११
वटुर्वा गेही वा यतिरपि जटी वा तदितरो
नरो वा य : कश्चिद्ववतु भव किं तेन भवति ।
यदीयं ह्रत्पद्मं यदि भवदधीनं पशुपते
तदीयस्त्वं शंभो भवसि भवभारं च वहसि ॥११॥
१२
गुहायां गेहे वा वहिरपि वने वाऽद्रिशिखरे
जले वा वह्रौ वा वसतु वसते : किं वद फलम् ।
सदा यस्यैवान्त : करणमपि शंभो तव पदे
स्थितं चेद्योगोऽसौ स च परमयोगी स च सुखी ॥१२॥
१३
असारे संसारे निज भजनदूरे जडधिया
भ्रमन्तं मामन्धं परमकृपया पातुमुचितम्
मदन्य : को दीनस्तव कृपणरक्षातिनिपुण -
स्त्वदन्य : को वा मे त्रिजगति शरण्य : पशुपते ॥१३॥
१४
प्रभुस्त्वं दीनानां खलु परमबन्धु :पशुपते !
प्रमुख्योऽहं तेषामपि किमुत बन्धुत्वमनयो ।
त्वयैव क्षन्तव्या : शिव मदपराधाश्च सकला :
प्रयत्नात्कर्तव्यं मदवनमियं बन्धुसरणि ॥१४॥
१५
उपेक्षा नो चेत्किं न हरसि भवद्वयानविमुखां
दुराशाभूयिष्ठां विधिलिपिमशक्तो यदि भवान् ।
शिरस्तद्वैधात्रं ननु खलु सुवृत्तं पशुपते
कथं वा निर्यत्नं करनरमुखेनैव लुलितम् ॥१५॥