संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
मातर्ज्जगद्रचननाटकसूत्रधा...

वाराह्यनुग्रहाष्टकम् - मातर्ज्जगद्रचननाटकसूत्रधा...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


मातर्ज्जगद्रचननाटकसूत्रधारः
सद्रूपमाकलयितुं परमार्थतो यम् ।
ईशोप्यनीश्वरपदं समुपैति तादृक्
कोऽन्यः स्तवं किमिव तावकमादधातु ॥१॥
नामानि किन्तु गृणतस्तवलोकतुण्डे
नाडंबरं स्पृशति दण्डधरस्य दण्डः ।
तल्लेशलङ्घितभवांबुनिधी यतोऽयं
त्वन्नामसंस्मृतिरियं न पुनः स्तुतिस्ते ॥२॥
त्वच्चिन्तनादरसमुल्लसदप्रमेया-
नन्दोदयात् समुदितस्फुटरोमहर्षः ।
मातर्नमामि सुदिनानि सदेत्यमुं त्वा-
मभ्यर्थयेर्थमिति पूरयताद्दयालो ॥३॥
इन्द्रेन्दुमौलिविधिकेशवमौलिरत्न-
रोचिश्चयोज्ज्वलितपादसरोजयुग्मे ।
चेतोनतौ मम सदा प्रतिबिंबिता त्वं
भूयो भवानि भवनाशिनि भावये त्वां ॥४॥
लीलोद्धृतक्षितितलस्य वराहमूर्ते-
र्वाराहमूर्तिरखिलार्थकरी त्वमेव ।
प्रालेयरश्मिसुकलोल्लसितावतंसा
त्वं देवि वामतनुभागहरा हरस्य ॥५॥
त्वामंब तप्तकनकोज्ज्वलकान्तिमन्त-
र्ये चिन्तयन्ति युवतीतनुमं गलान्तां ।
चक्रायुधां त्रिनयनां वरपोत्रिवक्त्रां
तेषां पदांबुजयुगं प्रणमन्ति देवाः ॥६॥
त्वत्सेवनस्खलितपापचयस्य मात-
र्मोक्षोऽपि यस्य न सतो गणनामुपैति ।
देवासुरोरगनृपूजितपादपीठ:
कस्याः श्रियः स खलु भाजनतां न धत्ते ॥७॥
किं दुष्करं त्वयि मनोविषयं गतायां
किं दुर्लभं त्वयि विधानुवदर्चितायाम् ।
किं दुर्भरं त्वयि सकृत्स्मृतिमागतायां
किं दुर्ज्जयं त्वयि कृतस्तुतिवादपुंसाम् ॥८॥

N/A

References : N/A
Last Updated : February 13, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP