संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
कोणोऽन्तको रौद्रयमोऽथ बभ्...

श्री शनैश्चराष्टकम् - कोणोऽन्तको रौद्रयमोऽथ बभ्...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


कोणोऽन्तको रौद्रयमोऽथ बभ्रुः
कृष्णः शनिः पिङ्गलमन्दसौरिः ।
नित्यं स्मृतो यो हरते च पीडां
तस्मै नमः श्रीरविनन्दनाय ॥१॥
सुरासुराः किंपुरुषोरगेन्द्राः
गन्धर्व विद्याधरपन्नगाश्च
पीड्यन्ति सर्वे विषमस्थितेन
तस्मै नमः श्रीरविनन्दनाय ॥२॥
नरा नरेन्द्राः पशवो मृगेन्द्राः
वन्याश्च ये कीटपतङ्गभृङ्गाः ।
पीड्यन्ति सर्वे विषमस्थितेन
तस्मै नमः श्रीरविनन्दनाय ॥३॥
देशाश्च दुर्गाणि वनानि यत्र
सेनानिवेशाः पुरपत्तनानि ।
पीड्यन्ति सर्वे विषमस्थितेन
तस्मै नमः श्रीरविनन्दनाय ॥४॥
तिलैर्यवैर्माषगुडान्नदानैः
लोहेन नीलांबरदानतो वा ।
प्रीणाति मन्त्रैर्निजवासरे च
तस्मै नमः श्रीरविनन्दनाय ॥५॥
श् प्रयागकूले यमुनातटे च
सरस्वतीपुण्यजले गुहायां
यो योगिनां ध्यानगतोऽपि सूक्ष्मः
तस्मै नमः श्रीरविनन्दनाय ॥६
अन्यप्रदेशात् स्वगृहं प्रविष्टः
तदीयवारे स नरः सुखी स्यात् ।
गृहाद्गतो यो न पुनः प्रयाति
तस्मै नमः श्रीरविनन्दनाय ॥७॥
स्रष्टा स्वयंभूर्भुवनत्रयस्य
त्राता हरीशो हरते पिनाकी
एकस्त्रिधा ऋग्यजुस्सममूर्तिः
तस्मै नमः श्रीरविनन्दनाय ॥८॥
शन्यष्टकं यः प्रयतः प्रभाते
नित्यं सुपुत्रैः पशुबान्धवैश्च ।
पठेत् तु सौख्यं भुवि भोगयुक्तः
प्राप्नोति निर्वाणपदं तदन्ते ॥९॥
कोणस्थः पिङ्गलो बभ्रुः कृष्णो रौद्रोऽन्तको यमः
सौरिः शनैश्चरो मन्दः पिप्पलादेन संस्तुतः ।
एतानि दश नामानि प्रातरुत्थाय यः पठेत्
शनैश्चरकृता पीडा न कदाचिद् भविष्यति ॥१०॥

N/A

References : N/A
Last Updated : December 31, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP