संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
नमोऽस्तु ते सरस्वति त्रिश...

भगवत्यष्टकम् - नमोऽस्तु ते सरस्वति त्रिश...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


नमोऽस्तु ते सरस्वति त्रिशूल- चक्र- धारिणि सिताम्बरावृते शुभे मृगेन्द्रपीठसंस्थिते ।
सुवर्णबन्धुराधरे सुझल्लरीशिरोरुहे सुवर्णपद्मभूषिते नमोऽस्तु ते महेश्वरि ॥ १ ॥
पितामहादिभिर्नुते स्वकान्तिलुप्तचन्द्रभे सरत्नमालयावृते भवाब्धिकष्टहारिणि ।
तमालहस्तमण्डिते तमाल- भाल- शोभिते गिरामगोचरे इले नमोऽस्तु ते महेश्वरि ॥ २ ॥
स्वभक्तवत्सलेऽनघे सदापवर्गभोगदे दरिद्र- दुखहारिणि त्रिलोकशंकरीश्वरि ।
भवानि भीम अम्बिके प्रचण्डतेज- उज्ज्वले भुजाकलापमण्डिते नमोऽस्तु ते महेश्वरि ॥ ३ ॥
प्रपन्नभीतिनाशिके प्रसूनमाल्यकन्धरे धियस्तमोनिवारिके विशुद्धबुद्धिकारिके ।
सुरार्चिताऽङ्घ्रिपंकजे प्रचण्डविक्रमेऽक्षरे विशालपद्मलोचने नमोऽस्तु ते महेश्वरि ॥ ४ ॥
हतस्त्वया स दैत्यधूम्रलोचनो यदा रणे तदा प्रसूनवृष्टयस्त्रिविष्टपे सुरैः कृताः ।
निरीक्ष्य तत्र ते प्रभामलज्जत प्रभाकर- स्त्वयि दयाकरे ध्रुवे नमोऽस्तु ते महेश्वरि ॥ ५ ॥
ननाद केसरी यदा चचाल मेदिनी तदा जगाम दैत्यनायकः स्वसेनया द्रुतं भिया ।
सकोप- कम्पदच्छदे सचण्ड- मुण्डघातिके मृगेन्द्रनादनादिते नमोऽस्तु ते महेश्वरि ॥ ६ ॥
कुचन्दनार्चितालके सितोष्णवारणाधरे सवर्करानने वरे निशुम्भ- शुम्भ- मर्दिके ।
प्रसीद चण्डिके अजे समस्त- दोषघातिके शुभामतिप्रदेऽचले नमोऽस्तु ते महेश्वरि ॥ ७ ॥
त्वमेव विश्वधारिणी त्वमेव विश्वकारिणी त्वमेव सर्वहारिणी न गम्यसेऽजितात्मभिः ।
दिवौकसां हिते रता करोषि दैत्यनाशन शताक्षि रक्तदन्तिके नमोऽस्तु ते महेश्वरि ॥ ८ ॥
पठन्ति ये समाहिता इमं स्तवं सदा नराः अनन्यभक्तिसंयुताः अहर्मुखेऽनुवासरम् ।
भवन्ति ते तु पण्डिताः सुपुत्रधान्य- संयुताः कलत्रभूतिसंयुता व्रजन्ति चाऽमृतं सुखम् ॥ ९ ॥
इति श्रीमद्मरदासविरचितं भगवत्यष्टकं समाप्तम्

N/A

References : N/A
Last Updated : July 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP