संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः २४

पूर्वभागः - अध्यायः २४

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


सूत उवाच ॥
श्रुत्वैवमखिलं ब्रह्मा रुद्रेण परिभाषितम् ॥
पुनः प्रणम्य देवेशं रुद्रमाह प्रजापतिः ॥१॥

भगवन्देवदेवेश विश्वरूपं महेश्वर ॥
उमाधव महादेव नमो लोकाभिवंदित ॥२॥

विश्वरूप महाभाग कस्मिन्काले महेश्वर ॥
या इमास्ते महादेव तनवो लोकवंदिताः ॥३॥

कस्यां वा युगसंभूत्यां द्रक्ष्यंतीह द्विजातयः ॥
केन वा तपसा देव ध्यानयोगेन केन वा ॥४॥

नमस्ते वै महादेव शक्यो द्रष्टुं द्विजातिभिः ॥
तस्य तद्वचनं श्रुत्वा शर्वः संप्रेक्ष्य तं पुरः ॥५॥

स्मयन्प्राह महादेवो ऋग्यजुःसामसंभवः ॥
श्रीभगवानुवाच ॥
तपसा नैव वृत्तेन दानधर्मफलेन च ॥६॥

न तीर्थफलयोगेन क्रतुभिर्वाप्तदक्षिणैः ॥
न वेदाध्ययनैर्वापि न वित्तेन न वेदनैः ॥७॥

न शक्यं मानवैर्द्रष्टुमृते ध्यानादहं त्विह ॥
सप्तमे चैव वाराहे ततस्तस्मिन्पितामह ॥८॥

कल्पेश्वरोऽथ भगवान् सर्वलोकप्रकाशनः ॥
मनुर्वैवस्वतश्चैव तव पौत्रो भविष्यति ॥९॥

तदा चतुर्युगावस्थे तस्मिन्कल्पे युगांतिके ॥
अनुग्रहार्थं लोकानां ब्राह्मणानां हिताय च ॥१०॥

उत्पत्स्यामि तदा ब्रह्मन्पुनरस्मिन्युगांतिके ॥
युगप्रवृत्त्या च तदा तस्मिंश्च प्रथमे युगे ॥११॥

द्वापरे प्रथमे ब्रह्मन्यदा व्यासः स्वयं प्रभुः ॥
तदाहं ब्राह्मणार्थाय कलौ तस्मिन् युगांतिके ॥१२॥

भविष्यामि शिखायुक्तः श्वेतो नाम महामुनिः ॥
हिमवच्छिखरे रम्ये छागले पर्वतोत्तमे ॥१३॥

तत्र शिष्याः शिखायुक्ता भविष्यंति तदा मम ॥
श्वेतः श्वेतशिखश्चैव श्वेतास्यः श्वेतलोहितः ॥१४॥

चत्वारस्तु महात्मानो ब्राह्मणा वेदपारगाः ॥
ततस्ते ब्रह्मभूयिष्ठा दृष्ट्वा ब्रह्मगतिं पराम् ॥१५॥

मत्समीपं गमिष्यंति ध्यानयोगपरायणाः ॥
ततः पुनर्यदा ब्रह्मन् द्वितीये द्वापरे प्रभुः ॥१६॥

प्रजापतिर्यदा व्यसः सद्यो नाम भविष्यति ॥
तदा लोकहितार्थाय सुतारो नाम नामतः ॥१७॥

भविष्यामि कलौ तस्मिन् शिष्यानुग्रहकाम्यया ॥
तत्रापि मम ते शिष्या नामतः परिकीर्तिताः ॥१८॥

दुंदुभिः शतरूपश्च ऋचीकः केतुमांस्तदा ॥
प्राप्य योगं तथा ध्यानं स्थाप्य ब्रह्म च भूतले ॥१९॥

रुद्रलोकं गमिष्यंति सहचारित्वमेव च ॥
तृतीये द्वापरे चैव यदा व्यासस्तु भार्गवः ॥२०॥

तदाप्यहं भविष्यामि दमनस्तु युगांतिके ॥
तत्रापि च भविष्यंति चत्वारो मम पुत्रकाः ॥२१॥

विकोशश्च विकेशश्च विपाशः शापनाशनः ॥
तेपि तेनैव मार्गेण योगोक्तेन महौजसः ॥२२॥

रुद्रलोकं गमिष्यंति पुनरावृत्तिदुर्लभम् ॥
चतुर्थे द्वापरे चैव यदा व्यासोऽङ्गिराः स्मृतः ॥२३॥

तदाप्यहं भविष्यामि सुहोत्रो नाम नामतः ॥
तत्रापि मम ते पुत्राश्चत्वारोपि तपोधनाः ॥२४॥

द्विजश्रेष्ठा भविष्यंति योगात्मानो दृढव्रताः ॥
सुमुखो दुर्मुखश्चैव दुर्दरो दुरतिक्रमः ॥२५॥

प्राप्य योगगतिं सूक्ष्मां विमला दग्ध किल्बिषाः ॥
तेपि तेनैव मार्गेण योगयुक्ता महौजसः ॥२६॥

रुद्रलोकं गमिष्यंति पुनरावृत्तिदुर्लभम् ॥
पंचमे द्वापरे चैव व्यासस्तु सविता यदा ॥२७॥

तदा चापि भविष्यामि कंको नाम महातपाः ॥
अनुग्रहार्थं लोकानां योगात्मैककलागतिः ॥२८॥

चत्वारस्तु महाभागा विमलाः शुद्धयोनयः ॥
शिष्या मम भविष्यंति योगात्मानो दृढव्रताः ॥२९॥

सनकः सनंदनश्चैव प्रभुर्यश्च सनातनः ॥
विभुः सनत्कुमारश्च निर्ममा निरहंकृताः ॥३०॥

मत्समीपमुपेष्यंति पुनरावृत्तिदुर्लभम् ॥
परिवर्ते पुनः षष्ठे मृत्युर्व्यासो यदा विभुः ॥३१॥

तदाप्यहं भविष्यामि लोगाक्षीर्नाम नामतः ॥
तत्रापि मम ते शिष्या योगात्मानो दृढव्रताः ॥३२॥

भविष्यंति महाभागाश्चत्वारो लोकसंमताः ॥
सुधामा विरजाश्चैव शंखपाद्रज एव च ॥३३॥

योगात्मानो महात्मानः सर्वे वै दग्धकिल्बिषाः ॥
तेपि तेनैव मार्गेण ध्यानयोगसमन्विताः ॥३४॥

मत्समीपं गमिष्यंति पुनरावृत्तिदुर्लभम् ॥
सप्तमे परिवर्ते तु यदा व्यासः शतक्रतुः ॥३५॥

विभुनामा महातेजाः प्रथितः पूर्वजन्मनि ॥
तदाप्यहं भविष्यामि कलौ तस्मिन् युगांतिके ॥३६॥

जैगीषव्यो विभुः ख्यातः सर्वेषां योगिनां वरः ॥
तत्रापि मम ते पुत्रा भविष्यंति युगे तथा ॥३७॥

सारस्वतश्च मेघश्च मेघवाहः सुवाहनः ॥
तेपि तेनैव मार्गेण ध्यानयोगपरायणाः ॥३८॥

गमिष्यंति महात्मानो रुद्रलोकं निरामयम् ॥
वसिष्ठश्चाष्टमे व्यासः परिवर्ते भविष्यति ॥३९॥

यदा तदा भविष्यामि नाम्नाहं दधिवाहनः ॥
तत्रापि मम ते पुत्रा योगात्मानो दृढव्रताः ॥४०॥

भविष्यंति महायोगा येषां नास्ति समो भुवि ॥
कपिलश्चासुरिश्चैव तथा पंचशिखो मुनिः ॥४१॥

बाष्कलश्च महायोगी धर्मात्मानो महौजसः ॥
प्राप्य माहेश्वरं योगं ज्ञानिनो दग्धकिल्बिषाः ॥४२॥

मत्समीपं गमिष्यंति पुनरावृत्ति दुर्लभम् ॥
परिवर्ते तु नवमे व्यासः सारस्वतो यदा ॥४३॥

तदाप्यहं भविष्यामि ऋषभो नाम नामतः ॥
तत्रापि मम ते पुत्रा भविष्यंति महौजसः ॥४४॥

पराशरश्च गर्गश्च भार्गवांगिरसौ तदा ॥
भविष्यंति महात्मानो ब्राह्मणा वेदपारगाः ॥४५॥

ध्यानमार्गं समासाद्य गमिष्यंति तथैव ते ॥
सर्वे तपोबलोत्कृष्टाः शापानुग्रहकोविदाः ॥४६॥

तेपि तेनैव मार्गेण योगोक्तेन तपस्विनः ॥
रुद्रलोकं गमिष्यंति पुनरावृत्तिदुर्लभम् ॥४७॥

दशमे द्वापरे व्यासः त्रिपाद्वै नाम नामतः ॥
यदा भविष्यते विप्रस्तदाहं भविता मुनिः ॥४८॥

हिमवच्छिखरे रम्ये भृगुतुङ्गे नगोत्तमे ॥
नाम्ना भृगोस्तु शिखरं प्रथितं देवपूजितम् ॥४९॥

तत्रापि मम ते पुत्रा भविष्यन्ति दृढव्रताः ॥
बलबंधुर्निरामित्रः केतुश्रृंगस्तपोधनः ॥५०॥

योगात्मानो महात्मानस्तपोयोगसमन्विताः ॥
रुद्रलोकं गमिष्यंति तपसा दग्धकिल्बिषाः ॥५१॥

एकादशे द्वापरे तु व्यासस्तु त्रिव्रतो यदा ॥
तदाप्यहं भविष्यामि गंगाद्वारे कलौ तथा ॥५२॥

उग्रो नाम महातेजाः सर्वलोकेषु विश्रुतः ॥
तत्रापि मम ते पुत्रा भविष्यंति महौजसः ॥५३॥

लंबोदरश्च लंबाक्षो लंबकेशः प्रलंबकः ॥
प्राप्य माहेश्वरं योगं रुद्रलोकं गता हि ते ॥५४॥

द्वादशे परिवर्ते तु शततेजा यदा मुनिः ॥
भविष्यति महातेजा व्यासस्तु कविसत्तमः ॥५५॥

तदाप्यहं भविष्यामि कलाविह युगांतिके ॥
हैतुकं वनमासाद्य अत्रिर्नाम्ना परिश्रुतः ॥५६॥

तत्रापि मम ते पुत्रा भस्मस्नानानुलेपनाः ॥
भविष्यंति महायोगा रुद्रलोकपरायणाः ॥५७॥

सर्वज्ञः समबुद्धिश्च साध्यः सर्वस्तथैव च ॥
प्राप्य माहेश्वरं योगं रुद्रलोकं गता हि ते ॥५८॥

त्रयोदशे पुनः प्राप्ते परिवर्ते क्रमेण तु ॥
धर्मो नारायणो नाम व्यासस्तु भविता यदा ॥५९॥

तदाप्यहं भविष्यामि वालिर्नाम महामुनिः ॥
वालखिल्याश्रमे पुण्ये पर्वते गंधमादने ॥६०॥

तत्रापि मम ते पुत्रा भविष्यंति तपोधनाः ॥
सुधामा काश्यपश्चैव वासिष्ठो विरजास्तथा ॥६१॥

महायोगबलोपेता विमला ऊर्ध्वरेतसः ॥
प्राप्य माहेश्वरं योगं रुद्रलोकं गता हि ते ॥६२॥

यदा व्यासस्तरक्षुस्तु पर्याये तु चतुर्दशे ॥
तत्रापि पुनरेवाहं भविष्यामि युगांतिके ॥६३॥

वंशे त्वंगिरसां श्रेष्ठे गौतमो नाम नामतः ॥
भविष्यति महापुण्यं गौतमं नाम तद्वनम् ॥६४॥

तत्रापि मम ते पुत्रा भविष्यंति कलौ तदा ॥
अत्रिर्देवसदश्चैव श्रवणोऽथ श्रविष्ठकः ॥६५॥

योगात्मानो महात्मानः सर्वे योगसमन्विताः ॥
प्राप्य माहेश्वरं योगं रुद्रलोकाय ते गताः ॥६६॥

ततः पंचदशे प्राप्ते परिवर्ते क्रमागते ॥
त्रैय्यारुणिर्यदा व्यासो द्वापरे समपद्यत ॥६७॥

तदाप्यहं भविष्यामि नाम्ना वेदशिरा द्विजः ॥
तत्र वेदशिरो नाम अस्त्रं तत्पारमेश्वरम् ॥६८॥

भविष्यति महावीर्यं वेदशीर्षश्च पर्वतः ॥
हिमवत्पृष्ठमासाद्य सरस्वत्यां नगोत्तमे ॥६९॥

तत्रापि मम ते पुत्रा भविष्यंति तपोधनाः ॥
कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः ॥७०॥

योगात्मानो महात्मानः सर्वे ते द्यूर्ध्वरेतसः ॥
प्राप्य माहेश्वरं योगं रुद्रलोकाय ते गताः ॥७१॥

व्यासो युगे षोडशे तु यदा देवो भविष्यति ॥
तत्र योगप्रदानाय भक्तानां च यतात्मनाम् ॥७२॥

तदाप्यहं भविष्यामि गोकर्णो नाम नामतः ॥
भविष्यति सुपुण्यं च गोकर्णं नाम तद्वनम् ॥७३॥

तत्रापि मम ते पुत्रा भविष्यंति च योगिनः ॥
काश्यपो ह्युशनाश्चैव च्यवनोथ बृहस्पतिः ॥७४॥

तेपि तेनैव मार्गेण ध्यानयोगसमन्विताः ॥
प्राप्य माहेश्वरं योगं गंतारो रुद्रमेव हि ॥७५॥

ततः सप्तदशे चैव परिवर्ते क्रमागते ॥
यदा भविष्यति व्यासो नाम्ना देवकृतं जयः ॥७६॥

तदाप्यहं भविष्यामि गुहावासीति नामतः ॥
हिमवच्छिखरे रम्ये महोत्तुंगे महालये ॥७७॥

सिद्धक्षेत्रं महापुण्यं भविष्यति महालयम् ॥
तत्रापि मम ते पुत्रा योगज्ञा ब्रह्मवादिनः ॥७८॥

भविष्यंति महात्मानो निर्ममा निरहंकृताः ॥
उतथ्यो वामदेवश्च महायोगो महाबलः ॥७९॥

तेषां शतसहस्रं तु शिष्याणां ध्यानयोगिनाम् ॥
भविष्यन्ति तदा काले सर्वे ते ध्यानयुंजकाः ॥८०॥

योगाभ्यासरताश्चैव हृदि कृत्वा महेश्वरम् ॥
महालये पदं न्यस्तं दृष्ट्वा यांति शिवं पदम् ॥८१॥

ये चान्येपि महात्मानः कलौ तस्मिन् युगांतिके ॥
ध्याने मनः समाधाय विमलाः शुद्धबुद्धयः ॥८२॥

मम प्रसादाद्यास्यंति रुद्रलोकं गतज्वराः ॥
गत्वा महालयं पुण्यं दृष्ट्वा माहेश्वरं पदम् ॥८३॥

तीर्णस्तारयते जंतुर्दश पूर्वान्दशोत्तरान् ॥
आत्मानमेकविंशं तु तारयित्वा महालये ॥८४॥

मम प्रसादाद्यास्यंति रुद्रलोकं गतज्वराः ॥
ततोष्टादशमे चैव परिवर्ते यदा विभो ॥८५॥

तदा ऋतंजयो नाम व्यासस्तु भविता मुनिः ॥
तदाप्यहं भविष्यामि शिखंडी नाम नामतः ॥८६॥

सिद्धक्षेत्रे महापुण्ये देवदानवपूजिते ॥
हिमवच्छिखरे रम्ये शिखंडी नाम पर्वतः ॥८७॥

शिखंडिनो वनं चापि यत्र सिद्धनिषेवितम् ॥
तत्रापि मम ते पुत्रा भविष्यंति तपोधनाः ॥८८॥

वाचश्रवा ऋचीकश्च श्यावाश्वश्च यतीश्वरः ॥
योगात्मानो महात्मानः सर्वे ते वेदपारगाः ॥८९॥

प्रप्य माहेश्वरं योगं रुद्रलोकाय संवृताः ॥
अथ एकोनविंशे तु परिवर्त्ते क्रमागते ॥९०॥

व्यासस्तु भविता नाम्ना भरद्वाजो महामुनिः ॥
तदाप्यहं भविष्यामि जटामाली च नामतः ॥९१॥

हिमवच्छिखरे रम्ये जटायुर्यत्र पर्वतः ॥
तत्रापि मम ते पुत्रा भविष्यंति महौजसः ॥९२॥

हिरण्यनाभः कौशल्यो लोकाक्षी कुथुमिस्तथा ॥
ईश्वरा योगधर्माणः सर्वे ते ह्यूर्ध्वरेतसः ॥९३॥

प्राप्य माहेश्वरं योगं रुद्रलोकाय संस्थिताः ॥
ततो विंशतिमश्चैव परिवर्तो यदा तदा ॥९४॥

गौतमस्तु तदा व्यासो भविष्यति महामुनिः ॥
तदाप्यहं भविष्यामि अट्टहासस्तु नामतः ॥९५॥

अट्टहासप्रियाश्चैव भविष्यंति तदा नराः ॥
तत्रैव हिमवत्पृष्ठे अट्टहासो महागिरिः ॥९६॥

देवदानव यक्षेन्द्रसिद्धचारणसेवितः ॥
तत्रापि मम ते पुत्रा भविष्यंति महौजसः ॥९७॥

योगात्मानो महात्मानो ध्यायिनो नियतव्रताः ॥
सुमंतुर्बर्बरी विद्वान् कबंधः कुशिकंधरः ॥९८॥

प्राप्य माहेश्वरं योगं रुद्रलोकाय ते गताः ॥
एकविंशे पुनः प्राप्ते परिवर्ते क्रमागते ॥९९॥

वाचश्रवाः स्मृतो व्यासो यदा स ऋषिसत्तमः ॥
तदाप्यहं भविष्यामि दारुको नाम नामतः ॥१೦०॥

तस्माद्भविष्यते पुण्यं देवदारु वनं शुभम् ॥
तत्रापि मम ते पुत्रा भवष्यंति महौजसः ॥१೦१॥

प्लक्षो दार्भायणिश्चैव केतुमान् गौतमस्तथा ॥
योगात्मानो महात्मानो नियता ऊर्ध्वरेतसः ॥१೦२॥

नैष्ठिकं व्रतमास्थाय रुद्रलोकाय ते गताः ॥
द्वाविंशे परिवर्ते तु व्यासः शुष्मायणो यदा ॥१೦३॥

तदाप्यहं भविष्यामि वाराणस्यां महामुनिः ॥
नाम्ना वै लांगली भीमो यत्र देवाः सवासवाः ॥१೦४॥

द्रक्ष्यंति मां कलौ तस्मिन् भवं चैव हलायुधम् ॥
तत्रापि मम ते पुत्रा भविष्यंति सुधार्मिकाः ॥१೦५॥

भल्लवी मधुपिंगश्च श्वेतकेतुः कुशस्तथा ॥
प्राप्य माहेश्वरं योगं तेपि ध्यानपरायणाः ॥१೦६॥

विमला ब्रह्मभूयिष्ठा रुद्रलोकाय संस्थिताः ॥
परिवर्ते त्रयोविंशे तृणबिंदुर्यदा मुनिः ॥१೦७॥

व्यासो हि भविता ब्रह्मंस्तदाहं भविता पुनः ॥
श्वेतो नाम महाकायो मुनिपुत्रस्तु धार्मिकः ॥१೦८॥

तत्र कालं जरिष्यामि तदा गिरिवरोत्तमे ॥
तेन कालंजरो नाम भविष्यति स पर्वतः ॥१೦९॥

तत्रापि मम ते शिष्याः भविष्यंति तपस्विनः ॥
उशिको बृहदश्वश्च देवलः कविरेव च ॥११०॥

प्राप्य माहेश्वरं योगं रुद्रलोकाय ते गतः ॥
परिवर्ते चतुर्विंशे व्यासो ऋक्षो यदा विभो ॥१११॥

तदाप्यहं भविष्यामि कलौ तस्मिन् युगांतिके ॥
शूली नाम महायोगी नैमिषे देववंदिते ॥११२॥

तत्रापि मम ते शिष्या भविष्यंति तपोधनाः ॥
शालिहोत्रोग्निवेशश्च युवनाश्वः शरद्वसुः ॥११३॥

तेऽपि तेनैव मार्गेण रुद्रलोकाय संस्थिताः ॥
पंचविंशे पुनः प्राप्ते परिवर्ते क्रमागते ॥११४॥

वासिष्ठस्तु यदा व्यासः शक्तिर्नाम्ना भविष्यति ॥
तदाप्यहं भविष्यामि दंडी मुंडीश्वरः प्रभुः ॥११५॥

तत्रापि मम ते पुत्रा भविष्यंति तपोधनाः ॥
छगलः कुंडकर्णश्च कुभांडश्च प्रवाहकः ॥११६॥

प्राप्य माहेश्वरं योगममृतत्वाय ते गताः ॥
षड्विंशे परिवर्ते तु यदा व्यासः पराशरः ॥११७॥

तदाप्यहं भविष्यामि सहिष्णुर्नाम नामतः ॥
पुरं भद्रवटं प्राप्य कलौ तस्मिन् युगांतिके ॥११८॥

तत्रापि मम ते पुत्रा भविष्यंति सुधार्मिकाः ॥
उलूको विद्युतश्चैव शंबूको ह्याश्वलायनः ॥११९॥

प्राप्य माहेश्वरं योगं रुद्रलोकाय ते गताः ॥
सप्तविंशे पुनः प्राप्ते परिवर्ते क्रमागते ॥१२०॥

जातूकर्ण्यो यदा व्यासो भविष्यति तपोधनः ॥
तदाप्यहं भविष्यामि सोमशर्मा द्विजोत्तमः ॥१२१॥

प्रभासतीर्थमासाद्य योगात्मा योगविश्रुतः ॥
तत्रापि मम ते शिष्या भविष्यंति तपोधनाः ॥१२२॥

अक्षपादः कुमारश्च उलूको वत्स एव च ॥
योगात्मानो महात्मानो विमलाः शुद्धबुद्धयः ॥१२३॥

प्राप्य माहेश्वरं योगं रुद्रलोकं ततो गताः ॥
अष्टाविंशे पुनः प्राप्ते परिवर्ते क्रमागते ॥१२४॥

पराशरसुतः श्रीमान् विष्णुर्लोकपितामहः ॥
यदा भविष्यति व्यासो नाम्ना द्वैपायनः प्रभुः ॥१२५॥

तदा षष्ठेन चांशेन कृष्णः पुरुषसत्तमः ॥
वसुदेवाद्यदुश्रेष्ठो वासुदेवो भविष्यति ॥१२६॥

तदाप्यहं भविष्यामि योगात्मा योगमायया ॥
लोकविस्मयनार्थाय ब्रह्मचारिशरीरकः ॥१२७॥

श्मशाने मृतमुत्सृष्टं दृष्ट्वा कायमनाथकम् ॥
ब्राह्मणानां हितार्थाय प्रविष्टो योगमायया ॥१२८॥

दिव्यां मेरुगुहां पुण्यां त्वया सार्धं च विष्णुना ॥
भविष्यामि तदा ब्रह्मँल्लकुली नाम नामतः ॥१२९॥

कायावतार इत्येवं सिद्धक्षेत्रं च वै तदा ॥
भविष्यति सुविख्यातं यावद्भूमिर्धरिष्यति ॥१३०॥

तत्रापि मम ते पुत्रा भविष्यंति तपस्विनः ॥
कुशिकश्चैव गर्गश्च मित्रः कौरुष्य एव च ॥१३१॥

योगात्मानो महात्मानो ब्राह्मणा वेदपारगाः ॥
प्राप्य माहेश्वरं योगं विमला ह्यूर्ध्वरेतसः ॥१३२॥

रुद्रलोकं गमिष्यंति पुनरावृत्तिदुर्लभम् ॥
एते पाशुपताः सिद्धा भस्मोद्दूलितविग्रहाः ॥१३३॥

लिंगार्चनरता नित्यं बाह्याभ्यंतरतः स्थिताः ॥
भक्त्या मयि च योगेन ध्यान निष्ठा जितेंद्रियाः ॥१३४॥

संसारबंधच्छेदार्थं ज्ञानमार्गप्रकाशकम् ॥
स्वरूपज्ञानसिद्ध्यर्थं योगं पाशुपतं महत् ॥१३५॥

योगमार्गा अनेकाश्च ज्ञानमार्गास्त्वनेकशः ॥
न निवृत्तिमुपायांति विना पंचाक्षरीं क्वचित् ॥१३६॥

यदाचरेत्तपश्चायं सर्वद्वंद्वविवर्जितम् ॥
तदा स मुक्तो मंतव्यः पक्वं फलमिव स्थितः ॥१३७॥

एकाहं यः पुमान्सम्यक् चरेत्पाशुपतव्रतम् ॥
न सांख्ये पंचरात्रे वा न प्राप्नोति गतिं कदा ॥१३८॥

इत्येतद्वै मया प्रोक्तमवतारेषु लक्षणम् ॥
मन्वादिकृष्णपर्यंतमष्टाविशंद्युगक्रमात् ॥१३९॥

तत्र श्रुतिसमूहानां विभागो धर्मलक्षणः ॥
भविष्यति तदा कल्पे कृष्णद्वैपायनो यदा ॥१४०॥

सूत उवाच ॥
निशम्यैवं महातेजा महादेवेन कीर्तितम् ॥
रुद्रावतारं भगवान् प्रणिपत्य महेश्वरम् ॥१४१॥

तुष्टाव वाग्भिरिष्टाभिः पुनः प्राह च शंकरम् ॥
पितामह उवाच ॥
सर्वे विष्णुमया देवाः सर्वे विष्णुमया गणाः ॥१४२॥

न हि विष्णुसमा काचिद्गतिरन्या विधीयते ॥
इत्येवं सततं वेदा गायंति नात्र संशयः ॥१४३॥

स देवदेवो भगवांस्तव लिंगार्चने रतः ॥
तव प्रणामपरमः कथं देवो ह्यभूत्प्रभुः ॥१४४॥

सूत उवाच ॥
निशम्य वचनं तस्य ब्रह्मणः परमेष्ठिनः ॥
प्रपिबन्निव चक्षुर्भ्यां प्रीतस्तत्प्रश्नगौरवात् ॥१४५॥

पूजाप्रकरणं तस्मै तमालोक्याह शंकरः ॥
भवान्नारायणश्चैव शक्रः साक्षात्सुरोत्तमः ॥१४६॥

मुनयश्च सदा लिंगं संपूज्य विधिपूर्वकम् ॥
स्वंस्वं पदं विभो प्राप्तास्तस्मात्संपूजयंति ते ॥१४७॥

लिंगार्चनं विना निष्ठा नास्ति तस्माज्जनार्दनः ॥
आत्मनो यजते नित्यं श्रद्धया भगवान्प्रभुः ॥१४८॥

इत्येवमुक्त्वा ब्रह्माणमनुगृह्य महेश्वरः ॥
पुनः संप्रेक्ष्य देवेशं तत्रैवांतरधीयत ॥१४९॥

तमुद्दिश्य तदा ब्रह्मा नमस्कृत्य कृतांजलिः ॥
स्रष्टुं त्वशेषं भगवाँल्लब्धसंज्ञस्तु शंकरात् ॥१५०॥

इति श्रीलिंगमहापुराणे पूर्वभागे चतुर्विंशतितमोऽध्यायः ॥२४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP