संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
शिवं शान्तं शुद्धं प्रकटम...

महादेवाष्टकम् - शिवं शान्तं शुद्धं प्रकटम...


देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.

शिवं शान्तं शुद्धं प्रकटमकलङ्कं श्रुतिनुतं महेशानं शम्भुं सकलसुरसंसेव्यचरणम् ॥
गिरीशं गौरीशं भवभयहरं निष्कलमजं महादेव वन्दे प्रणतजनतापोपशमनम् ॥१॥
सदा सेव्यं भक्तैर्ह्रदि ह्रदि वसन्तं गिरिशयमुमाकान्तं क्षान्तं करधृतपिनाकं भ्रमहरम् ॥
त्रिनेत्रं पञ्चास्य दशभुजमनन्तं शशिधरं महादेवं वन्दे० ॥२॥
चित्ताभस्मालिप्तं भुजंगमुकुटं विश्वसुखदं धनाध्यक्षस्याङ्गं त्रिपुरवधकर्तारमनघम् ॥
करोटीखट्‌वांगे ह्यरसि च दधानं मृतिहरं महादे० ॥३॥
सदोत्साहं गंगाधरमचलमानन्दकरणं पुरारातिं भातं रतिपतिहरं दीप्तवदनम् ॥
जटाजूटैर्जुष्टं रसमुखगणेशानपितरं महादे० ॥४॥
वसन्त कैलासे सुरमुनिसभायां हि नितरां ब्रुवाणं सद्धर्म निखिलमनुजानन्दजनकम् ॥
महेशानी साक्षात्सनकमुनिदेवार्षिसहिता महादेव० ॥५॥
शिवां स्वेवामांगे गुहगणपतिं दक्षिणभुजे गले कालं व्यालं जलधिगरलं कण्ठविवरे ॥
ललाटे श्वेतेन्दु जगदपि दधानं च जठरे महादे० ॥६॥
सुराणां दैत्यानां बहुलमनुजानां बहुविधं तपः कुर्वाणानां झटिति फलदातारमखिलम् ॥
सुरेशं विद्येशं जलनिधिसुताकान्तह्रदयं महादे० ॥७॥
वसानं वैयाघ्री मृदुलललितां कृत्तिमजरां वृषारूढं सृष्ट्यादिषु कमलजाद्यात्मकपुषम् ॥
अतर्क्य निर्मायं तदपि फलदं भक्तसुखदं महादे० ॥८॥
इदं स्तोत्रं शम्भोर्दुरितदलनं धान्यधनदं ह्रदि ध्यात्वा शम्भुं तदनु रघुनाथेन रचितम् ॥
नरः सायं प्रातः पठति नियतं तस्य विपदः क्षयं यान्ति स्वर्ग व्रजति सहसा सोऽपि मुदितः ॥९॥
इति श्रीपण्डितरघुनाथशर्मणा विरचितं महादेवाष्टकं समाप्तम् ।

N/A

References : N/A
Last Updated : July 21, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP