शिवानन्दलहरी - श्लोक ८१ ते ८५

शिवानंदलहरी में भक्ति -तत्व की विवेचना , भक्त के लक्षण , उसकी अभिलाषायें और भक्तिमार्ग की कठिनाईयोंका अनुपम वर्णन है । `शिवानंदलहरी ' श्रीआदिशंकराचार्य की रचना है ।


८१

कंचित्कालमुमामहेश भवतः पादारविन्दार्चनैः

केचिद्वयानसमाधिभिश्च नतिभिः केचित्कथाकर्णनैः ।

केचित्कंचिदवेक्षणैश्च नुतिभिः काचिदृशामीदृशीं  

यः  प्राप्रोति मुदा त्वदर्पितमना जीवन्स मुक्तःखलु ॥८१॥

८२

बाणत्वं बृषभत्वमर्धवपुषा भार्यात्वमार्यापते

घोणित्वं सखिता मृदड़वहता चेत्यादि रुपं दधौ ।

त्वत्पादे नयनार्पणं च कृतवान् त्वद्देहभागो हरिः

पूज्यात्पूज्यतरस्य एव हि न चेत् को वा तदन्योऽधि्कः ॥८२॥

 

८३

जननमृतियुतानां सेवया देवतानां

न भवति सुखलेशः संशयो नास्ति तत्र ।

अजनिममृतरुपं साम्बमीशं भजन्ते

य इह परमसौख्यं ते हि धन्या लभन्ते ॥८३॥

 

८४

शिव तव परिचर्यासत्रिधानाय गौर्या

भव मम गुणधुर्या बुद्विकन्यां प्रदास्ये ।

सकलभुवनबन्धो सच्चिदानन्दसिन्धो

सदय ह्रदयगेहे सर्वदा संवस त्वम् ॥८४॥

 

८५

जलधिमथनदक्षो नैव पातालभेदी

न च वनमृगयायां नैव लुब्धःप्रवीणः ।

अशन -कुसुम -भूषा -वस्त्रमुख्यां सपर्यां

कथय कथमहं ते कल्पयानीन्दुमौले ॥८५॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP