मराठी मुख्य सूची|स्तोत्रे|सहस्रनामावली| कालोऽहम् । अस्य श्रीकालना... सहस्रनामावली ब्रह्मानन्दं परमसुखदं केव... अथ मूलम् । ॐ श्रीं ह्रीं ... ॐ श्रीगणेशाय नमः । श्वेता... श्रीअरुणाचलेश्वरसहस्रनामावली अर्धनारीश्वरसहस्रनामावलिः ॐ हिरण्यबाहवे हिरण्यवर्णा... श्रीहनुमत्सहस्रनामावलिः ॐ श्रीगणेशाय नमः । ॐ ब्र... ॐ इन्द्राय नमः । देवतमाय ... ॐ श्रीगणेशाय नमः । ॐ नमोद... ॐ अस्य श्रीसर्वसाम्राज्यम... ध्यानम् । कान्त्या काञ्चन... ॐ श्रीगणेशाय नमः । ॐ नका... ॐ अस्य कामकलाकालीसहस्रनाम... श्री गणेशाय नमः । श्रीकाम... कालोऽहम् । अस्य श्रीकालना... शिव उवाच- नाम्नां सहस्रं ... ॐ श्मशानकालिकायै नमः । ॐ ... अथ कुञ्चितपादसहस्रनामावलि... धनं दारान्सुतान्क्षेत्रं ... षड्वक्त्रं शिखिवाहनं त्रि... ॐ कृष्णाय नमः । श्रीवल्लभ... ॐ अस्य श्रीपुराणपुरुषोत्त... श्रीगणेशाय नमः । श्रीकेदा... सितमकरनिषण्णां शुभ्रवर्णा... श्रीगणेशाय नमः । श्रीसमर्... ॐ अस्य श्रीगणपतिगकारादिसह... ॐ सुमुखाय नमः । सुवहाय । ... ध्यानम् रक्तश्वेतहिरण्यनी... ध्यानम् - रक्तश्वेतहिरण्य... ॐ शं शां षं ह्रीं क्लीं ग... अथ ध्यानम् । सूर्यस्पर्धि... ॐ श्री गुरुभ्यो नमः । गुर... ॐ श्रीगणेशाय नमः । सर्वत्... अथ श्रीगोपालदिव्यसहस्रनाम... ॐ गवे नमः । ॐ गौविन्द्यै ... श्रीगुरुभ्यो नमः । श्रीका... ॐ अस्य श्रीप्रचण्डचण्डिका... अथ श्रीयोगेश्वरकवि द्वारा... अस्य श्रीज्वालामुखीसहस्रन... विश्वव्यापकवारिमध्यविलसच्... ॐ अस्य श्रीतारासहस्रनामस्... ॐ भुवनेश्यै नमः । ॐ भुवार... ॐ अस्य श्रीमहोग्रतारा दिव... वरिष्ठ उवाच - कथं नामसहस्... ॐ तुलस्यै नमः । ॐ श्रीप्र... ॐ श्रीमत्त्यागमहाराजाय नम... श्रीगणपतये नमः । ॐ अनेजते... ध्यानम् । उद्यद्भानुसहस्र... ॐ योगेशाय नमः । ॐ अमरप्रभ... महाकालभैरव ऋषिस्त्रिष्टुप... अस्य श्रीदक्षिणामूर्तिसहस... ॐ आदिदेवाय नमः । दयासिन्ध... ध्यानम् । स्फटिकरजतवर्णां... ऋषिच्छन्दांसि - अस्य श्री... तन्त्रराजतन्त्रे पूर्वपीठ... ध्यानम् । १. सिंहस्था शशि... महामन्त्रस्य श्रीमहेश्वर ... ध्यानम् - रक्ताभां रक्तवस... ॐ श्रीमते नमः । ॐ धन्वन्त... ॐ नमो भगवते भूतनाथाय । ॐ ... ध्यानम् । विवर्णा चञ्चला ... अस्य श्री शिवकामसुन्दरीसम... ॐ अस्य श्रीनटेशसहस्रनामस्... ॐ श्री गणेशाय नमः । अस्य ... श्री गुरुभ्यो नमः । ॐ श्र... श्री गुरुभ्यो नमः । ॐ श्र... ॥ ध्यानम् ॥ श्रीमित्रेश्... श्रीराधासर्वेश्वरो विजयते... पद्मावतीशतम् ॐ श्री पद्मा... ॐ श्रीगणेशाय नमः । ॐ अस्य... अथ विनियोगः । ॐ अस्य श्री... अथ अकारादि-क्षकारान्तासहस... ॐ शिवायै नमः । उमायै । पर... ॐ श्रीकृष्णाय नमः । सच्चि... अस्य श्रीप्रणवसहस्रनामस्त... ईश्वर उवाच । शृणु देवि प... ॐ ब्रह्मास्त्राय नमः । ॐ ... श्रीमहादेव उवाच - अस्य श्... विनियोगः - ॐ अस्य श्रीबटु... रुद्रयामलोक्तबटुकभैरवसहस्... ॐ अस्य श्रीबलभद्रसहस्रनाम... ॐ ऐं ह्रीं श्रीं-आनन्दसिन... शौनक उवाच - कैलासशिखरे रम... श्रीदेव्युवाच - भगवन्भाषि... ओं ऐं ह्रीं श्रीङ्कल्याण्... ॐ परमात्मने नमः ॐ धर्मक्... ॐ निस्सीमोद्यद्गुणाय नमः ... ॐ क्रकुच्छन्दाय नमः । ॐ क... ध्यानम् - बालार्कमण्डलाभा... विनोयोगः - ॐ अस्य श्रीभुव... प्रणवाय ब्रह्मणे उद्गीथाय... विनियोगः । ॐ अस्य श्रीमहा... श्रीः । ॐ नमश्चण्डिकायै ।... ॐ ह्रीं श्रीं क्लीं गणाध्... ॐ महामार्यै नमः । महामाया... पार्वत्युवाच - भगवन् वेदत... श्रीगणेशाय नमः । श्रीमहाल... ॐ ह्रीं ऐं ह्रीं महावाण्य... ध्यानम् श्रीमच्चन्दनचर्चि... ॐ अद्भुताय नमः । अद्भुतचा... ॐ सुमुख्यै नमः । ॐ शेमुष्... ॐ अम्बायै नमः । ॐ अम्बालि... ॐ अस्यश्री मूकाम्बिकायाः ... श्रीभैरव उवाच । अस्य श्री... अस्य श्री मेधादक्षिणामूर्... ॐ नमो भगवते दक्षिणामूर्तय... गर्गसंहितातः ॐ कालिन्द्य... अस्य श्रीयोगेश्वरीसहस्रना... ॐ योगिन्यै नमः । योगमायाय... देव्युवाच - भगवन्सर्वशास्... सोन्दूर श्रीकृष्ण अवधूतवि... वन्दे वृन्दावनानन्दा राधि... ॐ श्रीराधायै नमः । राधिका... ॐ श्रीराधायै नमः । राधिका... ॐ अस्य श्रीरामसहस्रनाममाल... ॐ आर्यश्रेष्ठाय नमः । धरा... सङ्कल्पः - यजमानः, आचम्य,... ॐ नमो भगवते वासुदेवाय । ॐ... ॐ स्थिराय नमः । स्थाणवे ।... न्यासः । अस्य श्रीरुद्रसह... अथ श्रीरेणुकातन्त्रान्तर्... सिन्दूरारुणविग्रहां त्रिन... ॐ श्रियै नमः । वासुदेवमहि... ॐ नित्यागतायै नमः । ॐ अनन... ॐ श्रीवराहाय नमः । भूवराह... ॐ वल्ल्यै नमः । ॐ वल्लीश्... ॐ श्रीवाग्मत्याः सहस्रनाम... ॐ श्रीगणेशाय नमः । श्रीनन... वराहमुख्यै विद्महे । दण्ड... ध्यानम् - ओङ्कारबीजाक्षरी... शुक्लाम्बरधरं विष्णुं शशि... ॐ क्लीं विट्टलाय नमः । पा... पूर्वन्यासः । श्रीवेदव्या... श्रीविष्णुसहस्रनामावलिः प... रुद्र उवाच । संसारसागराद... ॐ श्रीगणेशाय नमः । ॐ विष... श्रीशिवाय गुरवे श्रीवीरभ... वेङ्कटेशस्य नाम्नां हि सह... ॐ श्री गुरुभ्यो नमः । अथ ... ॐ शङ्कराय नमः । ॐ श्रीधरा... ॐ गाढध्वान्तनिमज्जनप्रमुष... ॐ अमिताभाषिणे नमः । ॐ अघह... ॐ श्रीगणेशाय नमः । ॐ श्री... विनियोगः - अस्य श्रीशारिक... अस्य श्रीशास्तृशवर्णसहस्र... ॐ अस्य श्री शिवकामसुन्दरी... अस्य श्रीशिवकामसुन्दरीसहस... ॐ अखिलेश्वर्यै नमः । अग्न... ॐ स्थिराय नमः । ॐ स्थाणवे... ॐ श्री गणेशाय नमः । अथ श्... ॐ ओङ्कारकण्ठनिलयाय नमः । ... ॐ ॐकारनिलयात्मस्थाय नमः ।... श्री विष्णुरुवाच ॐ भवाय ... अस्य श्रीशिवसहस्रनामस्तोत... ॐ सौभाग्यलक्ष्म्यै नमः । ... ॐ राधिकेशाय नमः । ॐ जगन्न... सद्गुरु श्रीधरस्वामिनाप्र... ईशानमुखपूजा- ॐ जगद्भुवे न... ॐ वचनभुवे नमः । पराय । शङ... ॐ रुद्रभुवनाय नमः । अनन्त... ॐ ब्रह्मभुवे नमः । भवाय ।... अघोर मुखपूजा । ॐ विश्वभुव... ॐ अचिन्त्य शक्तये नमः । अ... जपसाधना ॐ अस्य श्रीमहात्र... ॐ सङ्कटायै नमः । ॐ विजयाय... ॐ सङ्गीतालय-प्रतिष्ठित-भग... ॐ सीतायै नमः । उमायै । पर... ॐ श्रीचक्राय नमः । ॐ श्री... ॐ शुक्लाम्बरधरं विष्णुं श... ॐ श्री गणेशाय नमः । अस्य ... ॐ अस्य श्रीसुब्रह्मण्यसहस... बिल्वैर्वा चम्पकाद्यौर्वा... ध्यानम् - ध्येयः सदा सवित... श्रीरुद्रयामले तन्त्रे श्... श्रीसूर्यसहस्रनामावलिः ॐ सुब्रह्मण्याय । सुरेशान... ॐ नमः । ओङ्कारनमोरूपाय । ... ॐ श्रीहयग्रीवाय नमः । श्र... स्वामिनारायणं कृष्णं भक्त... १. ॐ स्थिराय नमः । २. ॐ ... ॥ श्रीदुर्गादैव्ये नम: ॥ ... १. ॐ राजीवलोचनाय नमः । ... १ ॐ अचिन्त्यलक्षणायै नमः ... १ ॐ कालिन्द्यै नमः । २ ॐ... १ ॐ अन्नपूर्णायै नमः । ... १. ॐ नारसिंहाय नमः । २. ... १ ॐ देवकीनन्दनाय नमः । २... १ ॐ क्लीं देवाय नमः । २ ... १ ॐ श्रियै नमः । २ ॐ पद्... १ ॐ हनुमते नमः । २ ॐ श्र... ॥ श्रीकृष्णाय नमः ॥ १. ॐ ... १. ॐ विश्वविदे नम: । २. ... १. ॐ गणेश्वराय नम: । २.... १. ॐ ऐं ह्रीं श्रीं श्रीम... १ ॐ सीतायै नमः । २ ॐ उमा... १ ॐ ओंकाररूपिण्यै नमः । ... १. ॐ विश्वस्मै नमः । २.ॐ... १. ॐ श्रीराधायै नमः । २.... ॐ गणपतये नमः ॥ ॥ ॐ गणेश्व... कालसहस्रनामावलिः - कालोऽहम् । अस्य श्रीकालना... हिंदू देवी देवतांची एक हजार नावे म्हणजेच सहस्त्रनामावली. हिंदू धर्मिय रोज सकाळी संध्याकाळी या नावांचा जप करतात.A sahasranamavali is a type of Hindu scripture in which a diety is referred to by 1000 or more different names.Many devout Hindus chant them every morning or evening. Tags : 1000godgoddesssahasranamavaliसहस्त्रनामावली श्री भगवान् कालसहस्रनामावलिः Translation - भाषांतर कालोऽहम् ।अस्य श्रीकालनामाष्टोत्तरसहस्रस्य अनन्त ऋषिः, अनुष्टुप् छन्दः,अक्षरात्मा देवता । द्रव्यं बीजं। खं शक्तिः, सर्वमूलं कीलकम् ।आत्मनों वाङ्मनःकायोपार्जितमननिवारणार्थ भगवान् कालप्रीत्यर्थेअमुककामनासिद्धयर्थं पाठे होमे वा विनियोगः ॥अथ न्यासः -कालोऽहं अङ्गुष्ठाभ्यां नमः इत्यादि ॥अथ प्राणायामः । कालोऽहमिति मन्त्रेण ॥अथ ध्यानम् -किरीटिनं चक्रधरं चतुर्भुजन्त्रिलोचनमक्षधरं सपात्रकम् ।द्रव्यात्मकं शून्यमयं परात्परं नमामिकालं वरदं प्रसन्नमम् ॥अथ गायत्री -द्रव्यात्मकाय विद्महे । खमात्मकाय धीमहि ।तन्नः सर्वव्यापकः प्रचोदयात् ॥अथ नामावलिः -ॐ कालाय नमः । कालकालाय । कालरूपाय । कलात्मकाय ।कलनात्मककालज्ञाय । केवलाय । कालनायकाय ।चिदानन्दक्रियाज्ञानमिच्छाशक्तिस्वरूपकाय । एकानेकाय । अद्वयाय ।नित्याय । बुद्ध्याऽऽपरिमिताय । अमिताय । अनाद्यनन्तकूटस्थाय ।पुराणाय । पुरुषोत्तमाय । शाश्वताय । शाश्वतानन्दाय । कैवल्याय ।अकेवलाय नमः । २०ॐ अकुलाय नमः । जगदीश्वराय । सूत्रात्मने । वेदात्मने ।श्रुतिपारगाय । कर्त्रे । अभोक्त्रे । सदासाक्षिणे । विधात्रे ।परमेश्वराय । त्रिकालस्थूलरूपज्ञाय । त्रिकालभ्रमकारकाय ।प्रथमाय । प्रथमशब्दाय । स्वप्रकाशाय । प्रकाशमते ।चराचरमयाय । अमायिने । सततं मुनिचिन्तिताय । एकरूपाय नमः । ४०ॐ बृहद्रूपाय नमः । सरूपाय । रूपवर्जिताय । सर्वशक्तिमयदेवाय ।सर्वात्मने । सर्वतोमुखाय । परमाय । परमानन्दाय । सर्वेशाय ।सर्वभावनाय । गोपस्थाय । गोचराय । गुप्ताय । गोपनीयाय ।गुहाशयाय । सर्वत्रसर्वगाय । सर्वाय । सुगमाय । दुर्गमाय ।अगमाय नमः । ६०ॐ श्रीस्तुताय नमः । श्रीधराय । श्रीदाय । शरणागतवत्सलाय ।सर्वसिद्धिप्रदाय । शक्ताय । विशिष्टनवसिद्धिदाय । आधिव्याधिहराय ।ईशाय । तापत्रयनिवारकाय । भक्तानां परमोपायाय । सुखानन्दाय ।सुखार्णवाय । हेमवर्णाय । चतुर्बाहवे । त्रिनेत्राय । विशदप्रभाय ।पीताम्बराय । श्वेतवाससे । कस्तूरीकुङ्कुमप्रियाय नमः । ८०ॐ ज्ञानेश्वराय नमः । ज्ञानगम्याय । ज्ञानविज्ञानचेतनाय ।ज्ञानाकाराय । ज्ञानमूर्तये । ज्ञानाज्ञानपराय । अपराय । योगेन्द्राय ।योगिराज्ञे । योगिने । योगिनां शाश्वतालयाय । कोमलाय । कुन्तलाय ।कान्ताय । कामदाय । कामकारकाय । निर्ममाय । निष्क्रियाय । अनन्ताय ।निर्विकाराय नमः । १००ॐ विकारकृते नमः । निष्कलाय । निस्पृहाय । मेध्याय ।निष्प्रपञ्चाय । निरास्पदाय । सर्वार्थाय । सर्वतोभद्राय ।सर्वकारणकारणाय । अखिलाय । निखिलानन्दाय । बुद्धिदाय ।बुद्धिसत्तमाय । सर्वश्रेष्ठगुणोपेताय । समन्ततः कामाचाराय ।प्रवीणाय । कोविदाय । प्राज्ञाय । सर्वमङ्गलमङ्गलाय ।निरालम्बाय नमः । १२०ॐ निरावासाय नमः । निराभासाय । निराश्रयाय । निरातङ्काय ।निराकामाय । निराधाराय । निराकुलाय । जगत्कर्त्रे । जगद्भर्त्रे ।जगद्धर्त्रे । जगत्पतये । जगत्त्रात्रे । जगच्छास्त्रे । जगद्बन्धवे ।जगत्पित्रे । जितेन्द्रियाय । जितप्राणाय । सर्वाग्र्याय । सर्वनायकाय ।सर्वकामप्रदाय नमः । १४०ॐ कामाय नमः । पूर्णकामाय । परन्तपाय । श्वासोच्छ्वासगतिर्यन्त्रे ।प्राणायामिने । पुरातनाय । पञ्चप्राणपतिप्राणाय । प्राणदाय ।प्राणवल्लभाय । अमूर्ताय । मूर्तिमते । मूर्तये । तुरीयाय ।तमसःपराय । अजेयाय । सर्वजिते । जेत्रे । अक्षरात्मने । क्षयाय ।अक्षयाय नमः । १६०ॐ स्वरव्यञ्जनवर्णात्मने नमः । शब्दाय । वाक्याय । रसामृताय ।वाक्पटवे । मूकाय । वाचालाय । निपुणाय । कुशलाय । अक्षमाय ।अजराय । निर्जराय । अमर्त्याय । सदास्थायिने । सनातनाय । अमराय ।विजराय । भौमाय । नित्ययुक्ताय । निरञ्जनाय नमः । १८०ॐ भीष्मरूपधराय नमः । घोराय । सर्वविघ्नविनाशनाय ।समुखाय । दुर्मुखाय । धीराय । शोकसङ्कटहारकाय । मन्त्रज्ञाय ।यन्त्रतन्त्रज्ञाय । सर्वशास्त्रविदां वराय । श्रुतिवेदाङ्गनिर्मात्रे ।निगमागमदर्शनाय । अलोकाय । लोकपालेशाय । लौकिकाय । लोकनन्दनाय ।असङ्ख्यलोकानां नियन्त्रे । सलोकाय । लोकवर्जिताय ।विश्वेश्वराय नमः । २००ॐ विश्वजीवाय नमः । विश्वनेत्राय । विशाम्पतये । पूतात्मने ।पूतकृते । पुण्याय । पुण्यशीलाय । परावराय । भूधराय ।भूपतये । भूम्ने । भरताय । भारतेश्वराय । अल्पाय । हिमालयाय ।विन्ध्याय । जलस्थलविभाजकाय । अन्तानन्ताय । विशिष्टेष्टाय ।जीवजन्तुनमस्कृताय नमः । २२०ॐ सदातुष्टाय नमः । सदाशान्ताय । सदातृप्ताय । सदार्चिताय ।महावीराय । महेष्वासाय । महापूरुषपूर्वजाय । महादेहाय ।महाबाहवे । महज्ज्योतिषे । महद्यशसे । महासीनाय । महाचित्ताय ।महासत्त्वाय । महातपसे । महानन्दाय । महाकायाय । महद्योनये ।महद्बलाय । सत्यसङ्कल्पाय नमः । २४०ॐ आरूपाय नमः । सत्यकामाय । विभूषकाय । सत्यदेवाय । सत्यशीलाय ।सत्यरूपाय । सुदर्शनाय । भूतस्थाय । सर्वभूतात्मने ।प्रत्यक्षाय । पृथक् अव्यक्तिताय । धीमयाय । असाध्यसम्भाव्याय ।सत्यसन्धाय । महाजनाय । परन्तत्त्वाय । परंज्ञानाय ।परंश्रेयसे । परम्प्रभाय । परंसत्याय नमः । २६०ॐ परन्धामाय नमः । परंशान्तये । परम्पदाय । अणवेआत्मने ।विराटात्मने । सर्व्यव्यापिने । प्रबोधकाय । अन्तस्थाय । परमाकाशाय ।चिदाकाशनिवस्थिताय । स्वयञ्जीवाय । स्वयम्बीजाय । स्वयमात्मने ।स्वयंरताय । स्वयंस्त्रष्ट्रे । स्वयम्भर्त्रे । स्वयंविपरिणामकाय ।त्रुटये । काष्ठायै । लवाय नमः । २८०ॐ यामाय नमः । पलाय । प्रहराय । दिनाय । निशायै । पक्षाय ।मासाय । ऋतवे । वर्षाय । कल्पाय । वेलान्तराय । युगाय ।स्वतन्त्राय । अनायत्ताय । स्वैरिणे । आत्मतन्त्राय । अपरायताय ।सकलाय । सकलानन्दाय । परानन्दाय नमः । ३००ॐ परोदयाय नमः । कामेशाय । कर्मठाय । अकर्त्रे । पूर्णगर्भाय ।कृषीवलाय । स्वयङ्कर्मणे । स्वयम्भोक्त्रे । स्वयन्द्रष्ट्रे ।स्वयम्मयाय । भूतेश्वराय । भूतयोनये । र्गुहाचाराय । गुहास्थिताय ।सर्वाश्चर्यमयाश्चर्याय । सर्वलोकप्रियङ्कराय । सुलभाय ।दुर्लभाय । अलभ्याय । सबलाय नमः । ३२०ॐ दुर्बलाय नमः । बलिने । अबलायै । बालिकायै । बालायै । प्रबलाय ।पुरुषाय । पुम्से । याचकाय । धनवते । दीनाय । निर्धनाय ।वसुमते । ऋणिने । प्रार्थकाय । प्रार्थनायै । भिक्षायै । भिक्षवे ।त्यागिने । बहुप्रदाय नमः । ३४०ॐ कठोराय नमः । कर्कशाय । रूक्षाय । दुरावासाय । दुरासदाय ।समस्तम्लेच्छदुष्टघ्नाय । कृतघ्नाहितध्वंसकाय । निस्सङ्गाय ।निष्पदाय । अपादाय । प्राप्याय । अप्राप्याय । चलाय । अचलाय ।शक्तिदाय । कीर्तिदाय । अधीशाय । अलक्ष्याय । लक्ष्याय ।सुलक्षणाय नमः । ३६०ॐ करणाय नमः । कारणाय । कर्मणे । कर्माकर्मप्रवर्तकाय ।बिबुधाग्रचराय । ज्ञात्रे । कार्माय । मानसगोचराय ।शब्दाशब्दमयोनादाय । शब्दातीताय । रवात्मकाय । प्रकाशाय ।दीप्तये । भायै । तेजसे । प्रभातीताय । प्रदीप्तिमते । अमोघवचनाय ।व्योम्ने । लोकमण्डलयोजकाय नमः । ३८०ॐ त्रपिष्टाय नमः । ललिताय । असक्ताय । स्वच्छन्दाय ।विश्वमोहनाय । भक्तानांसुलभावाप्तये । श्रद्धाऽऽस्तिक्यविवर्धकाय ।मोहकाय । लोभनाय । लुभ्याय । स्निग्धमुग्धाय । अतिसुन्दराय ।सदानवाय । सदालोलाय । शुचये । श्रेष्ठाय । विदुत्तमाय ।दिव्यभोगप्रदाय । भोगिने । भोगेन्द्राय नमः । ४००ॐ भगवते नमः । भगाय । आर्तदुःखहराय । त्राणाय ।मदमोहमलापहाय । अखण्डैश्वर्यसम्पन्नाय । सर्वश्रेयस्पतिपतये ।अनाथदीनानां सुनाथाय । कामभोगिनां सुकामाय । सर्वमन्त्राणांसुमन्त्राय । सर्वतन्त्रिणां सुतन्त्राय । शक्तिबीजमयाय । शून्याय ।पञ्चतत्त्वपरात्पराय । नवरूपमयाय । ज्योतिषे । अज्योतिषे ।द्योतकाय । द्युतये । बीजरूपाय नमः । ४२०ॐ महद्गर्भाय नमः । स्थावराय । जङ्गमाय । अण्डजाय ।श्रीमयाय । ह्रीमयाय । सौख्यमदोमयाय । इदम्मयाय । क्षेमानन्दाय ।क्षमाभर्त्रे । क्षमाशीलाय । क्षमायै । अक्षमायै । अध्यात्मविद्यायै ।विद्याग्र्याय । पुराणछन्दसांवराय । भेदाभेदाय । परंसूत्राय ।पतिपाशपशुत्रिकाय । प्रकाशात्मने नमः । ४४०ॐ विमर्शात्मने नमः । शैवानाम्पूर्णमीलनाय । वेदान्तिनान्नेतिनेतिसाङ्ख्ययोगविदाङ्गुरवे । अन्यधर्माणां जडमनात्मवादिनां आदिदेवाय ।आनन्त्यव्यापिने । सर्वज्ञाय । धियादुष्प्रापकीर्तिताय । शीतलाय ।शम्मयाय । शान्ताय । शान्तभद्राय । प्रसन्नभाय । दुर्जयाय ।धूर्जयानन्दाय । नीतिज्ञाय । नीतिकृते । नयाय । जयश्रिये ।जित्वराय । जिष्णवे नमः । ४६०ॐ जयदाय नमः । जयवर्धनाय । क्षिप्रक्षेमकराय । शुभ्राय ।शिवदाय । शान्तिदाय । शमाय । ऐश्वर्यशालिने । निर्लेपाय ।कल्याणाय । मङ्गलाय । शुभाय । स्थूलात्स्थूलतरस्थूलाय ।विस्तराय । अव्यापकाय । प्रसुवे । सूक्ष्मात्सूक्ष्मतराय । सूक्ष्माय ।नित्यानित्यविवस्थिताय । तडागाय नमः । ४८०ॐ तटिन्यै नमः । सिन्धवे । कूपाय । नदनदीपतये ।उदध्यर्णवकंरूपाय । शून्यसागरमन्थकाय । स्वयंसिद्धये ।स्वयंसाध्याय । स्वयंसिद्धाय । स्वयङ्कराय । स्वयङ्कर्मणे ।स्वयङ्कर्त्रे । स्वयमिष्टाय । स्वयम्फलाय । द्रव्यात्मकाय ।द्रव्यशीलाय । द्रव्यातीताय । खमात्पराय । सुतत्त्वानां आछादनाय ।पञ्चभूतावगुण्ठनाय नमः । ५००ॐ कल्लोलरहिताय नमः । अक्षुब्धाय । निःस्रोताय । निश्चलाय ।स्थिराय । बुद्धिज्ञानपरवादिने । सुविवादाय । विवेचनाय ।सार्धत्रिवलयचक्राय । मूलाधाराय । चतुर्दलाय । स्वाधिष्ठानाय ।विशुद्धाय । आज्ञायै । अनाहताय । मणिपूरकाय । आयुषे । बलाय ।यशसे । वर्चसे नमः । ५२०ॐ सुस्थाय नमः । नीरूजाय- निरूढाय । शर्मदाय । शर्माय । अव्याकुलाय ।हृदयङ्गमाय । रमाप्रियाय । रमानाथाय । ईप्सितार्थाय । फलप्रदाय ।पालकाय । पालनाय । गोपाय । कृमिकीटकरक्षित्रे । कौलेशाय ।कौलसम्पूज्याय । कौलेष्टाय । कौलवन्दिताय । कौलानुगामिनान्ताताय ।कौलाचारनिरूपकाय नमः । ५४०ॐ पुरोहिताय नमः । पुरोभागिने । पद्माक्षाय । पद्मभुवे । पटवे ।अक्षमालाधराय । रम्याय । पक्षापक्षविवर्जिताय । यशोधराय ।यशोमूर्तये । कामनीयाय । कलाधराय । यशस्विने । प्रशस्याय ।दक्षाय । सानुरागाय । प्रियाय । अप्रियाय । वरिष्ठाय वीरकाय नमः । ५६०ॐ वीराय नमः । वीरेशाय । वीरनन्दनाय । निःशस्त्राय ।शस्त्रसम्पन्नाय । निरस्त्राय । सन्नदाय । सदसे । वसन्ताय ।शिशिराय । धर्माय । शरदे । हेमन्ताय । वर्षणाय । ऋतुहर्त्रे ।ऋतुकर्त्रे । ऋतुपर्ययकारकाय । आद्यमध्यान्तरहिताय ।आधाराधेयवर्जिताय । सुधाकराय नमः । ५८०ॐ सुधाहाराय नमः । त्रिदिवातलपूजिताय ।आन्वीक्षकीत्रयीवार्तादण्डनीतिनिवाहकाय । शासनाय । शासकाय ।अलिप्ताय । धर्माध्यक्षाय । अधिनायकाय । रतिज्ञाय । रतिनीतिज्ञाय ।रतिशास्त्रविचक्षणाय । रतिशीलाय । रतिपराय । सुरताय । विरताय ।रतये । नरेश्वराय । नराराध्याय । नरपूज्याय ।नरार्थदाय नमः । ६००ॐ नरोत्तमाय नमः । नरसेव्याय । नरवन्द्याय । नराय । अनराय ।नित्यविश्वमयाय देवाय । विश्वोत्तीर्णाय । सुविश्वभृते ।नित्यचिन्मयसामन्ताय । चिन्त्याय । अचिन्त्याय । सुचिन्तिताय ।उत्तमोत्तमाय । ईशानाय । सुमदाय । निर्मदाय । मदाय । सर्वाध्यक्षाय ।सर्वकल्पाय । सर्वेशाय नमः । ६२०ॐ सर्वतारकाय नमः । एकमन्त्रमयाय । मन्त्रिणे ।कालमन्त्रप्रकाशकाय । मन्त्रमूलाय । मन्त्रवाक्याय । मन्त्रज्ञाय ।मन्त्रसाधकाय । अदःसेतवे । इदं सेतवे । सेतवे । धर्मसुदुर्गमाय ।आद्यन्तरहिताय सेतवे । खन्द्रव्यकालिनां सेतवे । अग्रगण्याय ।प्रत्युत्पन्नाय । सुभगाय । भाग्यवर्धनाय । अनुकामाय ।प्रियकामाय नमः । ६४०ॐ भामाय नमः । मोदाय । बृद्धिप्रदाय । हं बीजाय ।पृथिव्यालम्बाय । अञ्जलाय । प्रौढिरूपकाय । लं अग्निर्वायुबीजाय ।आं कं आकाशाय । ततः परं (अफ़्तेर् थत्)इस् नोत् अ नमे॥ सङ्कल्पाय ।इष्टं वाञ्छिताय । धर्माधर्माय । नृतानृताय । महाशयाय ।महज्ज्योतिषे । स्वगाकाराय । परिवृढाय । यज्ञेश्वराय ।यज्ञमूर्तये नमः । ६६०ॐ नित्यंयज्ञप्रतिष्ठिताय नमः । अध्वर्याय । होत्रे ।उद्गात्रे । याजकाय । यजनाय । हविषे । कोषेशाय । कोषदाय ।कोषाय । निधानाय । निधिनाम्पतये । अर्धरात्रिजपाय । जाप्याय ।यथेष्टफलदाय । विभवे । अलिङ्गाय । अवचनाय । धात्रे ।स्वयम्भुवे नमः । ६८०ॐ जनकाय नमः । भवाय । नानारूपधराय । अरूपाय । अनन्तबाहवे ।अनन्तदृशे । शून्याधाराय । अशून्यशीलाय । शून्यगर्भाय ।शमात्मकाय । शून्यारूढाय । शून्यरूपाय । शून्याशून्यप्रतिष्ठिताय ।दिगम्बराय । दिव्यदेहाय । धर्मात्मने । धार्मिकव्रताय । अन्तःसाक्षिणे ।बहिःसाक्षिणे । सर्वसाक्षिणे नमः । ७००ॐ अनुत्तराय नमः । सुबोधाय । सत्यप्रतिज्ञाय । श्रीप्रदाय ।पुत्रपौत्रदाय । आशापूरयित्रे । दात्रे । कुलसन्ततिवर्धनाय ।अगम्याय । अगोचराय । अभेद्याय । सिद्धार्थाय । सुकलाय । स्वभुवे ।अपक्षीयाय । उदासीनाय । दूराय । अदूराय । समाय । असमाय नमः । ७२०ॐ अतिरूपकराय नमः । सूग्राय । शत्रुघ्नाय । रिपुसूदनाय ।शीततापहराय । अपापाय । दारूणाय । कटवे । कीकसाय । आचार्याय ।शिक्षकाय । शिष्याय । पितृदेवाय । गुरोर्गुरवे । मातृदेवाय ।सुविश्वास्याय । भक्ताय । भक्तजनाय । अर्चकाय । नवमाय नमः । ७४०ॐ नवमीनाथाय नमः । नवांशाय । नवधाय । नवाय । अनङ्गाय ।हेमवर्णाङ्गाय । सुवर्णाय । अवर्णवर्णकाय । अगाधाय । सुदृढाय ।श्रीमते । वायुरूपाय । द्रवाय । जलाय । अनलाय । तत्त्वसंयुक्ताय ।विमुक्ताय । असीमिताय । अलघवे । मेधादाय नमः । ७६०ॐ तुष्टिदाय नमः । तुष्टाय । सन्तुष्टाय । विश्रुताय । शुचये ।अच्छेद्याय । अलोलुपाय । न्याय्याय । सुस्पृहाय । विमृत्यवे । वशिने ।विशुद्धलोचनाय । दर्शिने । वाङ्मनोगोचरातिगाय । सर्वस्वाय ।सर्वचैतन्याय । स्वकृताय । स्वधृताय । स्वदाय । पित्रे नमः । ७८०ॐ पुत्राय नमः । स्वस्रे । पुत्रिणे । मात्रे । भ्रात्रे । पितामहाय ।बन्धवे । मित्राय । पतये । पत्न्यै । सुसेव्याय । कर्मकारकाय ।समाजाय । निवहाय । वृन्दाय । प्रजातन्त्राय । प्रजापतये । भूपतये ।विषयाय । राष्ट्राय नमः । ८००ॐ देशभक्ताय नमः । स्वदेशभृते । अणिमादिगुणोपेताय । गुणातीताय ।गुणात्मकाय । सहजाय । सहनाय । सत्याय । सुखदुःखविपर्ययाय ।मनीषिणे । मतिमते । विज्ञाय । वरेण्याय । अकल्मषाय । अनघाय ।गर्भदाय । गर्भदोषघ्नाय । बीजस्थाय । बीजवर्धनाय ।शुभाशुभपरित्यागिने नमः । ८२०ॐ अशुभशुभकारकाय नमः । तेजोराशये । तमोहन्त्रे ।सर्वभूतमनोहराय । मुक्तहस्ताय । अर्थशास्त्रज्ञाय । सावधानाय ।निरीक्षकाय । नवद्वारमयाय देहाय । देहिने । देहभृतांवराय ।कोटिसूर्यप्रतीकाशाय । कोटिचन्द्रांशुनिर्मलाय । कोटितारकनिर्मात्रे ।कोटिलोकप्रयोजकाय । अखण्डाय । अलवशाय । कल्याय । श्रवणाय ।श्रावकाय नमः । ८४०ॐ श्रुतये नमः । प्रमाणाय । प्रत्ययाय । पात्राय । अग्राह्याय ।ग्रहणाय । ग्रहाय । दयाकराय । दयारूपाय । दयामूर्तये । दयापराय ।सर्वपापप्रशान्तात्मने । सर्वदुर्गतिहारकाय । मनोजवाय । मरुद्वेगाय ।भक्तानां पथनायकाय । रणज्ञाय । रणक्षेत्रज्ञाय । युद्धाय ।योद्ध्रे नमः । ८६०ॐ भटाय नमः । अभटाय । सौम्याननाय । सौम्यभावाय । भक्तिदाय ।भक्तवत्सलाय । सर्ववश्यकराय । अवश्याय । सुसम्पन्नाय ।समायकाय । नित्यतृप्ताय । लसद्भावाय । विश्वपूर्णाय ।सदाक्षमिने । निराशानांआशाश्रयाय । कृपालवे । करुणाकराय ।असंप्रज्ञातसंप्रज्ञाय । निष्णाताय । अनश्वराय नमः । ८८०ॐ अव्ययाय नमः । सर्वधर्माणां सारज्ञाय । लोकधर्मप्रवर्तकाय ।सुधामयाय । सदारामाय । श्रीघनाय । दृष्टिमोहनाय ।सूत्रधाराय । जगत्सूत्राय । त्र्यक्षराय । वागधीश्वराय ।क्षयापस्मारकुष्टघ्नाय । रोगारिष्टनिवारकाय । स्वास्थ्यारोग्यप्रदाय ।स्वस्थाय । सर्वामयप्रहारकाय । कर्त्रे । अकर्त्रे । अन्यथाकर्त्रे ।ईश्वराय नमः । ९००ॐ सर्वशक्तिमते नमः । युगकर्त्रे । युगहर्त्रे । अहोरात्राय ।चतुर्युगाय । आपदां हन्त्रे । विपद्धर्त्रे । सद्भोगनिलयाय । अच्युताय ।स्वभावाय । सद्गतये । भावाय । निर्द्वन्द्वाय । द्वन्द्वरूपकाय ।अनेकरूपवर्णाङ्गाय । पूर्वाय । पूर्वतरोत्तमाय । पावनाय । पवनाय ।पूताय नमः । ९२०ॐ पूतनाम्ने नमः । शुचिव्रताय । आशुगाय । अनाशुगाय । अदृश्याय ।पवित्राय । विमलाय । अमलाय । सुपथाय । पथिकाय । पथे ।भक्तिमार्गोपदेशकाय । आरण्यकाय । वनस्थायिने । ब्रह्मचारिणे ।उपासकाय । गृहस्थाय । पूजकाय । पूजायै । ठाकुराय नमः । ९४०ॐ कुलदेवतायै नमः । मत्स्याय । तिमिङ्गिलाय । ग्राहाय । शुकाय ।शारिणे । विहङ्गमाय । गायकाय । चित्रकाय । गाथायै । शिल्पाय ।शिल्पिणे । नटाय । अनटाय । विभ्रमाय । भ्रममोहघ्नाय ।कल्पवृक्षाय । अश्वत्थाय । तरवे । विटपिने नमः । ९६०ॐ वल्लर्यै नमः । पुष्पाय । पङ्क्तये । वर्गाय । बहुभुजाय ।अतलाय । वितलव्यापिने । सुतलाय । तलवर्जिताय । अश्वाय ।कुरङ्गमाय । धेनवे । शरभाय । सस्तनाय । शिखिने । विज्ञानाय ।ग्रहजिज्ञासायै । अनन्तानन्त्यमार्गणाय । जीवाय । अजीवाय नमः । ९८०ॐ दृशोऽव्यक्ताय नमः । परोक्षाय । अव्यक्तसङ्कुलाय ।अद्वितीयतपोमूर्तये । स्वमायानित्यगोपिताय । सर्वतीर्थमयाय । तीर्थाय ।आत्मतीर्थनिवस्थिताय । आत्मज्ञाय । आत्मनिर्दिष्ट्रे । आत्मचिदे ।आत्मधिये । सुधिये । आत्मजिते । आत्मसन्तुष्टाय । आत्मास्वात्मप्रवर्तकाय ।विश्वश्लाघ्याय । विश्वपूज्याय । विश्ववन्द्याय । मुनीश्वराय नमः । १०००ॐ विश्वाराध्याय नमः । विश्वश्रेष्ठाय । विश्वेशाय । विश्वराजे ।ऋषये । अकायाय । कायसम्पन्नाय । परापरमयाय । महते । विशोकाय ।अशोककौमाराय । सुरेशाय । सुप्रभाय । प्रभवे । १०१४इति श्री जलाली कौल जियालालेण विरचितं श्रीभगवान् कालसहस्रनामावलिः समाप्ता ॥ N/A References : N/A Last Updated : January 12, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP