संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
गणपति- परिवारं चारुकेयूरह...

गणेशाष्टकम् - गणपति- परिवारं चारुकेयूरह...

देवी देवतांची अष्टके, आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


गणपति- परिवारं चारुकेयूरहारं गिरिधरवरसारं योगिनीचक्रचारम् । भव- भय- परिहारं दुःख- दारिद्रय- दूरं गणपतिमभिवन्दे वक्रतुण्डावतारम् ॥१॥
अखिलमलविनाशं पाणिना ध्वस्तपाशं var हस्तपाशं कनकगिरिनिकाशं सूर्यकोटिप्रकाशम् । भवभवगिरिनाशं मालतीतीरवासं गणपतिमभिवन्दे मानसे राजहंसम् ॥२॥
विविध- मणि- मयूखैः शोभमानं विदूरैः कनक- रचित- चित्रं कण्ठदेशेविचित्रं । दधति विमलहारं सर्वदा यत्नसारं गणपतिमभिवन्दे वक्रतुण्डावतारम् ॥३॥
दुरितगजममन्दं वारणीं चैव वेदं विदितमखिलनादं नृत्यमानन्दकन्दम् । दधति शशिसुवक्त्रं चाऽङ्कुशं यो विशेषं गणपतिमभिवन्दे सर्वदाऽऽनन्दकन्दम् ॥४॥
त्रिनयनयुतभाले शोभमाने विशाले मुकुट- मणि- सुढाले मौक्तिकानां च जाले । धवलकुसुममाले यस्य शीर्ष्णः सताले गणपतिमभिवन्दे सर्वदा चक्रपाणिम् ॥५॥
वपुषि महति रूपं पीठमादौ सुदीपं तदुपरि रसकोणं यस्य चोर्ध्वं त्रिकोणम् । गजमितदलपद्मं संस्थितं चारुछद्मं गणपतिमभिवन्दे कल्पवृक्षस्य वृन्दे ॥६॥
वरदविशदशस्तं दक्षिणं यस्य हस्तं सदयमभयदं तं चिन्तये चित्तसंस्थम् । शबलकुटिलशुण्डं चैकतुण्डं द्वितुण्डं गणपतिमभिवन्दे सर्वदा वक्रतुण्डम् ॥७॥
कल्पद्रुमाधःस्थित- कामधेनुं चिन्तामणिं दक्षिणपाणिशुण्डम् । बिभ्राणमत्यद्भुतचित्तरूपं यः पूजयेत् तस्य समस्तसिद्धिः ॥८॥
व्यासाऽष्टकमिदं पुण्यं गणेशस्तवनं नृणाम् । पठतां दुःखनाशाय विद्यां संश्रियमश्नुते ॥९॥
॥इति श्रीपद्मपुराणे उत्तरखण्डे व्यासविरचितं गणेशाष्टकं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP