मराठी मुख्य सूची|स्तोत्रे|सहस्रनामावली| ॐ अमिताभाषिणे नमः । ॐ अघह... सहस्रनामावली ब्रह्मानन्दं परमसुखदं केव... अथ मूलम् । ॐ श्रीं ह्रीं ... ॐ श्रीगणेशाय नमः । श्वेता... श्रीअरुणाचलेश्वरसहस्रनामावली अर्धनारीश्वरसहस्रनामावलिः ॐ हिरण्यबाहवे हिरण्यवर्णा... श्रीहनुमत्सहस्रनामावलिः ॐ श्रीगणेशाय नमः । ॐ ब्र... ॐ इन्द्राय नमः । देवतमाय ... ॐ श्रीगणेशाय नमः । ॐ नमोद... ॐ अस्य श्रीसर्वसाम्राज्यम... ध्यानम् । कान्त्या काञ्चन... ॐ श्रीगणेशाय नमः । ॐ नका... ॐ अस्य कामकलाकालीसहस्रनाम... श्री गणेशाय नमः । श्रीकाम... कालोऽहम् । अस्य श्रीकालना... शिव उवाच- नाम्नां सहस्रं ... ॐ श्मशानकालिकायै नमः । ॐ ... अथ कुञ्चितपादसहस्रनामावलि... धनं दारान्सुतान्क्षेत्रं ... षड्वक्त्रं शिखिवाहनं त्रि... ॐ कृष्णाय नमः । श्रीवल्लभ... ॐ अस्य श्रीपुराणपुरुषोत्त... श्रीगणेशाय नमः । श्रीकेदा... सितमकरनिषण्णां शुभ्रवर्णा... श्रीगणेशाय नमः । श्रीसमर्... ॐ अस्य श्रीगणपतिगकारादिसह... ॐ सुमुखाय नमः । सुवहाय । ... ध्यानम् रक्तश्वेतहिरण्यनी... ध्यानम् - रक्तश्वेतहिरण्य... ॐ शं शां षं ह्रीं क्लीं ग... अथ ध्यानम् । सूर्यस्पर्धि... ॐ श्री गुरुभ्यो नमः । गुर... ॐ श्रीगणेशाय नमः । सर्वत्... अथ श्रीगोपालदिव्यसहस्रनाम... ॐ गवे नमः । ॐ गौविन्द्यै ... श्रीगुरुभ्यो नमः । श्रीका... ॐ अस्य श्रीप्रचण्डचण्डिका... अथ श्रीयोगेश्वरकवि द्वारा... अस्य श्रीज्वालामुखीसहस्रन... विश्वव्यापकवारिमध्यविलसच्... ॐ अस्य श्रीतारासहस्रनामस्... ॐ भुवनेश्यै नमः । ॐ भुवार... ॐ अस्य श्रीमहोग्रतारा दिव... वरिष्ठ उवाच - कथं नामसहस्... ॐ तुलस्यै नमः । ॐ श्रीप्र... ॐ श्रीमत्त्यागमहाराजाय नम... श्रीगणपतये नमः । ॐ अनेजते... ध्यानम् । उद्यद्भानुसहस्र... ॐ योगेशाय नमः । ॐ अमरप्रभ... महाकालभैरव ऋषिस्त्रिष्टुप... अस्य श्रीदक्षिणामूर्तिसहस... ॐ आदिदेवाय नमः । दयासिन्ध... ध्यानम् । स्फटिकरजतवर्णां... ऋषिच्छन्दांसि - अस्य श्री... तन्त्रराजतन्त्रे पूर्वपीठ... ध्यानम् । १. सिंहस्था शशि... महामन्त्रस्य श्रीमहेश्वर ... ध्यानम् - रक्ताभां रक्तवस... ॐ श्रीमते नमः । ॐ धन्वन्त... ॐ नमो भगवते भूतनाथाय । ॐ ... ध्यानम् । विवर्णा चञ्चला ... अस्य श्री शिवकामसुन्दरीसम... ॐ अस्य श्रीनटेशसहस्रनामस्... ॐ श्री गणेशाय नमः । अस्य ... श्री गुरुभ्यो नमः । ॐ श्र... श्री गुरुभ्यो नमः । ॐ श्र... ॥ ध्यानम् ॥ श्रीमित्रेश्... श्रीराधासर्वेश्वरो विजयते... पद्मावतीशतम् ॐ श्री पद्मा... ॐ श्रीगणेशाय नमः । ॐ अस्य... अथ विनियोगः । ॐ अस्य श्री... अथ अकारादि-क्षकारान्तासहस... ॐ शिवायै नमः । उमायै । पर... ॐ श्रीकृष्णाय नमः । सच्चि... अस्य श्रीप्रणवसहस्रनामस्त... ईश्वर उवाच । शृणु देवि प... ॐ ब्रह्मास्त्राय नमः । ॐ ... श्रीमहादेव उवाच - अस्य श्... विनियोगः - ॐ अस्य श्रीबटु... रुद्रयामलोक्तबटुकभैरवसहस्... ॐ अस्य श्रीबलभद्रसहस्रनाम... ॐ ऐं ह्रीं श्रीं-आनन्दसिन... शौनक उवाच - कैलासशिखरे रम... श्रीदेव्युवाच - भगवन्भाषि... ओं ऐं ह्रीं श्रीङ्कल्याण्... ॐ परमात्मने नमः ॐ धर्मक्... ॐ निस्सीमोद्यद्गुणाय नमः ... ॐ क्रकुच्छन्दाय नमः । ॐ क... ध्यानम् - बालार्कमण्डलाभा... विनोयोगः - ॐ अस्य श्रीभुव... प्रणवाय ब्रह्मणे उद्गीथाय... विनियोगः । ॐ अस्य श्रीमहा... श्रीः । ॐ नमश्चण्डिकायै ।... ॐ ह्रीं श्रीं क्लीं गणाध्... ॐ महामार्यै नमः । महामाया... पार्वत्युवाच - भगवन् वेदत... श्रीगणेशाय नमः । श्रीमहाल... ॐ ह्रीं ऐं ह्रीं महावाण्य... ध्यानम् श्रीमच्चन्दनचर्चि... ॐ अद्भुताय नमः । अद्भुतचा... ॐ सुमुख्यै नमः । ॐ शेमुष्... ॐ अम्बायै नमः । ॐ अम्बालि... ॐ अस्यश्री मूकाम्बिकायाः ... श्रीभैरव उवाच । अस्य श्री... अस्य श्री मेधादक्षिणामूर्... ॐ नमो भगवते दक्षिणामूर्तय... गर्गसंहितातः ॐ कालिन्द्य... अस्य श्रीयोगेश्वरीसहस्रना... ॐ योगिन्यै नमः । योगमायाय... देव्युवाच - भगवन्सर्वशास्... सोन्दूर श्रीकृष्ण अवधूतवि... वन्दे वृन्दावनानन्दा राधि... ॐ श्रीराधायै नमः । राधिका... ॐ श्रीराधायै नमः । राधिका... ॐ अस्य श्रीरामसहस्रनाममाल... ॐ आर्यश्रेष्ठाय नमः । धरा... सङ्कल्पः - यजमानः, आचम्य,... ॐ नमो भगवते वासुदेवाय । ॐ... ॐ स्थिराय नमः । स्थाणवे ।... न्यासः । अस्य श्रीरुद्रसह... अथ श्रीरेणुकातन्त्रान्तर्... सिन्दूरारुणविग्रहां त्रिन... ॐ श्रियै नमः । वासुदेवमहि... ॐ नित्यागतायै नमः । ॐ अनन... ॐ श्रीवराहाय नमः । भूवराह... ॐ वल्ल्यै नमः । ॐ वल्लीश्... ॐ श्रीवाग्मत्याः सहस्रनाम... ॐ श्रीगणेशाय नमः । श्रीनन... वराहमुख्यै विद्महे । दण्ड... ध्यानम् - ओङ्कारबीजाक्षरी... शुक्लाम्बरधरं विष्णुं शशि... ॐ क्लीं विट्टलाय नमः । पा... पूर्वन्यासः । श्रीवेदव्या... श्रीविष्णुसहस्रनामावलिः प... रुद्र उवाच । संसारसागराद... ॐ श्रीगणेशाय नमः । ॐ विष... श्रीशिवाय गुरवे श्रीवीरभ... वेङ्कटेशस्य नाम्नां हि सह... ॐ श्री गुरुभ्यो नमः । अथ ... ॐ शङ्कराय नमः । ॐ श्रीधरा... ॐ गाढध्वान्तनिमज्जनप्रमुष... ॐ अमिताभाषिणे नमः । ॐ अघह... ॐ श्रीगणेशाय नमः । ॐ श्री... विनियोगः - अस्य श्रीशारिक... अस्य श्रीशास्तृशवर्णसहस्र... ॐ अस्य श्री शिवकामसुन्दरी... अस्य श्रीशिवकामसुन्दरीसहस... ॐ अखिलेश्वर्यै नमः । अग्न... ॐ स्थिराय नमः । ॐ स्थाणवे... ॐ श्री गणेशाय नमः । अथ श्... ॐ ओङ्कारकण्ठनिलयाय नमः । ... ॐ ॐकारनिलयात्मस्थाय नमः ।... श्री विष्णुरुवाच ॐ भवाय ... अस्य श्रीशिवसहस्रनामस्तोत... ॐ सौभाग्यलक्ष्म्यै नमः । ... ॐ राधिकेशाय नमः । ॐ जगन्न... सद्गुरु श्रीधरस्वामिनाप्र... ईशानमुखपूजा- ॐ जगद्भुवे न... ॐ वचनभुवे नमः । पराय । शङ... ॐ रुद्रभुवनाय नमः । अनन्त... ॐ ब्रह्मभुवे नमः । भवाय ।... अघोर मुखपूजा । ॐ विश्वभुव... ॐ अचिन्त्य शक्तये नमः । अ... जपसाधना ॐ अस्य श्रीमहात्र... ॐ सङ्कटायै नमः । ॐ विजयाय... ॐ सङ्गीतालय-प्रतिष्ठित-भग... ॐ सीतायै नमः । उमायै । पर... ॐ श्रीचक्राय नमः । ॐ श्री... ॐ शुक्लाम्बरधरं विष्णुं श... ॐ श्री गणेशाय नमः । अस्य ... ॐ अस्य श्रीसुब्रह्मण्यसहस... बिल्वैर्वा चम्पकाद्यौर्वा... ध्यानम् - ध्येयः सदा सवित... श्रीरुद्रयामले तन्त्रे श्... श्रीसूर्यसहस्रनामावलिः ॐ सुब्रह्मण्याय । सुरेशान... ॐ नमः । ओङ्कारनमोरूपाय । ... ॐ श्रीहयग्रीवाय नमः । श्र... स्वामिनारायणं कृष्णं भक्त... १. ॐ स्थिराय नमः । २. ॐ ... ॥ श्रीदुर्गादैव्ये नम: ॥ ... १. ॐ राजीवलोचनाय नमः । ... १ ॐ अचिन्त्यलक्षणायै नमः ... १ ॐ कालिन्द्यै नमः । २ ॐ... १ ॐ अन्नपूर्णायै नमः । ... १. ॐ नारसिंहाय नमः । २. ... १ ॐ देवकीनन्दनाय नमः । २... १ ॐ क्लीं देवाय नमः । २ ... १ ॐ श्रियै नमः । २ ॐ पद्... १ ॐ हनुमते नमः । २ ॐ श्र... ॥ श्रीकृष्णाय नमः ॥ १. ॐ ... १. ॐ विश्वविदे नम: । २. ... १. ॐ गणेश्वराय नम: । २.... १. ॐ ऐं ह्रीं श्रीं श्रीम... १ ॐ सीतायै नमः । २ ॐ उमा... १ ॐ ओंकाररूपिण्यै नमः । ... १. ॐ विश्वस्मै नमः । २.ॐ... १. ॐ श्रीराधायै नमः । २.... ॐ गणपतये नमः ॥ ॥ ॐ गणेश्व... श्रीशनैश्चरसहस्रनामावळिः - ॐ अमिताभाषिणे नमः । ॐ अघह... हिंदू देवी देवतांची एक हजार नावे म्हणजेच सहस्त्रनामावली. हिंदू धर्मिय रोज सकाळी संध्याकाळी या नावांचा जप करतात.A sahasranamavali is a type of Hindu scripture in which a diety is referred to by 1000 or more different names.Many devout Hindus chant them every morning or evening. Tags : 1000godgoddesssahasranamavaliसहस्त्रनामावली श्रीशनैश्चरसहस्रनामावळिः Translation - भाषांतर ॐ अमिताभाषिणे नमः ।ॐ अघहराय नमः ।ॐ अशेषदुरितापहाय नमः ।ॐ अघोररूपाय नमः ।ॐ अतिदीर्घकायाय नमः ।ॐ अशेषभयानकाय नमः । ॥१॥ॐ अनन्ताय नमः ।ॐ अन्नदात्रे नमः ।ॐ अश्वत्थमूलजपप्रियाय नमः ।ॐ अतिसम्पत्प्रदाय नमः । १०ॐ अमोघाय नमः ।ॐ अन्यस्तुत्याप्रकोपिताय नमः । ॥२॥ॐ अपराजिताय नमः ।ॐ अद्वितीयाय नमः ।ॐ अतितेजसे नमः ।ॐ अभयप्रदाय नमः ।ॐ अष्टमस्थाय नमः ।ॐ अञ्जननिभाय नमः ।ॐ अखिलात्मने नमः ।ॐ अर्कनन्दनाय नमः । ॥३॥ २०ॐ अतिदारुणाय नमः ।ॐ अक्षोभ्याय नमः ।ॐ अप्सरोभिः प्रपूजिताय नमः ।ॐ अभीष्टफलदाय नमः ।ॐ अरिष्टमथनाय नमः ।ॐ अमरपूजिताय नमः । ॥४॥ॐ अनुग्राह्याय नमः ।ॐ अप्रमेयपराक्रमविभीषणाय नमः ।ॐ असाध्ययोगाय नमः ।ॐ अखिलदोषघ्नाय नमः । ३०ॐ अपराकृताय नमः । ॥५॥ॐ अप्रमेयाय नमः ।ॐ अतिसुखदाय नमः ।ॐ अमराधिपपूजिताय नमः ।ॐ अवलोकात्सर्वनाशाय नमः ।ॐ अश्वत्थामद्विरायुधाय नमः । ॥६॥ॐ अपराधसहिष्णवे नमः ।ॐ अश्वत्थामसुपूजिताय नमः ।ॐ अनन्तपुण्यफलदाय नमः ।ॐ अतृप्ताय नमः । ४०ॐ अतिबलाय नमः । ॥७॥ॐ अवलोकात्सर्ववन्द्याय नमः ।ॐ अक्षीणकरुणानिधये नमः ।ॐ अविद्यामूलनाशाय नमः ।ॐ अक्षय्यफलदायकाय नमः । ॥८॥ॐ आनन्दपरिपूर्णाय नमः ।ॐ आयुष्कारकाय नमः ।ॐ आश्रितेष्टार्थवरदाय नमः ।ॐ आधिव्याधिहराय नमः । ॥९॥ॐ आनन्दमयाय नमः । ५०ॐ आनन्दकराय नमः ।ॐ आयुधधारकाय नमः ।ॐ आत्मचक्राधिकारिणे नमः ।ॐ आत्मस्तुत्यपरायणाय नमः । ॥१०॥ॐ आयुष्कराय नमः ।ॐ आनुपूर्व्याय नमः ।ॐ आत्मायत्तजगत्त्रयाय नमः ।ॐ आत्मनामजपप्रीताय नमः ।ॐ आत्माधिकफलप्रदाय नमः । ॥११॥ॐ आदित्यसंभवाय नमः । ६०ॐ आर्तिभञ्जनाय नमः ।ॐ आत्मरक्षकाय नमः ।ॐ आपद्बान्धवाय नमः ।ॐ आनन्दरूपाय नमः ।ॐ आयुःप्रदाय नमः । ॥१२॥ॐ आकर्णपूर्णचापाय नमः ।ॐ आत्मोद्दिष्टद्विजप्रदाय नमः ।ॐ आनुकूल्याय नमः ।ॐ आत्मरूपप्रतिमादानसुप्रियाय नमः । ॥१३॥ॐ आत्मारामाय नमः । ७०ॐ आदिदेवाय नमः ।ॐ आपन्नार्तिविनाशनाय नमः ।ॐ इन्दिरार्चितपादाय नमः ।ॐ इन्द्रभोगफलप्रदाय नमः । ॥१४॥ॐ इन्द्रदेवस्वरूपाय नमः ।ॐ इष्टेष्टवरदायकाय नमः ।ॐ इष्टापूर्तिप्रदाय नमः ।ॐ इन्दुमतीष्टवरदायकाय नमः । ॥१५॥ॐ इन्दिरारमणप्रीताय नमः ।ॐ इन्द्रवंशनृपार्चिताय नमः । ८०ॐ इहामुत्रेष्टफलदाय नमः ।ॐ इन्दिरारमणार्चिताय नमः । ॥१६॥ॐ ईद्रियाय नमः ।ॐ ईश्वरप्रीताय नमः ।ॐ ईषणात्रयवर्जिताय नमः ।ॐ उमास्वरूपाय नमः ।ॐ उद्बोध्याय नमः ।ॐ उशनाय नमः ।ॐ उत्सवप्रियाय नमः । ॥१७॥ॐ उमादेव्यर्चनप्रीताय नमः । ९०ॐ उच्चस्थोच्चफलप्रदाय नमः ।ॐ उरुप्रकाशाय नमः ।ॐ उच्चस्थयोगदाय नमः ।ॐ उरुपराक्रमाय नमः । ॥१८॥ॐ ऊर्ध्वलोकादिसञ्चारिणे नमः ।ॐ ऊर्ध्वलोकादिनायकाय नमः ।ॐ ऊर्जस्विने नमः ।ॐ ऊनपादाय नमः ।ॐ ऋकाराक्षरपूजिताय नमः । ॥१९॥ॐ ऋषिप्रोक्तपुराणज्ञाय नमः । १००ॐ ऋषिभिः परिपूजिताय नमः ।ॐ ऋग्वेदवन्द्याय नमः ।ॐ ऋग्रूपिणे नमः ।ॐ ऋजुमार्गप्रवर्तकाय नमः । ॥२०॥ॐ लुळितोद्धारकाय नमः ।ॐ लूतभवपाश प्रभञ्जनाय नमः ।ॐ लूकाररूपकाय नमः ।ॐ लब्धधर्ममार्गप्रवर्तकाय नमः । ॥२१॥ॐ एकाधिपत्यसाम्राज्यप्रदाय नमः ।ॐ एनौघनाशनाय नमः । ११०ॐ एकपादे नमः ।ॐ एकस्मै नमः ।ॐ एकोनविंशतिमासभुक्तिदाय नमः । ॥२२॥ॐ एकोनविंशतिवर्षदशाय नमः ।ॐ एणाङ्कपूजिताय नमः ।ॐ ऐश्वर्यफलदाय नमः ।ॐ ऐन्द्राय नमः ।ॐ ऐरावतसुपूजिताय नमः । ॥२३॥ॐ ओंकारजपसुप्रीताय नमः ।ॐ ओंकारपरिपूजिताय नमः । १२०ॐ ओंकारबीजाय नमः ।ॐ औदार्यहस्ताय नमः ।ॐ औन्नत्यदायकाय नमः । ॥२४॥ॐ औदार्यगुणाय नमः ।ॐ औदार्यशीलाय नमः ।ॐ औषधकारकाय नमः ।ॐ करपङ्कजसन्नद्धधनुषे नमः ।ॐ करुणानिधये नमः । ॥२५॥ॐ कालाय नमः ।ॐ कठिनचित्ताय नमः । १३०ॐ कालमेघसमप्रभाय नमः ।ॐ किरीटिने नमः ।ॐ कर्मकृते नमः ।ॐ कारयित्रे नमः ।ॐ कालसहोदराय नमः । ॥२६॥ॐ कालाम्बराय नमः ।ॐ काकवाहाय नमः ।ॐ कर्मठाय नमः ।ॐ काश्यपान्वयाय नमः ।ॐ कालचक्रप्रभेदिने नमः । १४०ॐ कालरूपिणे नमः ।ॐ कारणाय नमः । ॥२७॥ॐ कारिमूर्तये नमः ।ॐ कालभर्त्रे नमः ।ॐ किरीटमकुटोज्ज्वलाय नमः ।ॐ कार्यकारणकालज्ञाय नमः ।ॐ काञ्चनाभरथान्विताय नमः । ॥२८॥ॐ कालदंष्ट्राय नमः ।ॐ क्रोधरूपाय नमः ।ॐ कराळिने नमः । १५०ॐ कृष्णकेतनाय नमः ।ॐ कालात्मने नमः ।ॐ कालकर्त्रे नमः ।ॐ कृतान्ताय नमः ।ॐ कृष्णगोप्रियाय नमः । ॥२९॥ॐ कालाग्निरुद्ररूपाय नमः ।ॐ काश्यपात्मजसम्भवाय नमः ।ॐ कृष्णवर्णहयाय नमः ।ॐ कृष्णगोक्षीरसुप्रियाय नमः । ॥३०॥ॐ कृष्णगोघृतसुप्रीताय नमः । १६०ॐ कृष्णगोदधिषुप्रियाय नमः ।ॐ कृष्णगावैकचित्ताय नमः ।ॐ कृष्णगोदानसुप्रियाय नमः । ॥३१॥ॐ कृष्णगोदत्तहृदयाय नमः ।ॐ कृष्णगोरक्षणप्रियाय नमः ।ॐ कृष्णगोग्रासचित्तस्य सर्वपीडानिवारकाय नमः । ॥३२॥ॐ कृष्णगोदान शान्तस्य सर्वशान्ति फलप्रदाय नमः ।ॐ कृष्णगोस्नान कामस्य गङ्गास्नान फलप्रदाय नमः । ॥३३॥ॐ कृष्णगोरक्षणस्याशु सर्वाभीष्टफलप्रदाय नमः ।ॐ कृष्णगावप्रियाय नमः । १७०ॐ कपिलापशुषुप्रियाय नमः । ॥३४॥ॐ कपिलाक्षीरपानस्य सोमपानफलप्रदाय नमः ।ॐ कपिलादानसुप्रीताय नमः ।ॐ कपिलाज्यहुतप्रियाय नमः । ॥३५॥ॐ कृष्णाय नमः ।ॐ कृत्तिकान्तस्थाय नमः ।ॐ कृष्णगोवत्ससुप्रियाय नमः ।ॐ कृष्णमाल्याम्बरधराय नमः ।ॐ कृष्णवर्णतनूरुहाय नमः । ॥३६॥ॐ कृष्णकेतवे नमः । १८०ॐ कृशकृष्णदेहाय नमः ।ॐ कृष्णाम्बरप्रियाय नमः ।ॐ क्रूरचेष्टाय नमः ।ॐ क्रूरभावाय नमः ।ॐ क्रूरदंष्ट्राय नमः ।ॐ कुरूपिणे नमः । ॥३७॥ॐ कमलापति संसेव्याय नमः ।ॐ कमलोद्भवपूजिताय नमः ।ॐ कामितार्थप्रदाय नमः ।ॐ कामधेनु पूजनसुप्रियाय नमः । ॥३८॥ १९०ॐ कामधेनुसमाराध्याय नमः ।ॐ कृपायुषविवर्धनाय नमः ।ॐ कामधेन्वैकचित्ताय नमः ।ॐ कृपराज सुपूजिताय नमः । ॥३९॥ॐ कामदोग्ध्रे नमः ।ॐ क्रुद्धाय नमः ।ॐ कुरुवंशसुपूजिताय नमः ।ॐ कृष्णाङ्गमहिषीदोग्ध्रे नमः ।ॐ कृष्णेन कृतपूजनाय नमः । ॥४०॥ॐ कृष्णाङ्गमहिषीदानप्रियाय नमः । २००ॐ कोणस्थाय नमः ।ॐ कृष्णाङ्गमहिषीदानलोलुपाय नमः ।ॐ कामपूजिताय नमः । ॥४१॥ॐ क्रूरावलोकनात्सर्वनाशाय नमः ।ॐ कृष्णाङ्गदप्रियाय नमः ।ॐ खद्योताय नमः ।ॐ खण्डनाय नमः ।ॐ खड्गधराय नमः ।ॐ खेचरपूजिताय नमः । ॥४२॥ॐ खरांशुतनयाय नमः । २१०ॐ खगानां पतिवाहनाय नमः ।ॐ गोसवासक्तहृदयाय नमः ।ॐ गोचरस्थानदोषहृते नमः । ॥४३॥ॐ गृहराश्याधिपाय नमः ।ॐ गृहराजमहाबलाय नमः ।ॐ गृध्रवाहाय नमः ।ॐ गृहपतये नमः ।ॐ गोचराय नमः ।ॐ गानलोलुपाय नमः । ॥४४॥ॐ घोराय नमः । २२०ॐ घर्माय नमः ।ॐ घनतमसे नमः ।ॐ घर्मिणे नमः ।ॐ घनकृपान्विताय नमः ।ॐ घननीलाम्बरधराय नमः ।ॐ ङादिवर्ण सुसंज्ञिताय नमः । ॥४५॥ॐ चक्रवर्तिसमाराध्याय नमः ।ॐ चन्द्रमत्यसमर्चिताय नमः ।ॐ चन्द्रमत्यार्तिहारिणे नमः ।ॐ चराचरसुखप्रदाय नमः । ॥४६॥ २३०ॐ चतुर्भुजाय नमः ।ॐ चापहस्ताय नमः ।ॐ चराचरहितप्रदाय नमः ।ॐ छायापुत्राय नमः ।ॐ छत्रधराय नमः ।ॐ छायादेवीसुताय नमः । ॥४७॥ॐ जयप्रदाय नमः ।ॐ जगन्नीलाय नमः ।ॐ जपतां सर्वसिद्धिदाय नमः ।ॐ जपविध्वस्तविमुखाय नमः । २४०ॐ जम्भारिपरिपूजिताय नमः । ॥४८॥ॐ जम्भारिवन्द्याय नमः ।ॐ जयदाय नमः ।ॐ जगज्जनमनोहराय नमः ।ॐ जगत्त्रयप्रकुपिताय नमः ।ॐ जगत्त्राणपरायणाय नमः । ॥४९॥ॐ जयाय नमः ।ॐ जयप्रदाय नमः ।ॐ जगदानन्दकारकाय नमः ।ॐ ज्योतिषे नमः । २५०ॐ ज्योतिषां श्रेष्ठाय नमः ।ॐ ज्योतिःशास्त्र प्रवर्तकाय नमः । ॥५०॥ॐ झर्झरीकृतदेहाय नमः ।ॐ झल्लरीवाद्यसुप्रियाय नमः ।ॐ ज्ञानमूर्तिये नमः ।ॐ ज्ञानगम्याय नमः ।ॐ ज्ञानिने नमः ।ॐ ज्ञानमहानिधये नमः । ॥५१॥ॐ ज्ञानप्रबोधकाय नमः ।ॐ ज्ञानदृष्ट्यावलोकिताय नमः । २६०ॐ टङ्किताखिललोकाय नमः ।ॐ टङ्कितैनस्तमोरवये नमः । ॥५२॥ॐ टङ्कारकारकाय नमः ।ॐ टङ्कृताय नमः ।ॐ टाम्भदप्रियाय नमः ।ॐ ठकारमय सर्वस्वाय नमः ।ॐ ठकारकृतपूजिताय नमः । ॥५३॥ॐ ढक्कावाद्यप्रीतिकराय नमः ।ॐ डमड्डमरुकप्रियाय नमः ।ॐ डम्बरप्रभवाय नमः । २७०ॐ डम्भाय नमः ।ॐ ढक्कानादप्रियङ्कराय नमः । ॥५४॥ॐ डाकिनी शाकिनी भूत सर्वोपद्रवकारकाय नमः ।ॐ डाकिनी शाकिनी भूत सर्वोपद्रवनाशकाय नमः । ॥५५॥ॐ ढकाररूपाय नमः ।ॐ ढाम्भीकाय नमः ।ॐ णकारजपसुप्रियाय नमः ।ॐ णकारमयमन्त्रार्थाय नमः ।ॐ णकारैकशिरोमणये नमः । ॥५६॥ॐ णकारवचनानन्दाय नमः । २८०ॐ णकारकरुणामयाय नमः ।ॐ णकारमय सर्वस्वाय नमः ।ॐ णकारैकपरायणाय नमः । ॥५७॥ॐ तर्जनीधृतमुद्राय नमः ।ॐ तपसां फलदायकाय नमः ।ॐ त्रिविक्रमनुताय नमः ।ॐ त्रयीमयवपुर्धराय नमः । ॥५८॥ॐ तपस्विने नमः ।ॐ तपसा दग्धदेहाय नमः ।ॐ ताम्राधराय नमः । २९०ॐ त्रिकालवेदितव्याय नमः ।ॐ त्रिकालमतितोषिताय नमः । ॥५९॥ॐ तुलोच्चयाय नमः ।ॐ त्रासकराय नमः ।ॐ तिलतैलप्रियाय नमः ।ॐ तिलान्न सन्तुष्टमनसे नमः ।ॐ तिलदानप्रियाय नमः । ॥६०॥ॐ तिलभक्ष्यप्रियाय नमः ।ॐ तिलचूर्णप्रियाय नमः ।ॐ तिलखण्डप्रियाय नमः । ३००ॐ तिलापूपप्रियाय नमः । ॥६१॥ॐ तिलहोमप्रियाय नमः ।ॐ तापत्रयनिवारकाय नमः ।ॐ तिलतर्पणसन्तुष्टाय नमः ।ॐ तिलतैलान्नतोषिताय नमः । ॥६२॥ॐ तिलैकदत्तहृदयाय नमः ।ॐ तेजस्विने नमः ।ॐ तेजसान्निधये नमः ।ॐ तेजसादित्यसङ्काशाय नमः ।ॐ तेजोमयवपुर्धराय नमः । ॥६३॥ ३१०ॐ तत्त्वज्ञाय नमः ।ॐ तत्त्वगाय नमः ।ॐ तीव्राय नमः ।ॐ तपोरूपाय नमः ।ॐ तपोमयाय नमः ।ॐ तुष्टिदाय नमः ।ॐ तुष्टिकृते नमः ।ॐ तीक्ष्णाय नमः ।ॐ त्रिमूर्तये नमः ।ॐ त्रिगुणात्मकाय नमः । ॥६४॥ ३२०ॐ तिलदीपप्रियाय नमः ।ॐ तस्यपीडानिवारकाय नमः ।ॐ तिलोत्तमामेनकादिनर्तनप्रियाय नमः । ॥६५॥ॐ त्रिभागमष्टवर्गाय नमः ।ॐ स्थूलरोम्णे नमः ।ॐ स्थिराय नमः ।ॐ स्थिताय नमः ।ॐ स्थायिने नमः ।ॐ स्थापकाय नमः ।ॐ स्थूलसूक्ष्मप्रदर्शकाय नमः । ॥६६॥ ३३०ॐ दशरथार्चितपादाय नमः ।ॐ दशरथस्तोत्रतोषिताय नमः ।ॐ दशरथप्रार्थनाकॢप्तदुर्भिक्षविनिवारकाय नमः । ॥६७॥ॐ दशरथप्रार्थनाकॢप्तवरद्वयप्रदायकाय नमः ।ॐ दशरथस्वात्मदर्शिने नमः ।ॐ दशरथाभीष्टदायकाय नमः । ॥६८॥ॐ दोर्भिर्धनुर्धराय नमः ।ॐ दीर्घश्मश्रुजटाधराय नमः ।ॐ दशरथस्तोत्रवरदाय नमः ।ॐ दशरथाभीप्सितप्रदाय नमः । ॥६९॥ ३४०ॐ दशरथस्तोत्रसन्तुष्टाय नमः ।ॐ दशरथेन सुपूजिताय नमः ।ॐ द्वादशाष्टमजन्मस्थाय नमः ।ॐ देवपुङ्गवपूजिताय नमः । ॥७०॥ॐ देवदानवदर्पघ्नाय नमः ।ॐ दिनं प्रतिमुनिस्तुताय नमः ।ॐ द्वादशस्थाय नमः ।ॐ द्वादशात्मसुताय नमः ।ॐ द्वादशनामभृते नमः । ॥७१॥ॐ द्वितीयस्थाय नमः । ३५०ॐ द्वादशार्कसूनवे नमः ।ॐ दैवज्ञपूजिताय नमः ।ॐ दैवज्ञचित्तवासिने नमः ।ॐ दमयन्त्यासुपूजिताय नमः । ॥७२॥ॐ द्वादशाब्दंतु दुर्भिक्षकारिणे नमः ।ॐ दुःस्वप्ननाशनाय नमः ।ॐ दुराराध्याय नमः ।ॐ दुराधर्षाय नमः ।ॐ दमयन्तीवरप्रदाय नमः । ॥७३॥ॐ दुष्टदूराय नमः । ३६०ॐ दुराचारशमनाय नमः ।ॐ दोषवर्जिताय नमः ।ॐ दुःसहाय नमः ।ॐ दोषहन्त्रे नमः ।ॐ दुर्लभाय नमः ।ॐ दुर्गमाय नमः । ॥७४॥ॐ दुःखप्रदाय नमः ।ॐ दुःखहन्त्रे नमः ।ॐ दीप्तरञ्जितदिङ्मुखाय नमः ।ॐ दीप्यमान मुखाम्भोजाय नमः । ३७०ॐ दमयन्त्याःशिवप्रदाय नमः । ॥७५॥ॐ दुर्निरीक्ष्याय नमः ।ॐ दृष्टमात्रदैत्यमण्डलनाशकाय नमः ।ॐ द्विजदानैकनिरताय नमः ।ॐ द्विजाराधनतत्पराय नमः । ॥७६॥ॐ द्विजसर्वार्तिहारिणे नमः ।ॐ द्विजराज समर्चिताय नमः ।ॐ द्विजदानैकचित्ताय नमः ।ॐ द्विजराज प्रियङ्कराय नमः । ॥७७॥ॐ द्विजाय नमः । ३८०ॐ द्विजप्रियाय नमः ।ॐ द्विजराजेष्टदायकाय नमः ।ॐ द्विजरूपाय नमः ।ॐ द्विजश्रेष्ठाय नमः ।ॐ दोषदाय नमः ।ॐ दुःसहाय नमः । ॥७८॥ॐ देवादिदेवाय नमः ।ॐ देवेशाय नमः ।ॐ देवराज सुपूजिताय नमः ।ॐ देवराजेष्टवरदाय नमः । ३९०ॐ देवराज प्रियङ्कराय नमः । ॥७९॥ॐ देवादिवन्दिताय नमः ।ॐ दिव्यतनवे नमः ।ॐ देवशिखामणये नमः ।ॐ देवगानप्रियाय नमः ।ॐ देवदेशिकपुङ्गवाय नमः । ॥८०॥ॐ द्विजात्मजासमाराध्याय नमः ।ॐ ध्येयाय नमः ।ॐ धर्मिणे नमः ।ॐ धनुर्धराय नमः । ४००ॐ धनुष्मते नमः ।ॐ धनदात्रे नमः ।ॐ धर्माधर्मविवर्जिताय नमः । ॥८१॥ॐ धर्मरूपाय नमः ।ॐ धनुर्दिव्याय नमः ।ॐ धर्मशास्त्रात्मचेतनाय नमः ।ॐ धर्मराज प्रियकराय नमः ।ॐ धर्मराज सुपूजिताय नमः । ॥८२॥ॐ धर्मराजेष्टवरदाय नमः ।ॐ धर्माभीष्टफलप्रदाय नमः । ४१०ॐ नित्यतृप्तस्वभावाय नमः ।ॐ नित्यकर्मरताय नमः । ॥८३॥ॐ निजपीडार्तिहारिणे नमः ।ॐ निजभक्तेष्टदायकाय नमः ।ॐ निर्मासदेहाय नमः ।ॐ नीलाय नमः ।ॐ निजस्तोत्रबहुप्रियाय नमः । ॥८४॥ॐ नळस्तोत्रप्रियाय नमः ।ॐ नळराजसुपूजिताय नमः ।ॐ नक्षत्रमण्डलगताय नमः । ४२०ॐ नमतांप्रियकारकाय नमः । ॥८५॥ॐ नित्यार्चितपदाम्भोजाय नमः ।ॐ निजाज्ञापरिपालकाय नमः ।ॐ नवग्रहवराय नमः ।ॐ नीलवपुषे नमः ।ॐ नळकरार्चिताय नमः । ॥८६॥ॐ नळप्रियानन्दिताय नमः ।ॐ नळक्षेत्रनिवासकाय नमः ।ॐ नळपाकप्रियाय नमः ।ॐ नळपद्भञ्जनक्षमाय नमः । ॥८७॥ ४३०ॐ नळसर्वार्तिहारिणे नमः ।ॐ नळेनात्मार्थपूजिताय नमः ।ॐ निपाटवीनिवासाय नमः ।ॐ नळाभीष्टवरप्रदाय नमः । ॥८८॥ॐ नळतीर्थसकृत् स्नान सर्वपीडानिवारकाय नमः ।ॐ नळेशदर्शनस्याशु साम्राज्यपदवीप्रदाय नमः । ॥८९॥ॐ नक्षत्रराश्यधिपाय नमः ।ॐ नीलध्वजविराजिताय नमः ।ॐ नित्ययोगरताय नमः ।ॐ नवरत्नविभूषिताय नमः । ॥९०॥ ४४०ॐ नवधाभज्यदेहाय नमः ।ॐ नवीकृतजगत्त्रयाय नमः ।ॐ नवग्रहाधिपाय नमः ।ॐ नवाक्षरजपप्रियाय नमः । ॥९१॥ॐ नवात्मने नमः ।ॐ नवचक्रात्मने नमः ।ॐ नवतत्त्वाधिपाय नमः ।ॐ नवोदन प्रियाय नमः ।ॐ नवधान्यप्रियाय नमः । ॥९२॥ॐ निष्कण्टकाय नमः । ४५०ॐ निस्पृहाय नमः ।ॐ निरपेक्षाय नमः ।ॐ निरामयाय नमः ।ॐ नागराजार्चितपदाय नमः ।ॐ नागराजप्रियङ्कराय नमः । ॥९३॥ॐ नागराजेष्टवरदाय नमः ।ॐ नागाभरणभूषिताय नमः ।ॐ नागेन्द्रगान निरताय नमः ।ॐ नानाभरणभूषिताय नमः । ॥९४॥ॐ नवमित्रस्वरूपाय नमः । ४६०ॐ नानाश्चर्यविधायकाय नमः ।ॐ नानाद्वीपाधिकर्त्रे नमः ।ॐ नानालिपिसमावृताय नमः । ॥९५॥ॐ नानारूपजगत्स्रष्ट्रे नमः ।ॐ नानारूपजनाश्रयाय नमः ।ॐ नानालोकाधिपाय नमः ।ॐ नानाभाषाप्रियाय नमः । ॥९६॥ॐ नानारूपाधिकारिणे नमः ।ॐ नवरत्नप्रियाय नमः ।ॐ नानाविचित्रवेषाढ्याय नमः । ४७०ॐ नानाचित्रविधायकाय नमः । ॥९७॥ॐ नीलजीमूतसङ्काशाय नमः ।ॐ नीलमेघसमप्रभाय नमः ।ॐ नीलाञ्जनचयप्रख्याय नमः ।ॐ नीलवस्त्रधरप्रियाय नमः । ॥९८॥ॐ नीचभाषाप्रचारज्ञाय नमः ।ॐ नीचे स्वल्पफलप्रदाय नमः ।ॐ नानागम विधानज्ञाय नमः ।ॐ नानानृपसमावृताय नमः । ॥९९॥ॐ नानावर्णाकृतये नमः । ४८०ॐ नानावर्णस्वरार्तवाय नमः ।ॐ नागलोकान्तवासिने नमः ।ॐ नक्षत्रत्रयसंयुताय नमः । ॥१००॥ॐ नभादिलोकसम्भूताय नमः ।ॐ नामस्तोत्रबहुप्रियाय नमः ।ॐ नामपारायणप्रीताय नमः ।ॐ नामार्चनवरप्रदाय नमः । ॥१०१॥ॐ नामस्तोत्रैकचित्ताय नमः ।ॐ नानारोगार्तिभञ्जनाय नमः ।ॐ नवग्रहसमाराध्याय नमः । ४९०ॐ नवग्रहभयापहाय नमः । ॥१०२॥ॐ नवग्रहसुसम्पूज्याय नमः ।ॐ नानावेदसुरक्षकाय नमः ।ॐ नवग्रहाधिराजाय नमः ।ॐ नवग्रहजपप्रियाय नमः । ॥१०३॥ॐ नवग्रहमयज्योतिषे नमः ।ॐ नवग्रहवरप्रदाय नमः ।ॐ नवग्रहाणामधिपाय नमः ।ॐ नवग्रह सुपीडिताय नमः । ॥१०४॥ॐ नवग्रहाधीश्वराय नमः । ५००ॐ नवमाणिक्यशोभिताय नमः ।ॐ परमात्मने नमः ।ॐ परब्रह्मणे नमः ।ॐ परमैश्वर्यकारणाय नमः । ॥१०५॥ॐ प्रपन्नभयहारिणे नमः ।ॐ प्रमत्तासुरशिक्षकाय नमः ।ॐ प्रासहस्ताय नमः ।ॐ पङ्गुपादाय नमः ।ॐ प्रकाशात्मने नमः ।ॐ प्रतापवते नमः । ॥१०६॥ ५१०ॐ पावनाय नमः ।ॐ परिशुद्धात्मने नमः ।ॐ पुत्रपौत्रप्रवर्धनाय नमः ।ॐ प्रसन्नात्सर्वसुखदाय नमः ।ॐ प्रसन्नेक्षणाय नमः । ॥१०७॥ॐ प्रजापत्याय नमः ।ॐ प्रियकराय नमः ।ॐ प्रणतेप्सितराज्यदाय नमः ।ॐ प्रजानां जीवहेतवे नमः ।ॐ प्राणिनां परिपालकाय नमः । ॥१०८॥ ५२०ॐ प्राणरूपिणे नमः ।ॐ प्राणधारिणे नमः ।ॐ प्रजानां हितकारकाय नमः ।ॐ प्राज्ञाय नमः ।ॐ प्रशान्ताय नमः ।ॐ प्रज्ञावते नमः ।ॐ प्रजारक्षणदीक्षिताय नमः । ॥१०९॥ॐ प्रावृषेण्याय नमः ।ॐ प्राणकारिणे नमः ।ॐ प्रसन्नोत्सववन्दिताय नमः । ५३०ॐ प्रज्ञानिवासहेतवे नमः ।ॐ पुरुषार्थैकसाधनाय नमः । ॥११०॥ॐ प्रजाकराय नमः ।ॐ प्रातिकूल्याय नमः ।ॐ पिङ्गळाक्षाय नमः ।ॐ प्रसन्नधिये नमः ।ॐ प्रपञ्चात्मने नमः ।ॐ प्रसवित्रे नमः ।ॐ पुराणपुरुषोत्तमाय नमः । ॥१११॥ॐ पुराणपुरुषाय नमः । ५४०ॐ पुरुहूताय नमः ।ॐ प्रपञ्चधृते नमः ।ॐ प्रतिष्ठिताय नमः ।ॐ प्रीतिकराय नमः ।ॐ प्रियकारिणे नमः ।ॐ प्रयोजनाय नमः । ॥११२॥ॐ प्रीतिमते नमः ।ॐ प्रवरस्तुत्याय नमः ।ॐ पुरूरवसमर्चिताय नमः ।ॐ प्रपञ्चकारिणे नमः । ५५०ॐ पुण्याय नमः ।ॐ पुरुहूत समर्चिताय नमः । ॥११३॥ॐ पाण्डवादि सुसंसेव्याय नमः ।ॐ प्रणवाय नमः ।ॐ पुरुषार्थदाय नमः ।ॐ पयोदसमवर्णाय नमः ।ॐ पाण्डुपुत्रार्तिभञ्जनाय नमः । ॥११४॥ॐ पाण्डुपुत्रेष्टदात्रे नमः ।ॐ पाण्डवानां हितङ्कराय नमः ।ॐ पञ्चपाण्डवपुत्राणां सर्वाभीष्टफलप्रदाय नमः । ॥११५॥ ५६०ॐ पञ्चपाण्डवपुत्राणां सर्वारिष्ट निवारकाय नमः ।ॐ पाण्डुपुत्राद्यर्चिताय नमः ।ॐ पूर्वजाय नमः ।ॐ प्रपञ्चभृते नमः । ॥११६॥ॐ परचक्रप्रभेदिने नमः ।ॐ पाण्डवेषु वरप्रदाय नमः ।ॐ परब्रह्मस्वरूपाय नमः ।ॐ पराज्ञापरिवर्जिताय नमः । ॥११७॥ॐ परात्पराय नमः ।ॐ पाशहन्त्रे नमः । ५७०ॐ परमाणवे नमः ।ॐ प्रपञ्चकृते नमः ।ॐ पातङ्गिने नमः ।ॐ पुरुषाकाराय नमः ।ॐ परशम्भुसमुद्भवाय नमः । ॥११८॥ॐ प्रसन्नात्सर्वसुखदाय नमः ।ॐ प्रपञ्चोद्भवसम्भवाय नमः ।ॐ प्रसन्नाय नमः ।ॐ परमोदाराय नमः ।ॐ पराहङ्कारभञ्जनाय नमः । ॥११९॥ ५८०ॐ पराय नमः ।ॐ परमकारुण्याय नमः ।ॐ परब्रह्ममयाय नमः ।ॐ प्रपन्नभयहारिणे नमः ।ॐ प्रणतार्तिहराय नमः । ॥१२०॥ॐ प्रसादकृते नमः ।ॐ प्रपञ्चाय नमः ।ॐ पराशक्ति समुद्भवाय नमः ।ॐ प्रदानपावनाय नमः ।ॐ प्रशान्तात्मने नमः । ५९०ॐ प्रभाकराय नमः । ॥१२१॥ॐ प्रपञ्चात्मने नमः ।ॐ प्रपञ्चोपशमनाय नमः ।ॐ पृथिवीपतये नमः ।ॐ परशुराम समाराध्याय नमः ।ॐ परशुरामवरप्रदाय नमः । ॥१२२॥ॐ परशुराम चिरञ्जीविप्रदाय नमः ।ॐ परमपावनाय नमः ।ॐ परमहंसस्वरूपाय नमः ।ॐ परमहंससुपूजिताय नमः । ॥१२३॥ ६००ॐ पञ्चनक्षत्राधिपाय नमः ।ॐ पञ्चनक्षत्रसेविताय नमः ।ॐ प्रपञ्चरक्षित्रे नमः ।ॐ प्रपञ्चस्यभयङ्कराय नमः । ॥१२४॥ॐ फलदानप्रियाय नमः ।ॐ फलहस्ताय नमः ।ॐ फलप्रदाय नमः ।ॐ फलाभिषेकप्रियाय नमः ।ॐ फल्गुनस्य वरप्रदाय नमः । ॥१२५॥ॐ फुटच्छमितपापौघाय नमः । ६१०ॐ फल्गुनेन प्रपूजिताय नमः ।ॐ फणिराजप्रियाय नमः ।ॐ फुल्लाम्बुज विलोचनाय नमः । ॥१२६॥ॐ बलिप्रियाय नमः ।ॐ बलिने नमः ।ॐ बभ्रुवे नमः ।ॐ ब्रह्मविष्ण्वीशक्लेशकृते नमः ।ॐ ब्रह्मविष्ण्वीशरूपाय नमः ।ॐ ब्रह्मशक्रादिदुर्लभाय नमः । ॥१२७॥ॐ बासदर्ष्ट्या प्रमेयाङ्गाय नमः । ६२०ॐ बिभ्रत्कवचकुण्डलाय नमः ।ॐ बहुश्रुताय नमः ।ॐ बहुमतये नमः ।ॐ ब्रह्मण्याय नमः ।ॐ ब्राह्मणप्रियाय नमः । ॥१२८॥ॐ बलप्रमथनाय नमः ।ॐ ब्रह्मणे नमः ।ॐ बहुरूपाय नमः ।ॐ बहुप्रदाय नमः ।ॐ बालार्कद्युतिमते नमः । ६३०ॐ बालाय नमः ।ॐ बृहद्वक्षसे नमः ।ॐ बृहत्तनवे नमः । ॥१२९॥ॐ ब्रह्माण्डभेदकृते नमः ।ॐ भक्तसर्वार्थसाधकाय नमः ।ॐ भव्याय नमः ।ॐ भोक्त्रे नमः ।ॐ भीतिकृते नमः ।ॐ भक्तानुग्रहकारकाय नमः । ॥१३०॥ॐ भीषणाय नमः । ६४०ॐ भैक्षकारिणे नमः ।ॐ भूसुरादि सुपूजिताय नमः ।ॐ भोगभाग्यप्रदाय नमः ।ॐ भस्मीकृतजगत्त्रयाय नमः । ॥१३१॥ॐ भयानकाय नमः ।ॐ भानुसूनवे नमः ।ॐ भूतिभूषितविग्रहाय नमः ।ॐ भास्वद्रताय नमः ।ॐ भक्तिमतां सुलभाय नमः ।ॐ भ्रुकुटीमुखाय नमः । ॥१३२॥ ६५०ॐ भवभूतगणैःस्तुत्याय नमः ।ॐ भूतसंघसमावृताय नमः ।ॐ भ्राजिष्णवे नमः ।ॐ भगवते नमः ।ॐ भीमाय नमः ।ॐ भक्ताभीष्टवरप्रदाय नमः । ॥१३३॥ॐ भवभक्तैकचित्ताय नमः ।ॐ भक्तिगीतस्तवोन्मुखाय नमः ।ॐ भूतसन्तोषकारिणे नमः ।ॐ भक्तानां चित्तशोधनाय नमः । ॥१३४॥ ६६०ॐ भक्तिगम्याय नमः ।ॐ भयहराय नमः ।ॐ भावज्ञाय नमः ।ॐ भक्तसुप्रियाय नमः ।ॐ भूतिदाय नमः ।ॐ भूतिकृते नमः ।ॐ भोज्याय नमः ।ॐ भूतात्मने नमः ।ॐ भुवनेश्वराय नमः । ॥१३५॥ॐ मन्दाय नमः । ६७०ॐ मन्दगतये नमः ।ॐ मासमेवप्रपूजिताय नमः ।ॐ मुचुकुन्दसमाराध्याय नमः ।ॐ मुचुकुन्दवरप्रदाय नमः । ॥१३६॥ॐ मुचुकुन्दार्चितपदाय नमः ।ॐ महारूपाय नमः ।ॐ महायशसे नमः ।ॐ महाभोगिने नमः ।ॐ महायोगिने नमः ।ॐ महाकायाय नमः । ६८०ॐ महाप्रभवे नमः । ॥१३७॥ॐ महेशाय नमः ।ॐ महदैश्वर्याय नमः ।ॐ मन्दारकुसुमप्रियाय नमः ।ॐ महाक्रतवे नमः ।ॐ महामानिने नमः ।ॐ महाधीराय नमः ।ॐ महाजयाय नमः । ॥१३८॥ॐ महावीराय नमः ।ॐ महाशान्ताय नमः । ६९०ॐ मण्डलस्थाय नमः ।ॐ महाद्युतये नमः ।ॐ महासुताय नमः ।ॐ महोदाराय नमः ।ॐ महनीयाय नमः ।ॐ महोदयाय नमः । ॥१३९॥ॐ मैथिलीवरदायिने नमः ।ॐ मार्ताण्डस्यद्वितीयजाय नमः ।ॐ मैथिलीप्रार्थनाकॢप्तदशकण्ठशिरोपहृते नमः । ॥१४०॥ॐ मरामरहराराध्याय नमः । ७००ॐ महेन्द्रादि सुरार्चिताय नमः ।ॐ महारथाय नमः ।ॐ महावेगाय नमः ।ॐ मणिरत्नविभूषिताय नमः । ॥१४१॥ॐ मेषनीचाय नमः ।ॐ महाघोराय नमः ।ॐ महासौरये नमः ।ॐ मनुप्रियाय नमः ।ॐ महादीर्घाय नमः ।ॐ महाग्रासाय नमः । ७१०ॐ महदैश्वर्यदायकाय नमः । ॥१४२॥ॐ महाशुष्काय नमः ।ॐ महारौद्राय नमः ।ॐ मुक्तिमार्गप्रदर्शकाय नमः ।ॐ मकरकुम्भाधिपाय नमः ।ॐ मृकण्डुतनयार्चिताय नमः । ॥१४३॥ॐ मन्त्राधिष्ठानरूपाय नमः ।ॐ मल्लिकाकुसुमप्रियाय नमः ।ॐ महामन्त्रस्वरूपाय नमः ।ॐ महायन्त्रस्थिताय नमः । ॥१४४॥ ७२०ॐ महाप्रकाशदिव्यात्मने नमः ।ॐ महादेवप्रियाय नमः ।ॐ महाबलि समाराध्याय नमः ।ॐ महर्षिगणपूजिताय नमः । ॥१४५॥ॐ मन्दचारिणे नमः ।ॐ महामायिने नमः ।ॐ माषदानप्रियाय नमः ।ॐ माषोदन प्रीतचित्ताय नमः ।ॐ महाशक्तये नमः ।ॐ महागुणाय नमः । ॥१४६॥ ७३०ॐ यशस्कराय नमः ।ॐ योगदात्रे नमः ।ॐ यज्ञाङ्गाय नमः ।ॐ युगन्धराय नमः ।ॐ योगिने नमः ।ॐ योग्याय नमः ।ॐ याम्याय नमः ।ॐ योगरूपिणे नमः ।ॐ युगाधिपाय नमः । ॥१४७॥ॐ यज्ञभृते नमः । ७४०ॐ यजमानाय नमः ।ॐ योगाय नमः ।ॐ योगविदां वराय नमः ।ॐ यक्षराक्षसवेताळकूष्माण्डादिप्रपूजिताय नमः । ॥१४८॥ॐ यमप्रत्यधिदेवाय नमः ।ॐ युगपद्भोगदायकाय नमः ।ॐ योगप्रियाय नमः ।ॐ योगयुक्ताय नमः ।ॐ यज्ञरूपाय नमः ।ॐ युगान्तकृते नमः । ॥१४९॥ ७५०ॐ रघुवंशसमाराध्याय नमः ।ॐ रौद्राय नमः ।ॐ रौद्राकृतये नमः ।ॐ रघुनन्दन सल्लापाय नमः ।ॐ रघुप्रोक्त जपप्रियाय नमः । ॥१५०॥ॐ रौद्ररूपिणे नमः ।ॐ रथारूढाय नमः ।ॐ राघवेष्ट वरप्रदाय नमः ।ॐ रथिने नमः ।ॐ रौद्राधिकारिणे नमः । ७६०ॐ राघवेण समर्चिताय नमः । ॥१५१॥ॐ रोषात्सर्वस्वहारिणे नमः ।ॐ राघवेण सुपूजिताय नमः ।ॐ राशिद्वयाधिपाय नमः ।ॐ रघुभिः परिपूजिताय नमः । ॥१५२॥ॐ राज्यभूपाकराय नमः ।ॐ राजराजेन्द्रवन्दिताय नमः ।ॐ रत्नकेयूरभूषाढ्याय नमः ।ॐ रमानन्दनवन्दिताय नमः । ॥१५३॥ॐ रघुपौरुषसन्तुष्टाय नमः । ७७०ॐ रघुस्तोत्रबहुप्रियाय नमः ।ॐ रघुवंशनृपैःपूज्याय नमः ।ॐ रणन्मञ्जीरनूपुराय नमः । ॥१५४॥ॐ रविनन्दनाय नमः ।ॐ राजेन्द्राय नमः ।ॐ रघुवंशप्रियाय नमः ।ॐ लोहजप्रतिमादानप्रियाय नमः ।ॐ लावण्यविग्रहाय नमः । ॥१५५॥ॐ लोकचूडामणये नमः ।ॐ लक्ष्मीवाणीस्तुतिप्रियाय नमः । ७८०ॐ लोकरक्षाय नमः ।ॐ लोकशिक्षाय नमः ।ॐ लोकलोचनरञ्जिताय नमः । ॥१५६॥ॐ लोकाध्यक्षाय नमः ।ॐ लोकवन्द्याय नमः ।ॐ लक्ष्मणाग्रजपूजिताय नमः ।ॐ वेदवेद्याय नमः ।ॐ वज्रदेहाय नमः ।ॐ वज्राङ्कुशधराय नमः । ॥१५७॥ॐ विश्ववन्द्याय नमः । ७९०ॐ विरूपाक्षाय नमः ।ॐ विमलाङ्गविराजिताय नमः ।ॐ विश्वस्थाय नमः ।ॐ वायसारूढाय नमः ।ॐ विशेषसुखकारकाय नमः । ॥१५८॥ॐ विश्वरूपिणे नमः ।ॐ विश्वगोप्त्रे नमः ।ॐ विभावसु सुताय नमः ।ॐ विप्रप्रियाय नमः ।ॐ विप्ररूपाय नमः । ८००ॐ विप्राराधन तत्पराय नमः । ॥१५९॥ॐ विशालनेत्राय नमः ।ॐ विशिखाय नमः ।ॐ विप्रदानबहुप्रियाय नमः ।ॐ विश्वसृष्टि समुद्भूताय नमः ।ॐ वैश्वानरसमद्युतये नमः । ॥१६०॥ॐ विष्णवे नमः ।ॐ विरिञ्चये नमः ।ॐ विश्वेशाय नमः ।ॐ विश्वकर्त्रे नमः । ८१०ॐ विशाम्पतये नमः ।ॐ विराडाधारचक्रस्थाय नमः ।ॐ विश्वभुजे नमः ।ॐ विश्वभावनाय नमः । ॥१६१॥ॐ विश्वव्यापारहेतवे नमः ।ॐ वक्रक्रूरविवर्जिताय नमः ।ॐ विश्वोद्भवाय नमः ।ॐ विश्वकर्मणे नमः ।ॐ विश्वसृष्टि विनायकाय नमः । ॥१६२॥ॐ विश्वमूलनिवासिने नमः । ८२०ॐ विश्वचित्रविधायकाय नमः ।ॐ विश्वाधारविलासिने नमः ।ॐ व्यासेन कृतपूजिताय नमः । ॥१६३॥ॐ विभीषणेष्टवरदाय नमः ।ॐ वाञ्छितार्थप्रदायकाय नमः ।ॐ विभीषणसमाराध्याय नमः ।ॐ विशेषसुखदायकाय नमः । ॥१६४॥ॐ विषमव्ययाष्टजन्मस्थोऽप्येकादशफलप्रदाय नमः ।ॐ वासवात्मजसुप्रीताय नमः ।ॐ वसुदाय नमः । ८३०ॐ वासवार्चिताय नमः । ॥१६५॥ॐ विश्वत्राणैकनिरताय नमः ।ॐ वाङ्मनोतीतविग्रहाय नमः ।ॐ विराण्मन्दिरमूलस्थाय नमः ।ॐ वलीमुखसुखप्रदाय नमः । ॥१६६॥ॐ विपाशाय नमः ।ॐ विगतातङ्काय नमः ।ॐ विकल्पपरिवर्जिताय नमः ।ॐ वरिष्ठाय नमः ।ॐ वरदाय नमः । ८४०ॐ वन्द्याय नमः ।ॐ विचित्राङ्गाय नमः ।ॐ विरोचनाय नमः । ॥१६७॥ॐ शुष्कोदराय नमः ।ॐ शुक्लवपुषे नमः ।ॐ शान्तरूपिणे नमः ।ॐ शनैश्चराय नमः ।ॐ शूलिने नमः ।ॐ शरण्याय नमः ।ॐ शान्ताय नमः । ८५०ॐ शिवायामप्रियङ्कराय नमः । ॥१६८॥ॐ शिवभक्तिमतां श्रेष्ठाय नमः ।ॐ शूलपाणये नमः ।ॐ शुचिप्रियाय नमः ।ॐ श्रुतिस्मृतिपुराणज्ञाय नमः ।ॐ श्रुतिजालप्रबोधकाय नमः । ॥१६९॥ॐ श्रुतिपारगसम्पूज्याय नमः ।ॐ श्रुतिश्रवणलोलुपाय नमः ।ॐ श्रुत्यन्तर्गतमर्मज्ञाय नमः ।ॐ श्रुत्येष्टवरदायकाय नमः । ॥१७०॥ ८६०ॐ श्रुतिरूपाय नमः ।ॐ श्रुतिप्रीताय नमः ।ॐ श्रुतीप्सितफलप्रदाय नमः ।ॐ शुचिश्रुताय नमः ।ॐ शान्तमूर्तये नमः ।ॐ श्रुतिश्रवणकीर्तनाय नमः । ॥१७१॥ॐ शमीमूलनिवासिने नमः ।ॐ शमीकृतफलप्रदाय नमः ।ॐ शमीकृतमहाघोराय नमः ।ॐ शरणागतवत्सलाय नमः । ॥१७२॥ ८७०ॐ शमीतरुस्वरूपाय नमः ।ॐ शिवमन्त्रज्ञमुक्तिदाय नमः ।ॐ शिवागमैकनिलयाय नमः ।ॐ शिवमन्त्रजपप्रियाय नमः । ॥१७३॥ॐ शमीपत्रप्रियाय नमः ।ॐ शमीपर्णसमर्चिताय नमः ।ॐ शतोपनिषदस्तुत्याय नमः ।ॐ शान्त्यादिगुणभूषिताय नमः । ॥१७४॥ॐ शान्त्यादिषड्गुणोपेताय नमः ।ॐ शङ्खवाद्यप्रियाय नमः । ८८०ॐ श्यामरक्तसितज्योतिषे नमः ।ॐ शुद्धपञ्चाक्षरप्रियाय नमः । ॥१७५॥ॐ श्रीहालास्यक्षेत्रवासिने नमः ।ॐ श्रीमते नमः ।ॐ शक्तिधराय नमः ।ॐ षोडशद्वयसम्पूर्णलक्षणाय नमः ।ॐ षण्मुखप्रियाय नमः । ॥१७६॥ॐ षड्गुणैश्वर्यसंयुक्ताय नमः ।ॐ षडङ्गावरणोज्ज्वलाय नमः ।ॐ षडक्षरस्वरूपाय नमः । ८९०ॐ षट्चक्रोपरि संस्थिताय नमः । ॥१७७॥ॐ षोडशिने नमः ।ॐ षोडशान्ताय नमः ।ॐ षट्शक्तिव्यक्तमूर्तिमते नमः ।ॐ षड्भावरहिताय नमः ।ॐ षडङ्गश्रुतिपारगाय नमः । ॥१७८॥ॐ षट्कोणमध्यनिलयाय नमः ।ॐ षट्शास्त्रस्मृतिपारगाय नमः ।ॐ स्वर्णेन्द्रनीलमकुटाय नमः ।ॐ सर्वाभीष्टप्रदायकाय नमः । ॥१७९॥ ९००ॐ सर्वात्मने नमः ।ॐ सर्वदोषघ्नाय नमः ।ॐ सर्वगर्वप्रभञ्जनाय नमः ।ॐ समस्तलोकाभयदाय नमः ।ॐ सर्वदोषाङ्गनाशकाय नमः । ॥१८०॥ॐ समस्तभक्तसुखदाय नमः ।ॐ सर्वदोषनिवर्तकाय नमः ।ॐ सर्वनाशक्षमाय नमः ।ॐ सौम्याय नमः ।ॐ सर्वक्लेशनिवारकाय नमः । ॥१८१॥ ९१०ॐ सर्वात्मने नमः ।ॐ सर्वदातुष्टाय नमः ।ॐ सर्वपीडानिवारकाय नमः ।ॐ सर्वरूपिणे नमः ।ॐ सर्वकर्मणे नमः ।ॐ सर्वज्ञाय नमः ।ॐ सर्वकारकाय नमः । ॥१८२॥ॐ सुकृते नमः ।ॐ सुलभाय नमः ।ॐ सर्वाभीष्टफलप्रदाय नमः । ९२०ॐ सूर्यात्मजाय नमः ।ॐ सदातुष्टाय नमः ।ॐ सूर्यवंशप्रदीपनाय नमः । ॥१८३॥ॐ सप्तद्वीपाधिपाय नमः ।ॐ सुरासुरभयङ्कराय नमः ।ॐ सर्वसंक्षोभहारिणे नमः ।ॐ सर्वलोकहितङ्कराय नमः । ॥१८४॥ॐ सर्वौदार्यस्वभावाय नमः ।ॐ सन्तोषात्सकलेष्टदाय नमः ।ॐ समस्तऋषिभिःस्तुत्याय नमः । ९३०ॐ समस्तगणपावृताय नमः । ॥१८५॥ॐ समस्तगणसंसेव्याय नमः ।ॐ सर्वारिष्टविनाशनाय नमः ।ॐ सर्वसौख्यप्रदात्रे नमः ।ॐ सर्वव्याकुलनाशनाय नमः । ॥१८६॥ॐ सर्वसंक्षोभहारिणे नमः ।ॐ सर्वारिष्टफलप्रदाय नमः ।ॐ सर्वव्याधिप्रशमनाय नमः ।ॐ सर्वमृत्युनिवारकाय नमः । ॥१८७॥ॐ सर्वानुकूलकारिणे नमः । ९४०ॐ सौन्दर्यमृदुभाषिताय नमः ।ॐ सौराष्ट्रदेशोद्भवाय नमः ।ॐ स्वक्षेत्रेष्टवरप्रदाय नमः । ॥१८८॥ॐ सोमयाजि समाराध्याय नमः ।ॐ सीताभीष्टवरप्रदाय नमः ।ॐ सुखासनोपविष्टाय नमः ।ॐ सद्यःपीडानिवारकाय नमः । ॥१८९॥ॐ सौदामनीसन्निभाय नमः ।ॐ सर्वानुल्लङ्घ्यशासनाय नमः ।ॐ सूर्यमण्डलसञ्चारिणे नमः । ९५०ॐ संहारास्त्रनियोजिताय नमः । ॥१९०॥ॐ सर्वलोकक्षयकराय नमः ।ॐ सर्वारिष्टविधायकाय नमः ।ॐ सर्वव्याकुलकारिणे नमः ।ॐ सहस्रजपसुप्रियाय नमः । ॥१९१॥ॐ सुखासनोपविष्टाय नमः ।ॐ संहारास्त्रप्रदर्शिताय नमः ।ॐ सर्वालङ्कारसंयुक्तकृष्णगोदानसुप्रियाय नमः । ॥१९२॥ॐ सुप्रसन्नाय नमः ।ॐ सुरश्रेष्ठाय नमः । ९६०ॐ सुघोषाय नमः ।ॐ सुखदाय नमः ।ॐ सुहृदे नमः ।ॐ सिद्धार्थाय नमः ।ॐ सिद्धसङ्कल्पाय नमः ।ॐ सर्वज्ञाय नमः ।ॐ सर्वदाय नमः ।ॐ सुखिने नमः । ॥१९३॥ॐ सुग्रीवाय नमः ।ॐ सुधृतये नमः । ९७०ॐ साराय नमः ।ॐ सुकुमाराय नमः ।ॐ सुलोचनाय नमः ।ॐ सुव्यक्ताय नमः ।ॐ सच्चिदानन्दाय नमः ।ॐ सुवीराय नमः ।ॐ सुजनाश्रयाय नमः । ॥१९४॥ॐ हरिश्चन्द्रसमाराध्याय नमः ।ॐ हेयोपादेयवर्जिताय नमः ।ॐ हरिश्चन्द्रेष्टवरदाय नमः । ९८०ॐ हंसमन्त्रादि संस्तुताय नमः । ॥१९५॥ॐ हंसवाह समाराध्याय नमः ।ॐ हंसवाहवरप्रदाय नमः ।ॐ हृद्याय नमः ।ॐ हृष्टाय नमः ।ॐ हरिसखाय नमः ।ॐ हंसाय नमः ।ॐ हंसगतये नमः ।ॐ हविषे नमः । ॥१९६॥ॐ हिरण्यवर्णाय नमः । ९९०ॐ हितकृते नमः ।ॐ हर्षदाय नमः ।ॐ हेमभूषणाय नमः ।ॐ हविर्होत्रे नमः ।ॐ हंसगतये नमः ।ॐ हंसमन्त्रादिसंस्तुताय नमः । ॥१९७॥ॐ हनूमदर्चितपदाय नमः ।ॐ हलधृत्पूजिताय नमः ।ॐ क्षेमदाय नमः ।ॐ क्षेमकृते नमः । १०००ॐ क्षेम्याय नमः ।ॐ क्षेत्रज्ञाय नमः ।ॐ क्षामवर्जिताय नमः । ॥१९८॥ॐ क्षुद्रघ्नाय नमः ।ॐ क्षान्तिदाय नमः ।ॐ क्षेमाय नमः ।ॐ क्षितिभूषाय नमः ।ॐ क्षमाश्रयाय नमः ।ॐ क्षमाधराय नमः ।ॐ क्षयद्वाराय नमः । ॥१९९॥ १०१०॥ इति श्री शनैश्चरसहस्रनामावळिः सम्पूर्णम् ॥ N/A References : N/A Last Updated : January 19, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP