संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
यतोऽनंतशक्तेरनंताश्च जीवा...

श्रीगणेशाष्टकम् - यतोऽनंतशक्तेरनंताश्च जीवा...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


यतोऽनंतशक्तेरनंताश्च जीवाः यतो निर्गुणादप्रमेया गुणास्ते ।
यतो भाति सर्वं त्रिधाभेदभिन्नं सदा तं गणेशं नमामो भजामः ॥१॥

यतश्चाविरासीज्जगत्सर्वमेतत् तथाब्जासनो विश्वगो विश्वगोप्ता ।
तथेन्द्रादयो देवसंघा मनुष्याः सदा तं गणेशं नमामो भजामः ॥२॥

यतो वह्निभानूभवोभूर्जलं च यतस्सागराश्चन्द्रमा व्योमवायुः ।
यतः स्थावरा जंगमा वृक्षसंघाः सदा तं गणेशं नमामो भजामः ॥३॥

यतो दानवाः किन्नरा यक्षसंघाः यतश्चारणा वारणाः श्वापदाश्च ।
यतः पक्षिकीटाः यतो वीरुधश्च सदा तं गणेशं नमामो भजामः ॥४॥

यतो बुद्धिरज्ञाननाशो मुमुक्षो: यतस्संपदो भक्तसंतोषिकाः स्युः ।
यतो विघ्ननाशो यतः कार्यसिद्धिः सदा तं गणेशं नमामो भजामः ॥५॥

यतो पुत्रसंपद्यतो वांछितार्थो यतोऽभक्तविघ्नास्तथानेकरूपाः ।
यतः शोकमोहौ यतः काम एवं सदा तं गणेशं नमामो भजामः ॥६॥

यतोऽनंतशक्तिः स शेषो बभूव धराधारणेऽनेकरूपे च शक्तः ।
यतोऽनेकधा स्वर्गलोकाहि नानाः सदा तं गणेशं नमामो भजामः ॥७॥

यतो वेदवाचो विकुण्ठा मनोभिः सदा नेति नेतीति यत्ता गृणन्ति ।
परब्रह्मरूपं चिदानन्दभूतं सदा तं गणेशं नमामो भजामः ॥८॥

पुनरूचे गणाधीशः स्तोत्रमेतत्पठेन्नरः ।
त्रिसन्ध्यं त्रिदिनं तस्य सर्वं कार्यं भविष्यति ॥९॥

यो जपेदष्टदिवसं श्लोकाष्टकमिदं शुभम् ।
अष्टवारं चतुर्थ्यां तु सोऽष्टसिद्धीरवाप्नुयात् ॥१०॥

यः पठेन्मासमात्रन्तु दशवारं दिने दिने ।
स मोचयेद्बंधगतं राजवध्यं न संशयः ॥११॥

विद्याकामो लभेद्विद्यां पुत्रार्थी पुत्रमाप्नुयात् ।
वांछितांल्लभते सर्वानेकविंशतिवारतः ॥१२॥

यो जपेत्परयाभक्त्या गजाननपरोनरः ।
एवमुक्त्वा ततो देवश्चान्तर्धानं गतो प्रभुः ॥१३॥

N/A

References : N/A
Last Updated : December 31, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP