मराठी मुख्य सूची|स्तोत्रे|सहस्रनामावली| सोन्दूर श्रीकृष्ण अवधूतवि... सहस्रनामावली ब्रह्मानन्दं परमसुखदं केव... अथ मूलम् । ॐ श्रीं ह्रीं ... ॐ श्रीगणेशाय नमः । श्वेता... श्रीअरुणाचलेश्वरसहस्रनामावली अर्धनारीश्वरसहस्रनामावलिः ॐ हिरण्यबाहवे हिरण्यवर्णा... श्रीहनुमत्सहस्रनामावलिः ॐ श्रीगणेशाय नमः । ॐ ब्र... ॐ इन्द्राय नमः । देवतमाय ... ॐ श्रीगणेशाय नमः । ॐ नमोद... ॐ अस्य श्रीसर्वसाम्राज्यम... ध्यानम् । कान्त्या काञ्चन... ॐ श्रीगणेशाय नमः । ॐ नका... ॐ अस्य कामकलाकालीसहस्रनाम... श्री गणेशाय नमः । श्रीकाम... कालोऽहम् । अस्य श्रीकालना... शिव उवाच- नाम्नां सहस्रं ... ॐ श्मशानकालिकायै नमः । ॐ ... अथ कुञ्चितपादसहस्रनामावलि... धनं दारान्सुतान्क्षेत्रं ... षड्वक्त्रं शिखिवाहनं त्रि... ॐ कृष्णाय नमः । श्रीवल्लभ... ॐ अस्य श्रीपुराणपुरुषोत्त... श्रीगणेशाय नमः । श्रीकेदा... सितमकरनिषण्णां शुभ्रवर्णा... श्रीगणेशाय नमः । श्रीसमर्... ॐ अस्य श्रीगणपतिगकारादिसह... ॐ सुमुखाय नमः । सुवहाय । ... ध्यानम् रक्तश्वेतहिरण्यनी... ध्यानम् - रक्तश्वेतहिरण्य... ॐ शं शां षं ह्रीं क्लीं ग... अथ ध्यानम् । सूर्यस्पर्धि... ॐ श्री गुरुभ्यो नमः । गुर... ॐ श्रीगणेशाय नमः । सर्वत्... अथ श्रीगोपालदिव्यसहस्रनाम... ॐ गवे नमः । ॐ गौविन्द्यै ... श्रीगुरुभ्यो नमः । श्रीका... ॐ अस्य श्रीप्रचण्डचण्डिका... अथ श्रीयोगेश्वरकवि द्वारा... अस्य श्रीज्वालामुखीसहस्रन... विश्वव्यापकवारिमध्यविलसच्... ॐ अस्य श्रीतारासहस्रनामस्... ॐ भुवनेश्यै नमः । ॐ भुवार... ॐ अस्य श्रीमहोग्रतारा दिव... वरिष्ठ उवाच - कथं नामसहस्... ॐ तुलस्यै नमः । ॐ श्रीप्र... ॐ श्रीमत्त्यागमहाराजाय नम... श्रीगणपतये नमः । ॐ अनेजते... ध्यानम् । उद्यद्भानुसहस्र... ॐ योगेशाय नमः । ॐ अमरप्रभ... महाकालभैरव ऋषिस्त्रिष्टुप... अस्य श्रीदक्षिणामूर्तिसहस... ॐ आदिदेवाय नमः । दयासिन्ध... ध्यानम् । स्फटिकरजतवर्णां... ऋषिच्छन्दांसि - अस्य श्री... तन्त्रराजतन्त्रे पूर्वपीठ... ध्यानम् । १. सिंहस्था शशि... महामन्त्रस्य श्रीमहेश्वर ... ध्यानम् - रक्ताभां रक्तवस... ॐ श्रीमते नमः । ॐ धन्वन्त... ॐ नमो भगवते भूतनाथाय । ॐ ... ध्यानम् । विवर्णा चञ्चला ... अस्य श्री शिवकामसुन्दरीसम... ॐ अस्य श्रीनटेशसहस्रनामस्... ॐ श्री गणेशाय नमः । अस्य ... श्री गुरुभ्यो नमः । ॐ श्र... श्री गुरुभ्यो नमः । ॐ श्र... ॥ ध्यानम् ॥ श्रीमित्रेश्... श्रीराधासर्वेश्वरो विजयते... पद्मावतीशतम् ॐ श्री पद्मा... ॐ श्रीगणेशाय नमः । ॐ अस्य... अथ विनियोगः । ॐ अस्य श्री... अथ अकारादि-क्षकारान्तासहस... ॐ शिवायै नमः । उमायै । पर... ॐ श्रीकृष्णाय नमः । सच्चि... अस्य श्रीप्रणवसहस्रनामस्त... ईश्वर उवाच । शृणु देवि प... ॐ ब्रह्मास्त्राय नमः । ॐ ... श्रीमहादेव उवाच - अस्य श्... विनियोगः - ॐ अस्य श्रीबटु... रुद्रयामलोक्तबटुकभैरवसहस्... ॐ अस्य श्रीबलभद्रसहस्रनाम... ॐ ऐं ह्रीं श्रीं-आनन्दसिन... शौनक उवाच - कैलासशिखरे रम... श्रीदेव्युवाच - भगवन्भाषि... ओं ऐं ह्रीं श्रीङ्कल्याण्... ॐ परमात्मने नमः ॐ धर्मक्... ॐ निस्सीमोद्यद्गुणाय नमः ... ॐ क्रकुच्छन्दाय नमः । ॐ क... ध्यानम् - बालार्कमण्डलाभा... विनोयोगः - ॐ अस्य श्रीभुव... प्रणवाय ब्रह्मणे उद्गीथाय... विनियोगः । ॐ अस्य श्रीमहा... श्रीः । ॐ नमश्चण्डिकायै ।... ॐ ह्रीं श्रीं क्लीं गणाध्... ॐ महामार्यै नमः । महामाया... पार्वत्युवाच - भगवन् वेदत... श्रीगणेशाय नमः । श्रीमहाल... ॐ ह्रीं ऐं ह्रीं महावाण्य... ध्यानम् श्रीमच्चन्दनचर्चि... ॐ अद्भुताय नमः । अद्भुतचा... ॐ सुमुख्यै नमः । ॐ शेमुष्... ॐ अम्बायै नमः । ॐ अम्बालि... ॐ अस्यश्री मूकाम्बिकायाः ... श्रीभैरव उवाच । अस्य श्री... अस्य श्री मेधादक्षिणामूर्... ॐ नमो भगवते दक्षिणामूर्तय... गर्गसंहितातः ॐ कालिन्द्य... अस्य श्रीयोगेश्वरीसहस्रना... ॐ योगिन्यै नमः । योगमायाय... देव्युवाच - भगवन्सर्वशास्... सोन्दूर श्रीकृष्ण अवधूतवि... वन्दे वृन्दावनानन्दा राधि... ॐ श्रीराधायै नमः । राधिका... ॐ श्रीराधायै नमः । राधिका... ॐ अस्य श्रीरामसहस्रनाममाल... ॐ आर्यश्रेष्ठाय नमः । धरा... सङ्कल्पः - यजमानः, आचम्य,... ॐ नमो भगवते वासुदेवाय । ॐ... ॐ स्थिराय नमः । स्थाणवे ।... न्यासः । अस्य श्रीरुद्रसह... अथ श्रीरेणुकातन्त्रान्तर्... सिन्दूरारुणविग्रहां त्रिन... ॐ श्रियै नमः । वासुदेवमहि... ॐ नित्यागतायै नमः । ॐ अनन... ॐ श्रीवराहाय नमः । भूवराह... ॐ वल्ल्यै नमः । ॐ वल्लीश्... ॐ श्रीवाग्मत्याः सहस्रनाम... ॐ श्रीगणेशाय नमः । श्रीनन... वराहमुख्यै विद्महे । दण्ड... ध्यानम् - ओङ्कारबीजाक्षरी... शुक्लाम्बरधरं विष्णुं शशि... ॐ क्लीं विट्टलाय नमः । पा... पूर्वन्यासः । श्रीवेदव्या... श्रीविष्णुसहस्रनामावलिः प... रुद्र उवाच । संसारसागराद... ॐ श्रीगणेशाय नमः । ॐ विष... श्रीशिवाय गुरवे श्रीवीरभ... वेङ्कटेशस्य नाम्नां हि सह... ॐ श्री गुरुभ्यो नमः । अथ ... ॐ शङ्कराय नमः । ॐ श्रीधरा... ॐ गाढध्वान्तनिमज्जनप्रमुष... ॐ अमिताभाषिणे नमः । ॐ अघह... ॐ श्रीगणेशाय नमः । ॐ श्री... विनियोगः - अस्य श्रीशारिक... अस्य श्रीशास्तृशवर्णसहस्र... ॐ अस्य श्री शिवकामसुन्दरी... अस्य श्रीशिवकामसुन्दरीसहस... ॐ अखिलेश्वर्यै नमः । अग्न... ॐ स्थिराय नमः । ॐ स्थाणवे... ॐ श्री गणेशाय नमः । अथ श्... ॐ ओङ्कारकण्ठनिलयाय नमः । ... ॐ ॐकारनिलयात्मस्थाय नमः ।... श्री विष्णुरुवाच ॐ भवाय ... अस्य श्रीशिवसहस्रनामस्तोत... ॐ सौभाग्यलक्ष्म्यै नमः । ... ॐ राधिकेशाय नमः । ॐ जगन्न... सद्गुरु श्रीधरस्वामिनाप्र... ईशानमुखपूजा- ॐ जगद्भुवे न... ॐ वचनभुवे नमः । पराय । शङ... ॐ रुद्रभुवनाय नमः । अनन्त... ॐ ब्रह्मभुवे नमः । भवाय ।... अघोर मुखपूजा । ॐ विश्वभुव... ॐ अचिन्त्य शक्तये नमः । अ... जपसाधना ॐ अस्य श्रीमहात्र... ॐ सङ्कटायै नमः । ॐ विजयाय... ॐ सङ्गीतालय-प्रतिष्ठित-भग... ॐ सीतायै नमः । उमायै । पर... ॐ श्रीचक्राय नमः । ॐ श्री... ॐ शुक्लाम्बरधरं विष्णुं श... ॐ श्री गणेशाय नमः । अस्य ... ॐ अस्य श्रीसुब्रह्मण्यसहस... बिल्वैर्वा चम्पकाद्यौर्वा... ध्यानम् - ध्येयः सदा सवित... श्रीरुद्रयामले तन्त्रे श्... श्रीसूर्यसहस्रनामावलिः ॐ सुब्रह्मण्याय । सुरेशान... ॐ नमः । ओङ्कारनमोरूपाय । ... ॐ श्रीहयग्रीवाय नमः । श्र... स्वामिनारायणं कृष्णं भक्त... १. ॐ स्थिराय नमः । २. ॐ ... ॥ श्रीदुर्गादैव्ये नम: ॥ ... १. ॐ राजीवलोचनाय नमः । ... १ ॐ अचिन्त्यलक्षणायै नमः ... १ ॐ कालिन्द्यै नमः । २ ॐ... १ ॐ अन्नपूर्णायै नमः । ... १. ॐ नारसिंहाय नमः । २. ... १ ॐ देवकीनन्दनाय नमः । २... १ ॐ क्लीं देवाय नमः । २ ... १ ॐ श्रियै नमः । २ ॐ पद्... १ ॐ हनुमते नमः । २ ॐ श्र... ॥ श्रीकृष्णाय नमः ॥ १. ॐ ... १. ॐ विश्वविदे नम: । २. ... १. ॐ गणेश्वराय नम: । २.... १. ॐ ऐं ह्रीं श्रीं श्रीम... १ ॐ सीतायै नमः । २ ॐ उमा... १ ॐ ओंकाररूपिण्यै नमः । ... १. ॐ विश्वस्मै नमः । २.ॐ... १. ॐ श्रीराधायै नमः । २.... ॐ गणपतये नमः ॥ ॥ ॐ गणेश्व... श्रीराघवेन्द्रसहस्रनामावलिः - सोन्दूर श्रीकृष्ण अवधूतवि... हिंदू देवी देवतांची एक हजार नावे म्हणजेच सहस्त्रनामावली. हिंदू धर्मिय रोज सकाळी संध्याकाळी या नावांचा जप करतात.A sahasranamavali is a type of Hindu scripture in which a diety is referred to by 1000 or more different names.Many devout Hindus chant them every morning or evening. Tags : 1000godgoddesssahasranamavaliसहस्त्रनामावली श्रीराघवेन्द्रसहस्रनामावलिः अकारादि क्षकारान्त Translation - भाषांतर सोन्दूर श्रीकृष्ण अवधूतविरचितं श्रीराघवेन्द्रसहस्रनामस्तोत्रमुधृतम् श्रीराघवेन्द्रसहस्रनामावलिः ॥श्रीराघवेन्द्र गुरुभ्यो नमः ।अथ श्रीराघवेन्द्रार्य नामानां साहस्रमुत्तमम् ।प्रवक्ष्याम्यवधूतोऽहं सद्यः प्रीतिकरं गुरो ॥१॥अकारादि क्षकारान्त वर्णानुक्रमयोगतः ।क्वचिद्रूढ्या च योगेन क्वचिल्लक्षणया क्वचित् ॥२॥अन्तर्यामी हरिप्राणाधिष्ठानातिशयत्वतः ।प्रह्लादावतारत्वाच्च घटतेऽत्र न संशयः ॥३॥छन्दस्सु -द्विरावृत्तैर्मन्त्रपदैरङ्गं छन्दोऽप्यनुष्टुभः ।श्री मनो राघवेन्द्राय बीजं शक्तिश्च कीलकम् ॥४॥ध्यानम्-भव्याकारो भावितेष्ठार्थदाता वामे चासौ वामहस्तं दधानः ॥५॥ज्ञानाभीती ज्ञानवान् दक्षहस्तेरन्ता चित्ते राघवेन्द्रो मम स्यात् ॥६॥अथ श्रीराघवेन्द्रसहस्रनामावलिः ।ॐ अज्ञानभञ्जनाय नमः । अणिमाद्यष्टसिद्धिदाय । अनणुज्ञानसम्पदे ।अमोघशक्तये । अनघाय । अपरोक्षीकृताच्युताय ।अखिलाभीष्टदाय । आत्मविदे । आयुःप्रवर्धनाय ।आनन्दतीर्थसच्छास्त्रटीकाभावप्रकाशकाय । आनन्दसान्द्राय ।आरब्धकार्यान्तगमनक्षमाय । आकुलीकृतदुर्वादिवृन्दाय ।आकारबन्धुराय । आशुप्रसन्नाय । आसन्नभक्तकामसुरद्रुमाय ।आध्यात्मरताय । आचार्याय । आसमुद्रैकसद्गुरवे । आत्मारामार्चनासक्ताय नमः । २०ॐ आर्याय नमः । आप्ततमाय । इन्द्रियोत्पन्नदोषघ्नाय ।इन्द्रवत्त्यागभोगिने । इष्टदात्रे । ईषणात्रयवर्जिताय ।उग्ररक्षःपिशाचघ्नाय । उन्मादहराय । उत्तमाय । उदारचित्ताय ।उद्धारकाय । उत्पातहारकाय । उपेक्षितकुवादीन्द्राय । उपकारपरायणाय ।ऊरुदघ्नीकृतापारभवसागराय । ऊर्जिताय । ऊष्महर्त्रे ।ऋक्षाधिपतिशीतलदर्शनाय । ऋजुस्वभावाय । ऋद्धोरुमाहात्म्याय नमः । ४०ॐ ऋजुमाससाय नमः । एडमूकसुवाग्दात्रे । एकभाषिणे ।एकान्तभक्ताय । ऐश्वर्यदात्रे । एक्यमतच्छिदे ।ओतत्वेत्याद्यनुव्याख्यासुधाभावार्थदर्शिने । ओङ्कारजपशीलाय ।सदा ओमात्मेत्युपासिने । औषधोक्त्यापि भक्तानामामयाधिकहारिणे ।अंसात्ततुलसीमालाय । अंहोनाशकदर्शनाय । अस्तङ्गतारिषड्वर्गाय ।अर्थिमन्दारकाय । कलिदोषविनाशाय । कलौ सद्यःफलप्रदाय । कमलापतिभक्ताय । कुण्ठकुण्ठत्वभञ्जिने ।करालनरसिंहोग्रक्रोधशामकमूर्तये । कपोलशङ्खचक्रांशशालिने नमः । ६०ॐ कपटवर्जिताय नमः । कल्पभूरुहरूपाय । कलभौधाभकीर्तये ।कमण्डलुं धर्त्रे । करे दण्डधराय । कामेषूणामलक्ष्याय ।कामिनीकामनोज्झिताय । कामारिश्लाघ्यसद्वृत्ताय । कामदाय ।कामरूपधृते । कानीनभाववेत्त्रे । कालज्ञाय । कालसाधकाय ।कापालिकमतध्वंसिने । काशिकाकाशमानवाचे । कान्तारभीतिघ्ने ।कान्तिकान्ताय । कापथवर्जिताय । काषायाम्बरधारिणे ।काश्मीरद्रवचर्चिताय नमः । ८०ॐ किरातभीतिसंहर्त्रे नमः । किलासित्वविनाशकाय । कीनाशभयघ्ने ।कीटभयघ्ने । कीर्तिमण्डिताय । पिशाचानां कुकूलाभाय ।कुष्ठरोगनिवारणाय । कुशासनस्थिताय । कुक्षिपूरकाय । कुतूहलिने ।कुत्सिताचाररहिताय । कुमारसुखवर्धनाय । कुशलाय । कुलीनाय ।कुशासनविवर्जिताय । कुम्भघोणकृतावासाय । कुतोऽपि भयभञ्जनाय ।कूपपातकपापघ्नाय । कूर्मासनपरिग्रहाय । कूष्माण्डादि प्रतिभयाय नमः । १००ॐ कीर्तिदाय नमः । कीर्तनप्रियाय । केशवाराधकाय । केतुदोषघ्नाय ।केवलेष्टदाय । केतकीकुसुमासक्ताय । केसरद्रवलोलुपाय । कैवल्यदात्रे ।कैङ्कर्यतुष्टश्रीशाय । कोशदाय । कालानुसारदात्रे । कोशिने ।कोशातकीप्रियाय । कोलाहलविरोधिने । कौपीनपटलाञ्छनाय ।कम्बुध्वनिप्रियाय । कम्बुग्रीवाय । कम्पविवर्जिताय ।कृपीटयोनिवर्चस्थाय । कृतभक्तार्तिनाशनाय नमः । १२०ॐ कृत्यासनाय नमः । कृतज्ञाय । कृत्याचेष्टकभञ्जनाय ।कृपामहोदधये । कृष्णध्यानासक्ताय । कृशप्रियाय ।कस्तूरीतिलकासक्ताय । कृत्तसंसारसाध्वसाय । खगेशवाहभक्ताय ।खरपातकहारिणे । खदोषहर्त्रे । खपुरप्रियाय । खलमारिणे ।खाद्यप्रियाय । खलपुवे । खिलहीनाय । खेदहन्त्रे ।खिन्नचित्तप्रमोददाय । खेदघ्ने । खुरणोघ्नाय नमः । १४०ॐ खञ्जदुःखनिवारणाय नमः । खोडत्वनाशकाय । गरघ्नाय ।गणनम्याङ्घ्रये । गरुत्मद्वाहसेवकाय । गुरवे । गुणार्णवाय ।गलात्ततुलसीमालाय । गर्भदाय । गर्भदुःखघ्ने । गर्तहारिणे ।गजगतये । गतदोषाय । गतिप्रदाय । गदाधराय । गदहराय ।गर्वघ्ने । गरिमालयाय । गभस्तिमते । गह्वरस्थाय नमः । १६०ॐ गतभिये नमः । गलिताहिताय । गताघाय । गर्जितारातये ।गदयित्नवे । गवां प्रियाय । ग्रस्तारये । ग्रहदोषघ्नाय ।ग्रहोच्चाटनतत्पराय । गीष्पत्याभाय । गायत्रीजापकाय ।गायनप्रियाय । ग्रामण्ये । ग्राहकाय । ग्राहिने । ग्रावग्रीवमतच्छिदाय ।ग्रामक्षेमकराय । ग्राम्यभयघ्ने । ग्राहभीतिघ्ने । गात्रक्षेमकराय नमः । १८०ॐ गामिने नमः । गिरिसारनिभाङ्गकाय । गतभाविजनये । गम्याय ।गीर्वाणावासमूलभुवे । गुणिने । गुणप्रियाय । गुण्याय । गुहावासाय ।गुरुप्रियाय । गुडप्रियाय । गुच्छकण्ठाय । गुल्मच्छेत्त्रे । गुणादराय ।गुप्तगुह्याय । गूढकर्मणे । गुरुराजाय । गूहिताय । गेहदात्रे ।गेयकीर्तये नमः । २००ॐ गैरिकारञ्जिताम्बराय नमः । गृह्यक्षेमकराय । गृह्याय ।गृहगाय । गृहवर्धनाय । गोदावरीस्नानरताय । गोपबालकपूजकाय ।गोष्पदीकृतसंसारवार्धये । गोपुररक्षकाय । गोप्यमन्त्रजपाय ।गोमते । गोकर्णिने । गोचराखिलाय । गोग्रासदाय । गोत्ररत्नाय ।गोस्तनीनिभभाषणाय । गोप्त्रे । गौतमशास्त्रज्ञाय । गौरविने ।गौरवप्रदाय नमः । २२०ॐ गन्त्रे नमः । गञ्जितशत्रवे । गन्धर्वाय । गन्धवर्धनाय ।गन्धिने । गन्धवतीसूनुग्रन्थविदे । गन्धवाहविदे । गन्धर्वाभाय ।ग्रन्थिभेदिने । ग्रन्थकृते । ग्रन्थपाठकाय । गण्डशैलप्रियाय ।गण्डमालभिदे । गण्डकीरतये । गङ्गास्नायिने । गाङ्गेयप्रदाय ।गाण्डीविमित्रविदे । घटनाननुरूपस्याप्यर्थस्य घटकाय । घनाय ।घर्महर्त्रे नमः । २४०ॐ घनप्रीतये नमः । घनाघननिभाङ्गभासे ।घनसारद्रवासिक्तकायाय । घर्घरिकाङ्कनाय ।घ्राणतर्पणचार्वङ्गाय । घृणावते । घुसृणप्रियाय ।घृतप्रियाय । घातितारये । घोषयित्नवे । घोषदाय ।घोण्टाफलास्थिद्वयजपमालाकराम्बुजाय । घोरामयपरीहर्त्रे ।घण्टापथगतिप्रियाय । घण्टानादप्रियाय । गणद्वाद्यविनोदनाय ।चक्रशङ्खाङ्कितभुजाय । चमूमदविभञ्जनाय ।चराचरक्षेमकर्त्रे । चतुराय नमः । २६०ॐ चरणारुणाय नमः । चतुष्पदीस्तुत्यमानाय ।चतुर्मुखपितृप्रियाय । चतुस्सागरविख्याताय । चर्मासनसमाधिमते ।चत्वरस्थाय । चकोराक्षाय । चञ्चलत्वनिवारकाय ।चतुर्वेदविशेषज्ञाय । चलाचलकृतप्रियाय ।चतुरङ्गबलध्वंसिने । चतुरोपायशिक्षिताय । चारुरूपाय ।चारसेव्याय । चामरद्वयशोभिताय । चित्तप्रसादजननाय ।चित्रभानुप्रभोज्ज्वलाय । चिरजीविने । चित्तहराय । चित्रभाषिणे नमः । २८०ॐ चितिप्रदाय नमः । चित्रगुप्तभयत्रात्रे । चिरञ्जीजनसेविताय ।स्वभक्तानां चिन्तामणये । चिन्तितार्थप्रदायकाय । चिन्ताहर्त्रे ।चित्तवासिने । चीरकौपीनधारिणे । चिपिटत्यागकृते । चुल्लकक्षिदाय ।चुल्लवर्धनाय । वैष्णवानां चूडामणये । चूर्णीकृतमहाभयाय ।यशसा चूडालायै । चूतफलास्वादविनोदनाय । चूडप्राग्वादविनोदनाय ।चूडाकर्मादि कर्तॄणां सन्निधौ सर्वदोषघ्ने । चेष्टकाय ।चेष्टकध्वंसिने । चैत्रोत्सवमुदम्भराय नमः । ३००ॐ चोद्यहर्त्रे नमः । चौरनाशिने । चितिमते । चित्तरञ्जनाय ।चिन्त्याय । चेतनदात्रे । चन्द्रहासाय । चन्द्रकान्ताय । चन्द्राय ।चण्डीशपूजकाय । चक्षुःप्रीतिकराय । चन्द्रचन्दनद्रवसेवनाय ।छद्महीनाय । छत्रभोगिने । छलघ्ने । छदलोचनाय । छन्नज्ञानाय ।छन्नकर्मणे । छविमते । छात्रसेविताय नमः । ३२०ॐ छात्रप्रियाय नमः । छात्ररक्षिणे । छागयागातिशास्त्रविदे ।छत्रचामरधात्रे । छत्रचामरशोभिताय । छिद्रहारिणे ।छिन्नरोगाय । छन्दश्शास्त्रविशारदाय । भवदुःखानां छेदकाय ।छिन्नसाध्वसाय । जराहर्त्रे । जगत्पूज्याय । जयन्तीव्रततत्पराय ।जयदाय । जयकर्त्रे । जगत्क्षेमकराय । जयिने । जराहीनाय । जनैःसेव्याय । जनानन्दकराय नमः । ३४०ॐ जविने नमः । जनप्रियाय । जघन्यघ्नाय । जपासक्ताय ।जगद्गुरवे । जरायुबन्धसंहर्त्रे । जलगुल्मनिवारणाय । जाड्यघ्ने ।जानकीशार्चिने । जाह्नवीजलपावनाय । जातमात्रशिशुक्षेमिने ।ज्यायसे । जाल्मत्ववर्जिताय । जिष्णवे । जिनमतध्वंसिने । जिगीषवे ।जिह्मवर्जिताय । जगदुद्धृतये जाताय । जितक्रोधाय । जितेन्द्रियाय नमः । ३६०ॐ जितारिवर्गाय नमः । जितदुर्वादिने । जितमनोभवाय । जीवातवे ।जीविकायै । जीवदात्रे । जीमूतवत् स्थिराय । जीवितेशभयत्रात्रे ।जीर्णज्वरविनाशनाय । जुष्टश्रीनाथपादाब्जाय । जूर्तिबाधविनाशनाय ।जेत्रे । ज्येष्ठाय । ज्येष्ठवृत्तये । सतां जैवात्रकसमाय ।ज्योत्स्नानिभयशसे । चम्भहन्त्रे । जम्बूफलप्रियाय ।झल्लरीवादनप्रीताय । झषकेतोरुपेक्षकाय नमः । ३८०ॐ झलाप्रियाय नमः । झूणिहन्त्रे । झञ्झावातभयापघ्ने ।ज्ञानवते । ज्ञानदात्रे । ज्ञानानन्दप्रकाशवते । टट्टिरीरहिताय ।टीकातात्पर्यार्थप्रबोधकाय । टङ्कारकरचारित्राय । टङ्काभायदुरितशमनाय । टक्प्रत्ययविकारज्ञाय । टीकृतान्यबुधोक्तिकाय ।डमरुध्वनिकृन्मित्राय । डाकिनीभयभञ्जनाय । डिम्भसौख्यप्रदाय ।डोलाविहारोत्सवलोलुपाय । ढक्कावाद्यप्रियाय । ढौकमानाय ।णत्वार्थकोविदाय । तपस्विने नमः । ४००ॐ तप्तमुद्राङ्काय नमः । तप्तमुद्राङ्कनप्रदाय । तपोधनाश्रयाय ।तप्ततापहर्त्रे । तपोधनाय । तमोहर्त्रे । त्वरितदाय । तरुणाय ।तर्कपण्डिताय । त्रासहर्त्रे । तामसघ्ने । ताताय । तापससेविताय ।तारकाय । त्राणदाय । त्रात्रे । तप्तकाञ्चनसन्निभाय ।त्रिवर्गफलदाय । तीव्रफलदात्रे । त्रिदोषघ्ने नमः । ४२०ॐ तिरस्कृतपराय नमः । त्यागिने । त्रिलोकीमान्यसत्तमाय । पिशाचानांतीक्ष्णरूपाय । तीर्णसंसारसागराय । तुरुष्कसेविताय (तुरुष्कपूजिताय) ।तुल्यहीनाय । तुरगवाहनाय । तृप्ताय । तृप्तिप्रदाय ।तृष्णाहर्त्रे । तुङ्गातटाश्रयाय । तूलायितीकृताघौघाय ।तुष्टिदाय । तुङ्गविग्रहाय । तेजस्विने । तैलविद्वेषिणे । तोकानांसुखवर्धनाय । तन्द्रीहराय । तण्डुलदाय नमः । ४४०ॐ तञ्जापुरकृतादराय नमः । स्थलदाय । स्थापकाय । स्थात्रे ।स्थिराय । स्थूलकलेवराय । स्थेयसे । स्थैर्यप्रदाय । स्थेम्ने ।स्थौरिणे । स्थण्डिलेशयाय । दशावते । दक्षिणाय । दत्तदृष्टये ।दाक्षिण्यपूरिताय । दक्षाय । दयालवे । दमवते । द्रवच्चित्ताय ।दधिप्रियाय नमः । ४६०ॐ द्रव्यदाय नमः । दर्शनादेव प्रीताय । दलितपातकाय ।दत्ताभीष्टाय । दस्युहन्त्रे । दान्ताय । दारुणदुःखघ्ने ।द्वासप्ततिसहस्राणां नाडीनां रूपभेदविदे । दारिद्र्यनाशकाय । दात्रे ।दासाय । दासप्रमोदकृते । दिवौकःसदृशाय । दिष्टवर्धनाय ।दिव्यविग्रहाय । दीर्घायुषे । दीर्णदुरिताय । दीनानाथगतिप्रदाय ।दीर्घायुष्यप्रदाय । दीर्घवर्जिताय नमः । ४८०ॐ दीप्तमूर्तिमते नमः । दुर्धराय । दुर्लभाय । दुष्टहन्त्रे ।दुष्कीर्तिभञ्जनाय । दुःस्वप्नदोषघ्ने । दुःखध्वंसिने ।द्रुमसमाश्रयाय । दूष्यत्यागिने । दूरदर्शिने । दूतानांसुखवर्धनाय । दृष्टान्तहीनाय । दृष्टार्थाय । दृढाङ्गाय ।दृप्तदर्पहृते । दृढप्रज्ञाय । दृढभक्तये । र्दुर्विधानांधनप्रदाय । देवस्वभावाय । देहीति याचनाशब्दमूलभिदे (देहीतियाचनाशब्दगूढघ्ने) नमः । ५००ॐ दूनप्रसादकृते नमः । दुःखविनाशिने । दुर्नयोज्झिताय ।दैत्यारिपूजकाय । दैवशालिने । दैन्यविवर्जिताय । दोषाद्रिकुलिशाय ।दोष्मते । दोग्ध्रे । दौर्भिक्ष्यदोषघ्ने । दण्डधारिणे । दम्भहीनाय ।दन्तशूकशयप्रियाय । धनदाय । धनिकाराध्याय । धन्याय ।धर्मविवर्धनाय । धारकाय । धान्यदाय । धात्रे नमः । ५२०ॐ धिषणावते नमः । धीराय । धीमते । धीप्रदात्रे । धूतारिष्टाय ।ध्रुवाश्रयाय । धृतभक्ताभयाय । धृष्टाय । धृतिमते ।धूतदूषणाय । धूर्तभङ्गकराय । धेनुरूपाय । धैर्यप्रवर्धनाय ।धूपप्रियाय । धोरणीभृते । धूमकेतुभयापहाय ।धौवस्त्रपरीधानाय । नलिनाक्षाय । नवग्रहभयच्छिदे ।नवधाभक्तिभेदज्ञाय नमः । ५४०ॐ नरेन्द्राय नमः । नरसेविताय । नामस्मरणसन्तुष्टाय ।नारायणपदाश्रयाय । नाडीस्थैर्यप्रदाय । नानाजातिजन्तुजनार्चिताय ।नारीदूराय । नायकाय । नागाद्यैश्वर्यदायकाय । निर्वाणदाय ।निर्मलात्मने । निष्कासितपिशाचकाय । निःश्रेयसकराय । निन्दावर्जिताय ।निगमार्थविदे । निराकृतकुवादीन्द्राय । निर्जराप्ताय । निरामयाय ।नियामकाय । नियतिदाय नमः । ५६०ॐ निग्रहानुग्रहक्षमाय नमः । निष्कृष्टवाक्याय । निर्मुक्तबन्धनाय ।नित्यसौख्यभुजे । सम्पदां निदानाय । निष्ठानिष्णाताय ।निर्वृतिप्रदाय । निर्ममाय (निर्मोहाय) । निरहङ्काराय ।नित्यनीराजनप्रियाय । निजप्रदक्षिणेनैव सर्वयात्राफलप्रदाय ।नीतिमते । नुतपादाब्जाय । न्यूनपूर्णत्ववर्जिताय । निद्रात्यागिने ।निस्पृहाय । निद्रादोषनिवारणाय । नूतनांशुकधारिणे ।नृपपूजितपादुकाय । नृणां सुखप्रदाय नमः । ५८०ॐ नेत्रे नमः । नेत्रानन्दकराकृतये । नियमिने । नैगमाद्यैःभक्तिभावेन सेविताय । भक्त्या भजतां नेदिष्ठाय । भक्तभवाम्बुधेःनौकायै । नन्दात्मजप्रियाय । नाथाय । नन्दनाय । नन्दनद्रुमाय ।प्रसन्नाय । परितापघ्नाय । प्रसिद्धाय । परतापहृते । प्रथमाय। प्रतिपन्नार्थाय । प्रसाधितमहातपसे । पराक्रमजितारातये ।प्रतिमानविवर्जिताय । प्रवराय नमः । ६००ॐ प्रक्रमज्ञाय नमः । परवादिजयप्रदाय । प्रमुखाय ।प्रबलाय । प्रज्ञाशालिने । प्रत्यूहनाशकाय । प्रपञ्जसुखदात्रे ।प्रकृतिस्थाय । प्रवृत्तिकृते । प्रभूतसम्पदे । पत्रोर्णधारिणे ।प्रणवतत्पराय । प्रचण्डाय । प्रदरध्वंसिने । प्रतिग्रहविवर्जिताय ।प्रत्यक्षफलदात्रे । प्रसादाभिमुखाय । पराय । पाठकाय ।पावनाय नमः । ६२०ॐ पात्रे नमः । प्राणदात्रे । प्रसादकृते । प्राप्तसिद्धये ।पारिजातदर्पघ्ने । पाकसाधनाय । पाटीरपादुकाय । पार्श्ववर्तिने ।पारायणप्रियाय । पिण्यकीकृतदुर्वादिने । पित्रे । पीडाविनाशकाय ।प्रीतिमते । पीतवसनाय । पीयूषाय । पीवराङ्गकाय । प्रियंवदाय ।पीडिताघाय । पुलकाने । पुष्टिवर्धनाय नमः । ६४०ॐ पुत्रवत्पाल्यभक्तौघाय नमः । पुण्यकीर्तये । पुरस्कृताय ।पुष्टप्रियाय । पुण्ड्रधारिणे । पुरस्थाय । पुण्यवर्धनाय ।पूर्णकामाय । पूर्वभाषिणे । पृथवे । पृथुकवर्धनाय ।पृष्टप्रश्नपरीहर्त्रे । पृथिवीक्षेमकारकाय । पेशलाय ।प्रेतभीतिघ्नाय । पेयपादोदकाय । प्रभवे । प्रेङ्खद्वाणीविलासाय ।प्रेरकाय । प्रेमवर्धनाय नमः । ६६०ॐ पैशुन्यरहिताय नमः । प्रोतसुखदाय । पोषकाग्रण्ये ।प्रोतधर्मणे । पौरुषदाय । पूरकाय । पङ्क्तिपावनाय । पण्डिताय ।पङ्कहाय । पम्पावासिने । पङ्गुत्ववारकाय । फलोदयकराय ।भालदुरक्षरमदापहृते । फुल्लनेत्राय । फलिततपस्याय ।फर्फरीकवाचे । फूत्कारोच्चाटितानेकतापत्रयपिशाचकाय ।फाण्टानेकेतरासाध्यकार्याय । बलवते । बहुदात्रे नमः । ६८०ॐ बदरीफललोलुपाय नमः । बालप्रियाय । ब्राह्मणाग्र्याय । बाधाहन्त्रे ।बाहुदाय । बुद्धिदात्रे । बुधाय । बुद्धमतघातिने । बुधप्रियाय ।वृन्दावनस्थतोयोन सर्वतीर्थफलप्रदाय । वैराग्योल्लासकर्त्रे ।वृन्दावनसमाश्रयाय । बिल्वपत्रार्चनप्रीताय । बन्धुरोक्तये ।बन्धघ्ने । बन्धवे । बधिरताहर्त्रे । बन्धुविद्वेषवारणाय ।वन्ध्यापुत्रप्रदत्वाद्यैः यथायोगेन सृष्टिकृते । बहुप्रजापालकायनमः । ७००ॐ वेतालादिलयप्रदाय नमः । भक्तानां जयसिद्ध्यर्थंस्वयं वाद्यज्ञानप्रदाय । भगवद्भक्तविद्वेष्टुः सद्यःप्रत्यक्षबन्धकृते । भक्तिदाय । भव्यदात्रे । भगन्दरनिवारणाय ।भवसौख्यप्रदाय । भर्मपीठाय । भस्मीकृताशुभाय ।भवभीतिहराय । भग्नदारिद्र्याय । भजनप्रियाय । भावज्ञाय ।भास्करप्रख्याय । भामत्यागिने । भग्यदाय । भाव्यर्थसूचकाय ।भार्यासक्तानामपि सौख्यदाय । भक्तभारधराय । भक्ताधाराय नमः ।७२०ॐ सदा भोगप्रियाय नमः । भिक्षवे । भीमपदासक्ताय ।भुक्तिमुक्तिफलप्रदाय । भूतप्रेतपिशाचादि भयपीडानिवारणाय ।भूम्ने । भूतिप्रदाय । भूरिदात्रे । भूपतिवन्दिताय । भ्रूणकर्त्रे ।भृत्यभर्त्रे । भक्तवश्याय । भेषजाय । भवरोगस्य भैरवाय ।भोक्त्रे । भोजनदायकाय । भौरिकाय । भौतिकारिष्टहर्त्रे ।भौमजदोषघ्ने । अरिमोदस्य भङ्गप्रदाय नमः । ७४०ॐ भ्रान्तिहीनाय नमः । मल्लिकाकुसुमासक्ताय । मथितान्यमताय ।महते । मसृणत्वचे । मरुत्प्रख्याय । महान्धनयनप्रदाय ।महोदयाय । मन्युहीनाय । महावीरपदार्चकाय । मलीमसमलध्वंसिने ।शास्त्रसंविदां मुकुराय । महिषीक्षेत्रगाय (महीक्षेत्रगाय) ।मध्वमतदुग्धाब्धिचन्द्रमसे । मनःप्रमोदजननाय । मत्तानांमदभञ्जनाय । महायशसे । महात्यागिने । महाभोगिने । महामनसेनमः । ७६०ॐ मारिकाभयहर्त्रे नमः । मात्सर्यरहितान्तराय । मायाहर्त्रे ।मानदात्रे । मात्रे । मार्गप्रदर्शकाय । मार्गणेष्टप्रदात्रे ।मालतीकुसुमप्रियाय । मुख्याय । मुख्यगुरवे । मुख्यपालकाय ।मितभाषणाय । मीलतारये । मुमूर्षवे । मूकानां दिव्यवाक्प्रदाय ।मूर्धाभिषिक्ताय । मूढत्वहारिणे । मूर्छनरोगघ्ने ।मृषावचनहीनाय । मृत्युहर्त्रे नमः । ७८०ॐ मृदुक्रमाय नमः । मृदङ्गवादनरुचये । मृग्याय ।मृष्टान्नदायकाय । मृत्तिकासेवनेनैव सर्वरोगनिवारणाय । मेधाविने ।मेहरोगघ्नाय । मेध्यरूपाय । मेदुराय । मेघगम्भीरनिनदाय ।मैथिलीवल्लभार्चकाय । मोदकृते । मोदकासक्ताय । मोहघ्ने ।मोक्षदायकाय । मौनव्रतप्रियाय । मौनिने । मन्त्रालयकृतालयाय ।माङ्गल्यबीजमहिम्ने । मण्डिताय नमः । ८००ॐ मङ्गलप्रदाय नमः । यष्टिधारिणे । यमासक्ताय ।याचकामरभूरुहाय । यातयामपरित्यागिने । याप्यत्यागिने ।यतीश्वराय । युक्तिमते । यक्षभीतिघ्नाय । योगिने । यन्त्रे ।यन्त्रविदे । यौक्तिकाय । योग्यफलदाय । योषित्सङ्गविवर्जिताय ।योगीन्द्रतीर्थवन्द्याङ्घ्रये । यानाद्यैश्वर्यभोगवते । रसिकाग्रेसराय ।रम्याय । राष्ट्रक्षेमविधायकाय नमः । ८२०ॐ राजाधिराजाय नमः । रक्षोघ्नाय । रागद्वेषविवर्जिताय ।राजराजायिताय । राघवेन्द्रतीर्थाय । रिक्तप्रियाय । रीतिमते ।रुक्मदाय । रूक्षवर्जिताय । रेवास्नायिने । रैक्वखण्डव्याख्यात्रे ।रोमहर्षणाय । रोगघ्ने । रौरवाघघ्नाय । रन्त्रे । रक्षणतत्पराय ।लक्ष्मणाय । लाभदाय । लिप्तगन्धाय । लीलायतित्वधृते नमः । ८४०ॐ लुप्तारिगर्वाय नमः । लूनाघमूलाय । लेखर्षभायिताय । लोकप्रियाय ।लौल्यहीनाय । लङ्कारातिपदार्चकाय । व्यतीपातादि दोषघ्नाय ।व्यवहारजयप्रदाय । वाचम्यमाय । वर्धमानाय । विवेकिने । वित्तदाय ।विभवे । व्यङ्गस्वङ्गप्रदाय । व्याघ्रभयघ्ने । वज्रभीतिहृते ।वक्त्रे । वदान्याय । विनयिने । वमिघ्ने नमः । ८६०ॐ व्याधिहारकाय नमः । विनीताय । विदिताशेषाय । विपत्तिपरिहारकाय ।विशारदाय । व्यसनघ्ने । विप्रलापविवर्जिताय । विषघ्नाय ।विस्मयकराय । विनुताङ्घ्रये । विकल्पहृदे । विनेत्रे ।विक्रमश्लाघ्याय । विलासिने । विमलाशयाय । वितण्डावर्जिताय ।व्याप्ताय । व्रीहिदाय । वीतकल्मषाय । व्यष्टिदाय नमः । ८८०ॐ वृष्टिदाय नमः । वृत्तिदात्रे । वेदान्तपारगाय । वैद्याय ।वैभवदात्रे । वैतालिकवरस्तुताय । वैकुण्ठभजनासक्ताय । वोढ्रे ।वंशाभिवृद्धिकृते । वञ्चनारहिताय । वन्ध्यावत्सदाय ।वरदाग्रण्ये । शरणाय । शमसम्पन्नाय । शर्करामधुभाषणाय ।शरीरक्षेमकारिणे । शक्तिमते । शशिसुन्दराय । शापानुग्रहशक्ताय ।शास्त्रे नमः । ९००ॐ शास्त्रविशारदाय नमः । शान्ताय । शिरःशूलहर्त्रे । शिवाय ।शिखरिणीप्रियाय । शिवदाय । शिशिराय । श्लाघ्याय । श्रद्धालवे ।श्रीप्रदायकाय । शीघ्रप्रसादाय । शीतघ्नाय । शुद्धिकृते ।शुभवर्धनाय । श्रुतवते । शून्यघ्ने । शूराय । श्रेष्ठाय ।शुश्रूषिसौख्यदाय । श्वेतवस्त्रप्रियाय नमः । ९२०ॐ शैलवासिने नमः । शैवप्रभञ्जनाय । शोकहर्त्रे ।शोभनाङ्गाय । शौर्यौदार्यगुणान्विताय । श्लेष्महर्त्रे । शङ्कराय ।शृङ्खलाबन्धमोचकाय । शृङ्गारप्रीतिजनकाय । शङ्काहारिणे ।शंसिताय । षण्ढपुंस्त्वप्रदाय । षोढ्रे । षड्वैरिरहिताय ।षोडशमाङ्गल्यप्रदात्रे । षट्प्रयोगविदे । सत्यसन्धाय ।समाधिस्थाय । सरलाय । सत्तमाय नमः । ९४०ॐ सुखिने नमः । समर्थाय । सज्जनाय । साधवे ।साधीयते । सम्प्रदायदाय । सात्त्विकाय । साहसिने । स्वामिने ।सार्वभौमत्वसारविदे (सार्वभौमाय, सारविदे) । सर्वावगुणहीनाय ।सदाचारानुमोदकाय । सर्वभूतदयाशालिने । सत्यधर्मरताय । समाय ।स्वनामकीर्तनाद्वेदशास्त्रार्थज्ञानसिद्धिदाय । स्वनमस्कारमात्रेणसर्वकाम्यार्थसिद्धिदाय । स्वभक्तानां दुराचारसहसनाय ।सुस्मिताननाय । सर्वतन्त्रस्वतन्त्राय नमः । ९६०ॐ सुधीन्द्रकरकञ्जजाय नमः । सिद्धिदाय । सिद्धसङ्कल्पाय ।सिद्धार्थाय । सिद्धिसाधनाय । स्वप्नवक्त्रे । स्वादुवृत्तये ।स्वस्तिदात्रे । सभाजयिने । सीमावते । सुरभये । सूनुदात्रे ।सूनृतभाषणाय । सुग्रीवाय । सुमनसे । स्निग्धाय । सूचकाय ।सेवकेष्टदाय । सेतवे । स्थैर्यचराय (स्वैरचराय) नमः । ९८०ॐ सौम्यसौम्याय नमः । सौभाग्यदायकाय । सोमभासे । सम्मताय ।सन्धिकर्त्रे । संसारसौख्यदाय । सङ्ख्यावते । सङ्गरहिताय ।सङ्ग्रहिणे । सन्ततिप्रदाय । स्मृतिमात्रेण सन्तुष्टाय ।सर्वविद्याविशारदाय । सुकुलाय । सुकुमाराङ्गाय । सिंहसंहननाय ।हरिसेवापराय । हारमण्डिताय । हठवर्जिताय । हिताय । हुताग्नयेनमः । १०००ॐ हेतवे नमः । हेमदाय । हैमपीठगाय । हृदयालवे । हर्षमाणाय ।होत्रे । हंसाय । हेयघ्ने । ललिताय । लब्धनिर्वाणाय । लक्ष्म्यै ।लावण्यलक्षिताय । क्षमाशीलाय । क्षामहराय । क्षितिस्थाय ।क्षीणपातकाय । क्षुद्रबाधापहर्त्रे । क्षेत्रज्ञाय । क्षेमदाय ।क्षमाय नमः । १०२०ॐ क्षोदहन्त्रे नमः । क्षौद्रदृष्टये । भक्तकृतागसां क्षन्त्रे ।भौम्यं कृष्णावधूतोक्तं गुरोर्नामसहस्रकम् ।कार्णादिक्या गिरा हयवदनेन प्रकाशितम् ॥इति सोन्दूर श्रीकृष्ण अवधूतविरचिता श्रीराघवेन्द्रसहस्रनामावलिः सम्पूर्णा ।श्रीकृष्णार्पणमस्तु । N/A References : N/A Last Updated : January 19, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP