शिवानन्दलहरी - श्लोक ३१ ते ३५

शिवानंदलहरी में भक्ति -तत्व की विवेचना , भक्त के लक्षण , उसकी अभिलाषायें और भक्तिमार्ग की कठिनाईयोंका अनुपम वर्णन है । `शिवानंदलहरी ' श्रीआदिशंकराचार्य की रचना है ।


३१

नालं वा परमोपकारकमिदं त्वेकं पशूनां पते !

पश्यन्कुक्षिगतांश्चराचरगणान्बाह्यास्थितान्रक्षितुम् ।

सर्वामर्त्यपलायनौषधमतिज्वालाकरं भीकरं

निक्षिप्तं गरलं गले न गिलितं नोद्गगीर्णमेव त्वया ॥३१॥

 

३२

ज्वालोग्र ः सकलामरातिभयद ःक्ष्वेल ःकथं वा त्वया

दृष्ट ः किं च करे धृत ः करतले किं पक्वजम्बूफलम् ।

जिढायां निहितश्च सिद्वघुटिका वा कण्ठदेशे भृत ः

किं ते नीलमणिर्विभूषणमयं शंभो महात्मन्वद ॥३२॥

 

३३

नालं वा सकृदेव देव भवत ः सेवा नतिर्वा नुति ः

पूजा वा स्मरणं कथाश्रवणमप्यालोकनं मादृशाम् ।

स्वामित्रस्थिरदेवतानुसरणायासेन किं लभ्यते

 

३४

किं ब्रूमस्तव साहसं पशुपते कस्यास्ति शंभो भव -

द्वैर्य चेदृशमात्मन ः श्तितिरियं चान्यै ः कथं लम्यते ।

भ्रश्यद्देवगणं त्रसन्मुनिगणं नश्यत्प्रपच्चं लयं

पश्यत्रिर्भय एक एव विहरत्यानन्दसान्द्रो भवान् ॥३४॥

 

३५

योगक्षेमधुरंधरस्य सकलश्रेय ः प्रदोद्योगिनो

दृष्टादृष्टमतोपदेशकृतिनो बाह्यान्तरव्यापिन ः ।

सर्वज्ञस्य दयाकरस्य भवत ः किं वेदितव्यं मया

शंभो त्वं पतमान्तरड्र . इति मे चित्ते स्मराम्यन्वहम् ॥३५॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP