मराठी मुख्य सूची|स्तोत्रे|सहस्रनामावली|
ॐ ह्रीं श्रीं क्लीं गणाध्...

महागणपतिसहस्रनामावलिः - ॐ ह्रीं श्रीं क्लीं गणाध्...

हिंदू देवी देवतांची एक हजार नावे म्हणजेच सहस्त्रनामावली. हिंदू धर्मिय रोज सकाळी संध्याकाळी या नावांचा जप करतात.

A sahasranamavali is a type of Hindu scripture in which a diety is referred to by 1000 or more different names.Many devout Hindus chant them every morning or evening.


ॐ ह्रीं श्रीं क्लीं गणाध्यक्षाय नमः । ग्लौं गं गणपतये । गुणिने । गुणाद्याय । निर्गुणाय । गोप्त्रे । गजवक्त्राय । विभावसवे । विश्वेश्वराय । विभादीप्ताय । दीपनाय । धीवराय । धनिने । सदाशान्ताय । जगत्ताताय । विश्वक्सेनाय । विभाकराय । विस्रम्भिने । विजयिने । वैद्याय । वारान्निधये । अनुत्तमाय । अणीयते । विभविने । श्रेष्ठाय । ज्येष्ठाय । गाथाप्रियाय । गुरवे । सृष्टिकर्त्रे । जगद्धर्त्रे । विश्वभर्त्रे । जगन्निधये । पतये । पीतविभूषाङ्गाय । रक्ताक्षाय । लोहिताम्बराय । विरूपाक्षाय । विमानस्थाय । विनयाय । सनयाय । सुखिने । सुरूपाय । सात्त्विकाय । सत्याय । शुद्धाय । शङ्करनन्दनाय । नन्दीश्वराय । सदा(जया)नन्दिने । वन्दि(न्दी)स्तुत्याय । विचक्षणाय । दैत्यमर्दिने । मदाक्षीबाय । मदिरारुणलोचनाय । सारात्मने । विश्वसाराय । विश्वचारिणे । विलेपनाय । परंब्रह्मणे । परञ्ज्योतये । साक्षिणे । त्र्यक्षाय । विकत्थनाय । वीरेश्वराय । वीरहर्त्रे । सौभाग्याय । भाग्यवर्धनाय । भृङ्गिरीटिने । भृङ्गमालिने । भृङ्गकूजिताय । भृङ्गनादिताय । विनर्तकाय । विनेत्रे (विनेतापिने) । विनतानन्दनार्चिताय । वैनतेयाय । विनम्राङ्गाय । विश्वनेत्रे । विनायकाय । विराटकाय । विराटाय । विदग्धाय । विधिरात्मभुवे । पुष्पदन्ताय । पुष्पहारिणे । पुष्पमालाविभूषणाय । पुष्पेषुर्मथनाय । पुष्टाय । विकर्त्रे । कर्तरीकराय । अन्त्याय । अन्तकाय । चित्तगणाय । चित्ताय । चिन्तापहारकाय । अचिन्त्याय । अचिन्त्यरूपाय । चन्दनाकुलाय । मुण्डकाय । लिपिताय । लोहिताय । लुप्ताय नमः । १०० ॥

ॐ लोहिताक्षाय नमः । विलोभकाय । लुब्धाशयाय । लोभरताय । लाभदाय । अलङ्घ्यगात्रकाय । सुन्दराय । सुन्दरीपुत्राय । समस्तासुरघातना(का)य । नूपुराढ्याय । विभवदाय । नराय । नारायणाय । रवये । विचारिणे । वान्तदाय । वाग्मिने । वितर्किने । विजयेश्वराय । सुप्ताय । बुद्धाय । सदारूपाय । सुखदाय । सुखसेविताय । विकर्तनाय । वियच्चारिणे । विनटाय । नर्तकाय । नटाय । नाट्याय । नाट्यप्रियाय । नादाय । अनन्ताय । अनन्तगुणात्मकाय । विश्वभुवे । विश्वघातिने । विनतास्याय । विनर्तकाय । करालाय । कामदाय । कान्ताय । कमनीयाय । कलाधराय । कारुण्यरूपाय । कुटिलाय । कुलाचारिणे । कुलेश्वराय । विकरालाय । गणश्रेष्ठाय । संहाराय । हारभूषणाय । रुरवे । रम्यमुखाय । रक्ताय । रेवतीदयिताय । रसाय । महाकालाय । महादंष्ट्राय । महोरगभयापहाय । उन्मत्तरूपाय । कालाग्नये । अग्निसूर्येन्दुलोचनाय । सितास्याय । सितमाल्याय । सितदन्ताय । सितांशुमते । असितात्मने । भैरवेशाय । भाग्यवते । भगवते । भगाय । भर्गात्मजाय । भगावासाय । भगदाय । भगवर्धनाय । शुभङ्कराय । शुचये । शान्ताय । श्रेष्याय । श्रव्याय । शचीपतये । वेदाद्याय । वेदकर्त्रे । वेदवेद्याय । सनातनाय । विद्याप्रदाय । वेदसाराय । वैदिकाय । वेदपारगाय । वेदध्वनिरताय । वीराय । वराय । वेदागमार्थविदे । तत्त्वज्ञाय । सवर्गाय । साधवे । सदे । असन्मयाय । निरामयाय । निराकाराय नमः । २०० ॥

ॐ निर्भयाय नमः । नित्यरूपभृते । निर्वैराय । वैरिविध्वंसिने । मत्तवारणसन्निभाय । शिवङ्कराय । शिवसुताय । शिवाय । सुखविवर्धनाय । श्वैत्याय । श्वेताय । शतमुखाय । मुग्धाय । मोदकभोजनाय । देवदेवाय । दिनकराय । धृतिमते । द्युतिमते । धवाय । शुद्धात्मने । शुद्धमतिमते । शुद्धदीप्तये । शुचिव्रताय । शरण्याय । शौनकाय । शूराय । शरदम्भोजधारकाय । दारकाय । शिखिवाहेष्टाय । शीताय । शङ्करवल्लभाय । शङ्कराय । निर्भवा(या)य । नित्याय । लयकृताय । लास्यतत्पराय । लूताय । लीलारसोल्लासिने । विलासिने । विभ्रमाय । भ्रमाय । भ्रमणाय । शशभृते । सूर्याय । शनये । धरणिनन्दनाय । बुद्धाय । विबुधसेव्याय । बुधराजाय । बलन्धराय । जीवाय । जीवप्रदाय । जैत्राय । स्तुत्याय । नुत्याय । नतिप्रियाय । जनकाय । जिनमार्गज्ञाय । जैनमार्गनिवर्तकाय । गौरीसुताय । गुरुरवाय । गौराङ्गाय । गजपूजिताय । परंपदाय । परंधामाय । परमात्मने । कवये । कुजाय । राहवे । दैत्यशिरश्छेदिने । केतवे । कनककुण्डलाय । ग्रहेन्द्राय । ग्राहिताय । ग्राह्याय । अग्रणये । घुर्घुरनादिताय । पर्जन्याय । पीवराय । पोत्रिने । पीनवक्षाय । परार्जिताय । वनेचराय । वनपतये । वनवासाय । स्मरोपमाय । पुण्याय । पूताय । पवित्राय । परात्मने । पूर्णविग्रहाय । पूर्णेन्दवे । शकलाकाराय । मन्यवे । पूर्णमनोरथाय । युगात्मने । युगभृते । यज्वाय । याज्ञिकाय । यज्ञवत्सलाय नमः । ३०० ॥

ॐ यशस्विने नमः । यजमानेष्टाय । व्रजभृते । वज्रपञ्जराय । मणिभद्राय । मणिमयाय । मान्याय । मीनध्वजाश्रिताय । मीनध्वजाय । मनोहारिणे । योगिनां योगवर्धनाय । द्रष्ट्रे । स्रष्ट्रे । तपस्विने । विग्रहिणे । तापसप्रियाय । तपोमयाय । तपोमूर्तये । तपनाय । तपोधनाय । रुचकाय । मोचकाय । रुष्टाय । तुष्टाय । तोमरधारकाय । दण्डिने । चण्डांशवे । अव्यक्ताय । कमण्डलुधराय । अनघाय । कामिने । कर्मरताय । कालाय । कोलाय । क्रन्दितदिक्तटाय । भ्रामकाय । जातिपूज्याय । जाड्यघ्ने । जडसूदनाय । जालन्धराय । जगद्वासिने । हासकृते । हवनाय । हवये । हविष्मते । हव्यवाहाक्षाय । हाटकाय । हाटकाङ्गदाय । सुमेरवे । हिमवते । होत्रे । हरपुत्राय । हलङ्कषाय । हालाप्रियाय । हृदाशान्ताय । कान्ताहृदयाय । पोषणाय । शोषणाय । क्लेशघ्ने । क्रूराय । कठोराय । कठिनाकृतये । कूवराय । धीमयाय । ध्यात्रे । ध्येयाय । धीमते । दयानिधये । दविष्ठाय । दमनाय । द्युस्थाय । दात्रे । त्रात्रे । सिताय । समाय । निर्गताय । नैगमिने । गम्याय । निर्जेयाय । जटिलाय । अजराय । जनजीवाय । जितारातिने । जगद्व्यापिने । जगन्मयाय । चामीकरनिभाय । अनाद्याय । नलिनायतलोचनाय । रोचनाय । मोचनाय । मन्त्रिणे । मन्त्रकोटिसमाश्रिताय । पञ्चभूतात्मकाय । पञ्चसायकाय । पञ्चवक्त्रकाय । पञ्चमाय । पश्चिमाय । पूर्वाय । पूर्णाय । कीर्णालकाय नमः । ४०० ॥

ॐ कुणये नमः । कठोरहृदयाय । ग्रीवालङ्कृताय । ललिताशयाय । लोलचित्ताय । बृहन्नासाय(सिने) । मासरूपाय(पवते) । पक्षरूपाय(पवते) । ऋतुरूपाय(पवते) । ध्रुवाय । द्रुतगतये । धर्म्याय । धर्मिने । नाकिप्रियाय । अनलाय । अगस्त्याय । ग्रस्तभुवनाय । भुवनैकमलापहाय । सागराय । स्वर्गतये । स्वक्षाय । सानन्दाय । साधुपूजिताय । सतीपतये । समरसाय । सनकाय । सरलाय । सुराय । सुराप्रियाय । वसुपतये । वासवाय । वसुपूजिताय । वित्तदाय । वित्तनाथाय । धनिनां धनदायकाय । राजिने । राजीवनयनाय । स्मृतिदाय । कृत्तिकाम्बराय । आश्विनाय । अश्वमुखाय । शुभ्राय । भरणाय । भरणीप्रियाय । कृत्तिकासनगाय । कोलाय । रोहिणे । रोहणपादुकाय । ऋभुवेष्टाय । अरिमर्दिने । रोहिणीमोहनाय । अमृताय । मृगराजाय । मृगशिराय(रसे) । माधवाय । मधुरध्वनये । आर्द्राननाय । महाबुद्धये । महोरगविभूषणाय । भ्रूक्षेपदत्तविभवाय । भ्रूकरालाय । पुनर्मयाय । पुनर्देवाय । पुनर्जेत्रे । पुनर्जीवाय । पुनर्वसवे । तित्तिरये(राय) । तिमिकेतवे । तिमिचारकघातनाय । तिष्यस्तुलाधराय । जम्भ्यो । विश्लेषाय । (अ)श्लेषाय । एणराजे । मानदाय । माधवाय । माघाय । वाचालाय । मघवोपमाय । मेध्याय । मघाप्रियाय । मेघाय । महामुण्डाय । महाभुजाय । पूर्वफाल्गुनिकाय । स्फीताय । फल्गुरुत्तराय । फाल्गुनाय । फेनिलाय । ब्रह्मदाय । ब्रह्मणे । सप्ततन्तुसमाश्रयाय । घोणाहस्ताय । चतुर्हस्ताय । हस्तिवक्त्राय । हलायुधाय । चित्राम्बराय । अर्चितपदाय । स्वादिताय । स्वातिविग्रहाय नमः । ५०० ॥

ॐ विशाखाय नमः । शिखिसेव्याय । शिखिध्वजसहोदराय । अणवे । रेणवे । कलास्फाराय । अनूरुवे । रेणुसुताय । नराय । अनुराधाप्रियाय । राध्याय । श्रीमते । शुक्ला(क्रा)य । शुचिस्मिताय । ज्येष्ठाय । श्रेष्ठार्चितपदाय । मूलाय । त्रिजगते(ताय) । गुरवे । शुचये । पूर्वाषाढाय । उत्तराषाढाय । ईश्वराय । श्रव्याय । अभिजिताय । अनन्तात्मने । श्रवाय । वेपितदानवाय । श्रावणाय । श्रवणाय । श्रोत्रे । धनिने । धन्याय । धनिष्ठकाय । शातातपाय । शातकुम्भाय । शतञ्ज्योतये । शतम्भिषजे । पूर्वाभाद्रपदाय । उत्तरभाद्रपदाय । भाद्रपादिताय । रेणुकातनयाय । रामाय । रेवतीरमणाय । रमिणे । अश्वियुजे । कार्तिकेयेष्टाय । मार्गशीर्षाय । मृगोत्तमाय । पुष्यशौर्याय । फाल्गुनात्मने । वसन्ताय । चित्रकाय । मधवे । राज्यदाय । अभिजितात्मीयाय । तारेशाय । तारकद्युतये । प्रतीताय । प्रोज्झिताय । प्रीताय । परमाय । पारमाय । हिताय । परघ्ने । पञ्चभुवे । पञ्चवायवे । पूज्याय । परंमहाय । पुराणागमविदे । योग्याय । महिषाय । रासभाय । अग्रगाय । ग्राहाय । मेषाय । वृषाय । मन्दाय । मन्मथाय । मिथुनार्चिताय । कल्कभृते । कटकाय । दीनाय । मर्कटाय । कर्कटाय । घृणिने । कुक्कुटाय । वनजाय । हंसाय । परंहंसाय । श‍ऋगालकाय । सिंहाय । सिंहासनाय । मूषाय । मोह्याय । मूषकवाहनाय । पुत्रदाय । नरकत्रात्रे । कन्याप्रीताय । कुलोद्वहाय नमः । ६०० ॥

ॐ अतुल्यरूपाय नमः । बलदाय । तुलाभृते । तुल्यसाक्षिकाय । अलिचापधराय । धन्विने । कच्छपाय । मकराय । मणये । स्थिराय । प्रभवे । महाकर्मिणे । महाभोगिने । महायशसे । वसुमूर्तिधराय । व्यग्रोऽसुरहारिणे । यमान्तकाय । देवाग्रणये । गणाध्यक्षाय । अम्बुजालाय । महामतये । अङ्गदिने । कुण्डलिने । भक्तिप्रियाय । भक्तविवर्धनाय । गाणपत्यप्रदाय । मायिने । वेदवेदान्तपारगाय । कात्यायनीसुताय । ब्रह्मपूजिताय । विघ्ननाशनाय । संसारभयविध्वंसिने । महोरस्काय । महीधराय । विघ्नान्तकाय । महाग्रीवाय । भृशाय । मोदकमोदिताय । वाराणसीप्रियाय । मानिने । गहनाय । आखुवाहनाय । गुहाश्रयाय । विष्णुपदीतनयाय । स्थानदाय । ध्रुवाय । परर्द्धिस्तुष्टाय । विमलाय । मौलिमते । वल्लभाप्रियाय । चतुर्दशीप्रियाय । मान्याय । व्यवसायाय । मदान्विताय । अचिन्त्याय । सिंहयुगलनिविष्टाय । बालरूपधृते । धीराय । शक्तिमतां श्रेष्ठाय । महाबलसमन्विताय । सर्वात्मने । हितकृते । वैद्याय । महाकुक्षये । महामतये । करणाय । मृत्युहारिणे । पापसङ्घनिवर्तकाय । उद्भिदे । वज्रिणे । महादैत्यसूदनाय । दीनरक्षकाय । भूतचारिणे । प्रेतचारिणे । बुद्धिरूपाय । मनोमयाय । अहङ्कारवपवे । साङ्ख्यपुरुषाय । त्रिगुणात्मकाय । तन्मात्ररूपाय । भूतात्मने । इन्द्रियात्मने । वशीकराय । मलत्रयबहिर्भूताय । अवस्थात्रयवर्जिताय । नीरूपाय । बहुरूपाय । किन्नराय । नागाय । विक्रमाय । एकदन्ताय । महावेगाय । सेनानिने । त्रिदशाधिपाय । विश्वकर्त्रे । विश्वबीजाय । श्रीःसम्पदाय । ह्रीःधृतये । मतये । सर्वशोषकराय नमः । ७०० ॥

ॐ वायवे नमः । सूक्ष्मरूपाय । सुनिश्चलाय । संहर्त्रे । सृष्टिकर्त्रे । स्थितिकर्त्रे । लयाश्रिताय । सामान्यरूपाय । सामास्याय । अथर्वशीर्षाय । यजुर्भुजाय । ऋगीक्षणाय । काव्यकर्त्रे । शिक्षाकारिणे । निरुक्तविदे । शेषरूपधराय । मुख्याय । शब्दब्रह्मस्वरूपभाजे । विचारवते । शङ्खधारिणे । सत्यव्रतपरायणाय । महातपे । घोरतपे । सर्वदाय । भीमविक्रमाय । सर्वसम्पत्कराय । व्यापिने । मेघगम्भीरनादभृते । समृद्धाय । भूतिदाय । भोगिने । वेशिने । शङ्करवत्सलाय । शम्भुभक्तिरताय । मोक्षदात्रे । भवदवानलाय । सत्यस्तपा । ध्येयमूर्तये । कर्ममूर्तये । महते । समष्टिरूपाय । व्यष्टिरूपाय । पञ्चकोशपराङ्मुखाय । तेजोनिधये । जगन्मूर्तये । चराचरवपुर्धराय । प्राणदाय । ज्ञानमूर्तये । नादमूर्तियुताय । अक्षराय । भूताद्याय । तैजसाय । भावाय । निष्कलाय । निर्मलाय । कूटस्थाय । चेतनाय । रुद्राय । क्षेत्रविदे । पुरुषाय । बुधाय । अनाधाराय । अनाकाराय । धात्रे । विश्वतोमुखाय । अप्रतर्क्यवपवे । स्कन्दानुजाय । भानवे । महाप्रभाय । यज्ञहर्त्रे । यज्ञकर्त्रे । यज्ञानां फलदायकाय । यज्ञगोप्त्रे । यज्ञमयाय । दक्षयज्ञविनाशकृते । वक्रतुण्डाय । महाकायाय । कोटिसूर्यसमप्रभाय । एकदंष्ट्राय । कृष्णपिङ्गाय । विकटाय । धूम्रवर्णकाय । टङ्कधारिणे । जम्बुकाय । नायकाय । शूर्पकर्णकाय । सुवर्णगर्भाय । सुमुखाय । श्रीकराय । सर्वसिद्धिदाय । सुवर्णवर्णाय । हेमाङ्गाय । महात्मने । चन्दनाय । छवये । स्वङ्गाय । स्वक्षाय । शतानन्दाय । लोकविग्रहाय । विल्लोकविग्रहाय नमः । ८०० ॥

ॐ इन्द्राय नमः । जिष्णवे । धूमकेतवे । वह्नये । पूज्याय । दवान्तकाय । पूर्णानन्दाय । परानन्दाय । पुराणाय । पुरुषोत्तमाय । कुम्भभृते । कलशिने । कुब्जाय । मीनमांससुतर्पिताय । राशिमयस्थितिरूपाय । तारामयस्थितिरूपाय । ग्रहमयस्तिथिरूपाय । जगद्विभवे । प्रतापिने । प्रतिपत्प्रेयते । द्वितीयाय । अद्वैतनिश्चिताय । त्रिरूपाय । तृतीयाग्नये । त्रयीरूपाय । त्रयीतनवे । चतुर्थीवल्लभाय । देवाय । पारगाय । पञ्चमीरवाय । षड्रसास्वादकाय । अजाताय । षष्ठिने । षष्टिकवत्सराय । सप्तार्णवगतये । साराय । सप्तमीश्वराय । ईहिताय । अष्टमीनन्दनाय । अनार्तो । नवमीभक्तिभाविताय । दशदिक्पतिपूज्याय । दशमिने । द्रुहिणाय । द्रुताय । एकादशात्मने । गणपाय । द्वादशीयुगचर्चिताय । त्रयोदशमनुस्तुत्याय । चतुर्दशसुरप्रियाय । चतुर्दशेन्द्रसंस्तुत्याय । पूर्णिमानन्दविग्रहाय । दर्शादर्शाय । दर्शनाय । वानप्रस्थाय । मुनीश्वराय । मौनिने । मधुरवाङ्मूलाय । मूर्तिमते । मेघवाहनाय । महागजाय । जितक्रोधाय । जितशत्रवे । जयाश्रयाय । रौद्राय । रुद्रप्रियाय । रुक्माय । रुद्रपुत्राय । अघतापनाय । भवप्रियाय । भवानीष्टाय । भारभृते । भूतभावनाय । गान्धर्वकुशलाय । अकुण्ठाय । वैकुण्ठाय । विष्णुसेविताय । वृत्रघ्ने । विघ्नघ्ने । सीराय । समस्तदुरितापहाय । मञ्जुलाय । मार्जनाय । मत्ताय । दुर्गापुत्राय । दुरालसाय । अनन्तचित्सुधाधाराय । वीराय । वीर्यैकसाधकाय । भास्वन्मुकुटमाणिक्याय । कूजत्किङ्किणिजालकाय । शुण्डाधारिणे । तुण्डचलाय । कुण्डलिने । मुण्डमालकाय । पद्माक्षाय । पद्महस्ताय । पद्मनाभसमर्चिताय । उद्गीथाय । नरदन्ताढ्यमालाभूषणभूषिताय नमः । ९०० ॥

ॐ नारदाय नमः । वारणाय । लोलश्रवणाय । शूर्पकश्रवाय । बृहदुल्लासनासाढ्यव्याप्तत्रैलोक्यमण्डलाय । इलामण्डलसम्भ्रान्तकृतानुग्रहजीवकाय । बृहत्कर्णाञ्चलोद्भूतवायुवीजितदिक्तटाय । बृहदास्यरवाक्रान्तभीमब्रह्माण्डभाण्डकाय । बृहत्पादसमाक्रान्तसप्तपातालवेपिताय । बृहद्दन्तकृतात्युग्ररणानन्दरसालसाय । बृहद्धस्तधृताशेषायुधनिर्जितदानवाय । स्फुरत्सिन्दूरवदनाय । स्फुरत्तेजोऽग्निलोचनाय । उद्दीपितमणिस्फूर्जन्नूपुरध्वनिनादिताय । चलत्तोयप्रवाहाढ्यनदीजलकणाकुलाय । भ्रमत्कुञ्जरसङ्घातवन्दिताङ्घ्रिसरोरुहाय । ब्रह्माच्युतमहारुद्रपुराय । सरसुरार्चिताय । अशेषशेषप्रभृतिव्यालजालोपसेविताय । गूर्जत्पञ्चाननारावप्राप्ताकाशधरातलाय । हाहाहूहूकृतात्युग्रसुरविभ्रान्तमानसाय । पञ्चाशद्वर्णबीजाढ्यमन्त्रमन्त्रितविग्रहाय । वेदान्तशास्त्रपीयूषधाराप्लावितभूतलाय । शङ्खध्वनिसमाक्रान्तपातालादिनभस्तलाय । चिन्तामणये । महामल्लाय । भल्लहस्ताय । बलये । कलये । कृतत्रेतायुगोल्लासभासमानजगत्त्रयाय । द्वापराय । परलोकैककर्मध्वान्तसुधाकराय । सुधासिक्तवपुर्व्याप्तब्रह्माण्डादिकटाहकाय । अकारादिक्षकारान्तवर्णपङ्क्तिसमुज्ज्वलाय । अकाराकारप्रोद्गीततारनादनिनादिताय । इकारेकारमन्त्राढ्यमालाभ्रमणलालसाय । उकारोकारप्रोद्गारिघोरनागोपवीतकाय । ऋवर्णाङ्कितॠकारपद्मद्वयसमुज्ज्वलाय । लृकारयुतलॄकारशङ्खपूर्णदिगन्तराय । एकारैकारगिरिजास्तनपानविचक्षणाय । ओकारौकारविश्वादिकृतसृष्टिक्रमालसाय । अंअःवर्णावलीव्याप्तपादादिशीर्षमण्डलाय । कर्णतालकृतात्युच्चैर्वायुवीजितनिर्जराय । खगेशध्वजरत्नाङ्ककिरीटारुणपादकाय । गर्विताशेषगन्धर्वगीततत्परश्रोत्रकाय । घनवाहनवागीशपुरःसरसुरार्चिताय । ङवर्णामृतधाराढ्यशोभमानैकदन्तकाय । चन्द्रकुङ्कुमजम्बाललिप्तसुन्दरविग्रहाय । छत्रचामररत्नाढ्यमुकुटालङ्कृताननाय । जटाबद्धमहानर्घमणिपङ्क्तिविराजिताय । झाङ्कारिमधुपव्रातगाननादनिनादिताय । ञवर्णकृतसंहारदैत्यासृक्पूर्णमुद्गराय । टङ्कारुकफलास्वादवेपिताशेषमूर्धजाय । ठकाराढ्यडकाराङ्कढकारानन्दतोषिताय । णवर्णामृतपीयूषधाराधरसुधाधराय । ताम्रसिन्दूरपुञ्जाढ्यललाटफलकच्छवये । थकारधनपङ्क्त्याढ्यसन्तोषितद्विजव्रजाय । दयामयहृदम्भोजधृतत्रैलोक्यमण्डलाय । धनदादिमहायक्षसंसेवितपदाम्बुजाय । नमिताशेषदेवौघकिरीटमणिरञ्जिताय । परवर्गापवर्गादिमार्गच्छेदनदक्षकाय । फणिचक्रसमाक्रान्तगलमण्डलमण्डिताय । बद्धभ्रूयुगभीमोग्रसन्तर्जितसुरासुराय । भवानीहृदयानन्दवर्धनैकनिशाकराय । मदिराकलशस्फीतकरालैककराम्बुजाय । यज्ञान्तरायसङ्घातघातसज्जीकृतायुधाय । रत्नाकरसुताकान्तकान्तिकीर्तिविवर्धनाय । लम्बोदरमहाभीमवपुर्दीनीकृतासुराय । वरुणादिदिगीशानरचितार्चनचर्चिताय । शङ्करैकप्रियप्रेमनयनानन्दवर्धनाय । षोडशस्वरितालापगीतगानविचक्षणाय । समस्तदुर्गतिसरिन्नाथोत्तारणकोडुपाय । हरादिब्रह्मवैकुण्ठब्रह्मगीतादिपाठकाय । क्षमापूरितहृत्पद्मसंरक्षितचराचराय । ताराङ्कमन्त्रवर्णैकविग्रहोज्ज्वलविग्रहाय । अकारादिक्षकारान्तविद्याभूषितविग्रहाय । ॐ श्रीं विनायकाय । ॐ ह्रीं विघ्नाध्यक्षाय । गणाधिपाय । हेरम्बाय । मोदकाहाराय । वक्त्रतुण्डाय । विधिस्मृताय । वेदान्तगीताय । विद्यार्थिने । शुद्धमन्त्राय । षडक्षराय । गणेशाय । वरदाय । देवाय । द्वादशाक्षरमन्त्रिताय । सप्तकोटिमहामन्त्रमन्त्रिताय । अशेषविग्रहाय । गाङ्गेयाय । गणसेव्याय । ॐश्रीद्वैमातुराय । शिवाय । ॐ ह्रीं श्रीं क्लीं ग्लौं गं देवाय । महागणपतये । प्रभवे नमः । १००० ॥

इति रुद्रयामलतन्त्रे देवीरहस्ये महागणपतिसहस्रनामस्तोत्रव्युत्पन्ना
महागणपतिसहस्रनामावलिः सम्पूर्णा ।

(रुद्रयामलतन्त्रे देवीरहस्ये महागणपतिसहस्रनामस्तोत्रव्युत्पन्ना)


N/A

References : N/A
Last Updated : January 18, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP