शिवानन्दलहरी - श्लोक ३६ ते ४०

शिवानंदलहरी में भक्ति -तत्व की विवेचना , भक्त के लक्षण , उसकी अभिलाषायें और भक्तिमार्ग की कठिनाईयोंका अनुपम वर्णन है । `शिवानंदलहरी ' श्रीआदिशंकराचार्य की रचना है ।


३६

भक्तो भक्तिगुणावृते मुदमृतापूर्णे प्रसन्ने म नः -

कुम्भे साम्ब तवाडि‍ .घ्रपल्लवयुगं संस्थाप्य संवित्फलम् ।

सत्त्वं मन्त्रमुदीरयत्रिजशरीरागारशुद्विं वहन्

पुण्याहं प्रकटीकरोमि रुचिरं कल्याणमापादयन् ॥३६॥

 

३७

आम्नायांबुधिमादरेण सुम नः सं घाः समुद्यन्मनो

मन्थानं दृढभक्तिरज्जुसहितं कृत्वा मथित्वा त तः ।

सोमं कल्पतरुं सुपर्वसुरभिं चिन्तामणिं धीमतां

नित्यानन्दसुधां निरंतररमासौभाग्यमातन्वते ॥३७॥

 

३८

प्राक्पुण्याचलमार्गदर्शितसुधाम र्तिः प्रस न्नःशि वः

सो मःसद्गगुणसेवितो मृगध रःपूर्णस्तमोमोच कः ।

चे तःपुष्करलक्षितो भवति चेदानन्दपाथोनि धिः

प्रागल्भ्येन विजृम्भते सुमनसां वृत्तिस्तदा जायते ॥३८॥

 

३९

धर्मो मे चतुरड्‍ .ध्रि कः सुचरि तःपापं विनाशं गतं

कामक्रोधमदादयो विगलि ताः का लाः सुखाविप्कृ तः ।

ज्ञानानन्दमहौष धिः सुफलिता कैवल्यनाथे सदा

मान्ये मानसपुण्डरीकनगरे राजावतंसे स्थिते ॥३९॥

 

४०

धीयन्त्रेण वचोघटेन कविताकुल्योपकुल्याक्रमै

रानीतैश्व्च सदाशिवस्य चरितांभोराशिदिव्यामृतैः ।

ह्रत्केदारयुताश्च भक्तिकल माः साफल्यमातन्वते

दुर्भिक्षान्मम सेवकस्य भगवन् विश्वेश भी तिःकु तः ॥४०॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP