संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
शरीरं सुरूपं तथा वा कलत्र...

गुर्वष्टकम् - शरीरं सुरूपं तथा वा कलत्र...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


शरीरं सुरूपं तथा वा कलत्रं
यशश्चारुचित्रं धनं मेरुतुल्यम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततःकिं? ततःकिं? ततःकिं? ततःकिं? ॥१॥
कलत्रं धनं पुत्रपौत्रादि सर्वम्
गृहं बान्धवाः सर्वमेतद्धि जातम् ।
गुरोरंघ्रिपद्मे मनश्चेन्न लग्नं’
ततःकिं? ततःकिं? ततःकिं? ततःकिं? ॥२॥
षडंगादिवेदो मुखे शास्त्रविद्या
कवित्वादिगद्यं सुपद्यं करोति ।
गुरोरंघ्रिपद्मे … … … … … ॥३॥
विदेशेषु मान्यः स्वदेशेषु धन्यः
सदाचारवृत्तेषु मत्तो न चान्यः ।
गुरोरंघ्रिपद्मे … … … … … ॥४॥
क्षमामण्डले भूपभूपालवृन्दैः
सदा सेवितं यस्य पादारविन्दम् ।
गुरोरंघ्रिपद्मे … … … … … ॥५॥
यशो मे गतं दिक्षु दानप्रतापा-
ज्जगद्वस्तु सर्वं करे यत्प्रसादात् ।
गुरोरंघ्रिपद्मे … … … … … ॥६॥
न भोगे न योगे न वा वाजिराजौ
न कान्तामुखे नैव वित्तेषु चित्तम् ।
गुरोरंघ्रिपद्मे … … … … … ॥७॥
अरण्ये न वा स्वस्य गेहे न कार्ये
न देहे मनो वर्तते मे त्वनर्घ्ये ।
गुरोरंघ्रिपद्मे … … … … … ॥८॥
अनर्घ्याणि रत्नानि मुक्तानि सम्यक्
समालिंगिता कामिनी यामिनीषु ।
गुरोरंघ्रिपद्मे … … … … … ॥९॥
गुरोरष्टकं यः पठेत् पुण्यदेही
यतिर्भूपतिर्ब्रह्मचारी च गेही ।
लभेद्वाञ्छितार्थं पदं ब्रह्मसंज्ञं
गुरावुक्तवाक्ये मनो यस्य लग्नम् ॥१०॥

N/A

References : N/A
Last Updated : December 31, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP