतः ॥गर्गस्य हि सुतं बालं स राजा जनमेजयः ॥७२॥अक्रूरं हिंसयामास ब्रह्महत्यामवाप सः ॥स लोहगंधी राजर्षिः परिधावन्नितस्ततः ॥७३॥पौरजानपदौस्त्यक्तो न लेभे शर्म कर्हिचित् ॥ततः स दुःखसंतप्तो न लेभे संविदं क्वचित् ॥७४॥जगाम शौनकमृषिं शरण्यं व्यथितस्तदा ॥इन्द्रेतिर्नाम विख्यातो योऽसौ मुनिरुदारधीः ॥७५॥याजयामास चेंद्रेतिस्तं नृपं जनमेजयम् ॥अश्वमेधेन राजानं पावनार्थं द्विजोत्तमाः ॥७६॥स लोहगंधान्निर्मुक्त एनसा च महायशाः ॥यज्ञस्यावभृथे मध्ये यातो दिव्यो रथः शुभः ॥७७॥तस्माद्वंशात्परिभ्रष्टो वसोश्चेदिपतेः पुनः ॥दत्तः शक्रेण तुष्टेन लेभे तस्माद्बृहद्रथः ॥७८॥ततो हत्वा जरासंधं भीमस्तं रथमुत्तमम् ॥प्रददौ वासुदेवाय प्रीत्या कौरवनंदनः ॥७९॥सूत उवाच ॥अभ्यषिंचत्पुरुं पुत्रं ययातिर्नाहुषः प्रभुः ॥कृतोपकारस्तेनैव पुरुणा द्विजसत्तमाः ॥८०॥अभिषेक्तुकामं च नृपं पुरुं पुत्रं कनीयसम् ॥ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ॥८१॥कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो ॥ज्येष्ठं यदुमतिक्रम्य कनीयान्राज्यमर्हति ॥८२॥एते संबोधयामस्त्वां धर्मं च अनुपालय ॥८३॥इति श्रीलिंगमहापुराणे पूर्व भागे षट्षष्टितमोऽध्यायः ॥६६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP