संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
गणपतिपरिवारं चारुकेयूरहार...

गणेशाष्टकम् - गणपतिपरिवारं चारुकेयूरहार...


देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.

गणपतिपरिवारं चारुकेयूरहारं गिरिधरवरसारं योगिनीचक्रचारम् ।
भवभयपरिहारं दुःखदारिद्र्यदूरं गणपतिमभिवन्दे वक्रतुण्डावतारम् ॥१॥
अखिलमलविनाशं पाणिना हस्तपाशं कनकगिरिनिकाशं सूर्यकोटिप्रकाशम‌ ।
भज भवगिरिनाशं मालतीतीरवासं गणपतिमभिवंदे मानसे राजहंसम् ॥२॥
विविधमणिमयूखैः शोभमानं विदूरैः कनकरचितचित्रं कण्ठदेशे विचित्रम् ।
दधति विमलहारं सर्वदा यत्नसारं गणपतिमभिवन्दे वक्रतुण्डावतारम् ॥३॥
दुरितगजममन्दं वारुणीं चैव वेदं विदितमखिलनादं नृत्यमानन्दकन्दम् ।
दधति शशिसुवक्त्रं चांकुशं यो विशेष गणपतिमभिवन्दे सर्वदानन्दकन्दम् ॥४॥
त्रिनयनयुतभाले शोभमाने विशाले मुकुटमणिसुढाले मौक्तिकानां च जाले ।
धवलकुसुममाले यस्य शीर्ष्णः सताले गणपतिमभिवन्दे सर्वदा चक्रपाणिम् ॥५॥
वपुषि महति रूपं पीठमादौ सुदीपं तदुपरि रसकोणं यस्य चोर्ध्वं त्रिकोणम् ।
गजमितदलपद्मं संस्थितं चारुछद्मं गणपतिमभिवन्दे कल्पवृक्षस्य वृन्दे ॥६॥
वरदविशदशस्तं दक्षिणं यस्य हस्तं सदयमभयदं तं चिन्तये चितसंस्थम् ।
शबलकुटिलशुण्डं चैकतुण्डं द्वितुण्डं गणपतिमभिवन्दे सर्वदा वक्रतुण्डम् ॥७॥
कल्पद्रुमाधःस्थितकामधेनुं चिन्तामणिं दक्षिणपाणिशुण्डम् ।
बिभ्राणमत्यद्भुतचित्ररूपं यः पूजयेत्तस्य समस्तसिद्धीः ॥८॥
व्यासाष्टकमिदं पुण्यं गणेशस्तवनं नृणाम् ।
पठतां दुःखनाशाय विद्यां सश्रियमश्नुते ॥९॥

N/A

References : N/A
Last Updated : July 21, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP