मराठी मुख्य सूची|स्तोत्रे|सहस्रनामावली| ॐ श्रीमत्त्यागमहाराजाय नम... सहस्रनामावली ब्रह्मानन्दं परमसुखदं केव... अथ मूलम् । ॐ श्रीं ह्रीं ... ॐ श्रीगणेशाय नमः । श्वेता... श्रीअरुणाचलेश्वरसहस्रनामावली अर्धनारीश्वरसहस्रनामावलिः ॐ हिरण्यबाहवे हिरण्यवर्णा... श्रीहनुमत्सहस्रनामावलिः ॐ श्रीगणेशाय नमः । ॐ ब्र... ॐ इन्द्राय नमः । देवतमाय ... ॐ श्रीगणेशाय नमः । ॐ नमोद... ॐ अस्य श्रीसर्वसाम्राज्यम... ध्यानम् । कान्त्या काञ्चन... ॐ श्रीगणेशाय नमः । ॐ नका... ॐ अस्य कामकलाकालीसहस्रनाम... श्री गणेशाय नमः । श्रीकाम... कालोऽहम् । अस्य श्रीकालना... शिव उवाच- नाम्नां सहस्रं ... ॐ श्मशानकालिकायै नमः । ॐ ... अथ कुञ्चितपादसहस्रनामावलि... धनं दारान्सुतान्क्षेत्रं ... षड्वक्त्रं शिखिवाहनं त्रि... ॐ कृष्णाय नमः । श्रीवल्लभ... ॐ अस्य श्रीपुराणपुरुषोत्त... श्रीगणेशाय नमः । श्रीकेदा... सितमकरनिषण्णां शुभ्रवर्णा... श्रीगणेशाय नमः । श्रीसमर्... ॐ अस्य श्रीगणपतिगकारादिसह... ॐ सुमुखाय नमः । सुवहाय । ... ध्यानम् रक्तश्वेतहिरण्यनी... ध्यानम् - रक्तश्वेतहिरण्य... ॐ शं शां षं ह्रीं क्लीं ग... अथ ध्यानम् । सूर्यस्पर्धि... ॐ श्री गुरुभ्यो नमः । गुर... ॐ श्रीगणेशाय नमः । सर्वत्... अथ श्रीगोपालदिव्यसहस्रनाम... ॐ गवे नमः । ॐ गौविन्द्यै ... श्रीगुरुभ्यो नमः । श्रीका... ॐ अस्य श्रीप्रचण्डचण्डिका... अथ श्रीयोगेश्वरकवि द्वारा... अस्य श्रीज्वालामुखीसहस्रन... विश्वव्यापकवारिमध्यविलसच्... ॐ अस्य श्रीतारासहस्रनामस्... ॐ भुवनेश्यै नमः । ॐ भुवार... ॐ अस्य श्रीमहोग्रतारा दिव... वरिष्ठ उवाच - कथं नामसहस्... ॐ तुलस्यै नमः । ॐ श्रीप्र... ॐ श्रीमत्त्यागमहाराजाय नम... श्रीगणपतये नमः । ॐ अनेजते... ध्यानम् । उद्यद्भानुसहस्र... ॐ योगेशाय नमः । ॐ अमरप्रभ... महाकालभैरव ऋषिस्त्रिष्टुप... अस्य श्रीदक्षिणामूर्तिसहस... ॐ आदिदेवाय नमः । दयासिन्ध... ध्यानम् । स्फटिकरजतवर्णां... ऋषिच्छन्दांसि - अस्य श्री... तन्त्रराजतन्त्रे पूर्वपीठ... ध्यानम् । १. सिंहस्था शशि... महामन्त्रस्य श्रीमहेश्वर ... ध्यानम् - रक्ताभां रक्तवस... ॐ श्रीमते नमः । ॐ धन्वन्त... ॐ नमो भगवते भूतनाथाय । ॐ ... १. ॐ स्थिराय नमः । २. ॐ ... ॥ श्रीदुर्गादैव्ये नम: ॥ ... १. ॐ राजीवलोचनाय नमः । ... १ ॐ अचिन्त्यलक्षणायै नमः ... १ ॐ कालिन्द्यै नमः । २ ॐ... १ ॐ अन्नपूर्णायै नमः । ... १. ॐ नारसिंहाय नमः । २. ... १ ॐ देवकीनन्दनाय नमः । २... १ ॐ क्लीं देवाय नमः । २ ... १ ॐ श्रियै नमः । २ ॐ पद्... १ ॐ हनुमते नमः । २ ॐ श्र... ॥ श्रीकृष्णाय नमः ॥ १. ॐ ... १. ॐ विश्वविदे नम: । २. ... १. ॐ गणेश्वराय नम: । २.... १. ॐ ऐं ह्रीं श्रीं श्रीम... १ ॐ सीतायै नमः । २ ॐ उमा... १ ॐ ओंकाररूपिण्यै नमः । ... १. ॐ विश्वस्मै नमः । २.ॐ... १. ॐ श्रीराधायै नमः । २.... ॐ गणपतये नमः ॥ ॥ ॐ गणेश्व... श्रीत्यागराजमुचुकुन्दसहस्रनामावलिः - ॐ श्रीमत्त्यागमहाराजाय नम... हिंदू देवी देवतांची एक हजार नावे म्हणजेच सहस्त्रनामावली. हिंदू धर्मिय रोज सकाळी संध्याकाळी या नावांचा जप करतात.A sahasranamavali is a type of Hindu scripture in which a diety is referred to by 1000 or more different names.Many devout Hindus chant them every morning or evening. Tags : 1000godgoddesssahasranamavaliसहस्त्रनामावली श्रीत्यागराजमुचुकुन्दसहस्रनामावलिः Translation - भाषांतर ॐ श्रीमत्त्यागमहाराजाय नमः ।श्रीमत्सिंहासनेश्वराय ।श्रीराजराजाय ।श्रीनाथहृदयाम्बुजमध्यगाय ।श्रिया सहनिवासाय ।श्रीनाथपरिपूजिताय ।श्रीपुरैकनिवासिने ।श्रीहंसनटनेश्वराय ।श्रीविद्यात्मकरूपाय ।श्रीपीठान्तर्निवासिने ।श्रीविद्याच्छादित हृदयाय । आच्छाद्यश्रीविद्याहंससम्पुटाय ।श्रीविद्यापरिधानाख्याय ।श्रीपूजितपदाम्बुजाय ।श्रीमत्त्यागविनोदाख्यवासनैकबहुप्रियाय ।श्रीशिवाय ।श्रीशिवतराय ।श्रीशिवायाः प्रियङ्कराय ।श्रीविद्यायास्त्रिखण्डात्मसोमास्कन्दस्वरूपवते ।श्रीमूलाधारनिलयाय नमः । २०ॐ श्रीभारतीशिवाप्रियाय नमः ।सच्चिदानन्दरूपाय ।श्रीविद्यामोघवैभवाय ।सदाशिवमहाकारसर्वागमविवेचिताय ।सत्पूज्याय ।सकलाय ।सर्वातीतस्वरूपिणे ।सर्वभूतान्तरात्मने ।सर्वभूतलयङ्कर्त्रे ।सर्वसान्निध्यकारकाय ।सर्वमन्त्रमयाकृतये ।सर्वमन्त्रेश्वराय ।सर्वयन्त्रेश्वराधिपाय ।महाकल्पमहाघोरमहाताण्डवनायकाय ।अजपाताण्डवप्रियाय ।हंसताण्डवसुप्रीताय ।हादिविद्यास्वरूपिणे ।अम्बिकागुहसंयुताय ।अरिष्टमथनाय ।सर्वारिष्टविनाशनाय नमः । ४०ॐ सर्वभूतस्वरूपिणे नमः ।सर्वभूताधिपेश्वराय ।सर्वसङ्क्षोभहारिणे ।सदाराध्याय ।समाकृतिने । समाकृतयेसर्वशक्तिमयाय ।सर्वसमानाधिकवर्जिताय ।सर्वमङ्गलरूपाय ।नमतां सद्गतिप्रदाय ।मूलमन्त्रस्वरूपिणे ।मुलविद्याजपप्रियाय ।मूलशृङ्गाटनिलयाय ।मुक्तिमार्गप्रकाशकाय ।रथप्रियाय ।भूमिरथाय ।चन्द्रभास्वच्चक्ररथाय । var चन्द्रभास्करचक्ररथायक्षोणीरथवरासीनाय । वरासनायमहारथवरस्थिताय ।चतुःषष्टिकलास्तम्भरथारूढमहारथाय ।शतारचक्रसंयुक्तरथारोहणशोभनाय नमः । ६०ॐ त्रितत्त्वरथसंस्थायिने नमः ।शिवतत्त्वविमानगाय ।श्रीगणाधीश्वरस्कन्दद्वारपद्रथभासुराय । var गणाधीश्वरसंयुक्त सरस्कन्द द्वारोद्यद्रथ भासुरायअश्वायितचतुर्वेदाय ।रथावनिपरायणाय ।शरायितरमाकान्ताय ।सारथीभूतविश्वसृजे ।चापायितमहामेरवे ।तूणीकृतमहार्णवाय ।गुणीकृतफणीशानाय ।शास्त्ररज्जुसमाकृताय ।मार्ताण्डप्रतिमद्युतये ।सोमसुन्दरविग्रहाय ।मेरुतुल्यत्रिचक्रात्मरथेन त्रिदिवागताय ।सौधसान्निध्यसम्पूर्णवीथीसञ्चारसुन्दराय ।महाफणिमहारज्जुसमाकृष्टमहारथाय ।मन्दस्मितमुखाम्भोजस्मितदग्धपुरासुराय ।ललाटनयनज्वालाजालदग्धाङ्गमन्मथाय ।पादप्रहारसङ्क्षुब्धवक्षःस्थलकृतान्तकाय ।पादाग्रकल्पितात्युग्रचक्रच्छिन्नजलन्धराय नमः । ८०ॐ पादान्तर्दर्शनार्थाय गजसंहारकर्मकृते नमः ।दक्षयज्ञसमुत्पन्नशिवनिन्दानिवारकाय ।विधिगर्वशिरोहारिकपालमालया युताय ।अन्धकासुरविच्छेदजगद्ध्वान्तनिवारकाय ।दशास्यभुजदर्पघ्नपादाङ्गुष्ठबलोज्ज्वलाय ।कुण्डलिन्यधिदेवाय ।कुलकुण्डालयस्थिताय ।आधारकुण्डलिन्यस्तदक्षपादसरोरुहाय ।पराशक्तिपराधीशपराख्याकुण्डलीश्वराय ।कुटिलारूपकुण्डल्यारोपितस्वपदाम्बुजाय ।श्रीमत्सहस्रपत्राख्यकुलकुण्डालयस्थिताय ।कटकीकृतभोगीन्द्रकुण्डलीकृतपन्नगाय ।पिङ्गलेडारज्जुबद्धकुण्डलीवृषभध्वजाय ।कुण्डल्युपरिविन्यस्तकिङ्किणीपदशोभिताय ।शब्दोपादानसर्वात्मशक्तिकुण्डलिभूषणाय ।चलन्नूपुरपादाब्जाय ।अज्ञानतिमिरारुणाय ।पादपङ्कजविन्यस्तपञ्चशीर्षफणीश्वराय ।प्राणायामपरप्राणाय ।प्राज्ञाप्राणप्रकाशकाय नमः । १००ॐ सुषुम्नान्तरवासिने नमः ।शिष्टेष्टसिद्धिदायकाय । var शिष्टदायकायशरभाश्लिष्टदेहाय ।शरभाय ।साल्वपक्षिराजे ।नृसिंहगर्वसर्वस्वनिर्वापणधुरन्धराय ।प्रलयानलसज्वालहालाहलविषाशनाय ।सपिङ्गलसुशोभाभसूक्ष्माय । अवसूक्ष्मणायस्थूलगोपुराय ।चतुर्वेदमयस्तम्भरङ्गमध्यस्थलस्थिताय ।सहस्रदलपद्मस्थसुधासाराभिवर्षणाय ।चतुर्योगयुगद्वारसदानन्दरसस्थिताय ।चतुःषष्टिकला शोभिनिजालययुताय । षष्टिजालकलाषोडशकस्तम्भसहस्रस्थानमध्यगाय ।सहस्रपादमाणिक्यमण्डपस्थाननायकाय ।देवाश्रयमहारत्नमण्डपासीनदैवताय ।पताकापटलै राजदग्रमण्डपशोभिताय ।ताराकारसमाकारस्तूपीपञ्चकमध्यगाय ।अष्टादशपुराणार्थवाङ्मनान्युतमन्दिराय ।अष्टाविंशतिमन्त्रात्मफलकाकीलितासनाय नमः । १२०ॐ रत्नस्तम्भसहस्राढ्यकलासम्पूर्णमन्दिराय नमः ।कलापञ्चकसंसिद्धभित्ति युक्तसभान्तराय । संसिद्धभक्तिवीथीविटङ्करूपाय ।स्वयम्भूतस्वरूपवते ।विटङ्गविष्णुहृदयनिवासोत्सुकमानसाय ।विटङ्कवीथीसम्भूतश्वासनिःश्वासरूपवते ।विटङ्कवीथीसम्भूतव्यष्टिद्वारविनिर्गताय ।विटङ्कविविधाकारवीथीसञ्चारमञ्जुलाय ।विधिविष्णुविराड्विश्ववीथीविटङ्करूपवते ।विटङ्कावयवाय ।वीरखड्गद्वयान्विताय ।अज्ञानतिमिरत्यागविज्ञानमयवेदनाय ।कारणेशपरित्यागनित्यानन्दनिजासनाय ।सर्वोपाधिपरित्यागसर्वत्यागरमान्विताय ।त्यागवैभवसंयुक्तत्यागध्वजविराजिताय ।विद्वज्जनधनत्यागिने ।त्यागित्यागपरायणाय ।सर्वबन्धपरित्यागिसर्वसंशुद्धिकारकाय ।ब्रह्मादिकारणत्यागराजराजशिखामणये ।कलिदोषपरित्यागकल्मषादिविवर्जिताय नमः । १४०ॐ अध्वषट्कपरित्यागराजमानपदाम्बुजाय नमः ।षडाघारपरित्यागपरमानन्दविग्रहाय ।दुष्टदूरपरित्यागशिष्टमार्गप्रवर्तकाय ।अशेषदुरितत्यागप्रभामण्डलमध्यगाय ।प्रभामण्डलसत्यागराजमानमहेश्वराय ।प्रपञ्चकालसत्यागराजमानतटित्प्रभाय ।प्रमाणरीतिसत्यागप्रमाणैकशिरोमणये ।कारणेशपरित्यागकल्पितात्ममहाकृतये ।कलाषोडशसत्यागनादान्तलिखिताकृतये ।पञ्चमन्त्रषडङ्गादिपरित्यागपदाम्बुजाय ।मेधादिगोन्मनान्तादिपरित्यागविराजिताय ।अशेषसारत्यागिने ।अमृताम्भोधिमध्यगाय ।परात्परतराय ।परापरविवर्जिताय ।सायाह्नज्वलनोद्भूतनीराजनविराजिताय ।पुरत्रयजयोद्भूतनीराजनविराजिताय ।इन्द्राणीहस्तविन्यस्तनीराजनविराजिताय ।त्रितत्त्ववृत्तिनीराज्यनीराजनविराजिताय ।कालभज्जनविश्रान्तिनीराजनविधिप्रियाय नमः । १६०ॐ कालभञ्जनकालाग्निज्वालानीराजनप्रियाय नमः ।कालभज्जनविश्रान्तिगौरीनीराजनप्रियाय ।महाप्रलयकालान्तगौरीनीराजनप्रियाय ।रमावाणीशचीमुख्यनीराजनबहुप्रियाय ।त्रितत्ववृत्तिनीराज्यनीराजनसुरक्षिताय ।उपसंहारसायाह्ननीराजनसुरक्षिताय ।सायाह्नज्वलनोद्भूतक्षारक्षितविष्टपाय ।संसारार्णवसम्मग्नसमुद्धरणपण्डिताय ।देवलोकागताभौमपारिजातसुमार्चिताय ।जवन्तीकुसुमाबद्धकृष्णागरुसुकर्णिकाय ।मल्लिकामालतीजातीमृदुलाङ्गमनोहराय ।रम्भापुष्पाञ्चलिप्रीताय ।पञ्चाष्टकुसुमार्चिताय ।कह्लारकुसुमप्रीताय ।जवन्तीकुसुमोज्ज्वलाय ।परशम्भूहृदुद्भूतजवन्तीकुसुमप्रियाय ।पञ्चभूतात्मकोत्फुल्लमल्लिकादाममण्डिताय ।जवन्तीमल्लिकाजातीकह्लारस्रङ्मनोहराय ।चम्पकाशोकपुन्नागसौगन्धिकसुगन्धिताय ।देववापीसमुद्भूतकह्लारकुसुमप्रियाय नमः । १८०ॐ देवलोकागताभौमपुष्पमण्डपमण्डिताय नमः ।सदाशिवमुखोद्भूतसौगन्धिकुसुमप्रियाय ।मन्दारतरुसन्तानमहाराधनतत्पराय ।गङ्गालङ्कृतमूर्ध्ने ।ज्ञानचन्द्रकलाधराय ।पूर्वाङ्गरम्यदेहाय ।अपराङ्गमनोहराय ।अत्यन्तसुन्दरतररसापाङ्गविरजिताय ।अतिसुन्दरसर्वाङ्गाय ।अम्बिकास्कन्दसुन्दराय ।अशेषदुरितध्वंसिने ।विशेषसुखदायकाय ।अरिष्टमथनाय ।सर्वारिष्टविनाशनाय ।परित्यक्तदुराचाराय ।शिष्टमार्गप्रकाशकाय ।दुःखसागरनिर्मग्नसमुद्धरणपण्डिताय ।अनन्तकालसत्यात्मने ।स्थिरविद्युत्समप्रभाय ।प्रमाणवेद्यरूपाय नमः । २००ॐ त्यागविद्याविनोदाय नमः ।कवितारसिकाय ।कवये ।स्वहृदावेद्यचिद्घनाय ।तेजोगर्भितमार्ताण्डचिदानन्दनिजार्चिताय ।निष्कलाकारसदनसकलीकृतविग्रहाय ।दिव्यचक्रगणाधीशाय ।बीजचक्रपितामहाय ।बिन्दुचक्रस्थविष्णवे ।नादचक्रमहेश्वराय ।शक्तिचक्रस्थजीवात्मने ।शान्तिचक्रपरात्मकाय ।शान्त्यतीतेन्दुबिम्बस्थगुरवे ।परमचिन्मयाय ।निष्कम्पाय ।अचलमूर्तये ।श्वासनिःश्वासकम्पिताय ।अन्तर्यामिने ।जगद्धात्रे ।कर्त्रे ।कारयित्रे नमः । २२०ॐ वामरूपजगाद्धात्रे नमः ।ज्येष्ठरूपजनार्दनाय ।रौद्ररूपहराकाराय ।महाबिन्द्वासनस्थिताय ।अम्बिकारूपविलसच्छान्त्या समरसगताय ।तुर्यातीतसमागम्यस्वानुभूतिप्रमाणगाय ।आत्मतत्त्वाधिपब्रह्मणे ।विद्यातत्त्वाधिपहरये ।शिवतत्त्वाधिपरुद्राय ।सर्वतत्त्वाधिपशिवाय ।सर्वार्थसवशब्दात्मसर्वशब्दैककारणाय ।सर्वभूतानुकम्पिने ।सर्वापाशविमोचकाय ।सर्वयोनिक्षोभकाय ।सर्वबीजस्वरूपवते ।सर्वभूतदयालवे ।सर्वभूताभयप्रदाय ।महाप्रकाशदिव्यात्मने ।महानन्दमहानटाय ।महामन्त्राय नमः । २४०ॐ महायन्त्राय नमः ।महावाच्याय ।महावपुषे ।महामन्त्रस्वरूपाय ।महासौन्दर्यवारिधये ।महाभैरवबेषाय ।महाविज्ञानविग्रहाय ।महाबलसमायुक्ताय ।महामातङ्गमर्दनाय ।हरिमोहनभिक्षाटसम्भवस्वात्मकैङ्कराय ।note अत्र मोहिन्यवतारभृतो विष्णोः भिक्षाटावसरभृतश्चशिवस्य पुत्रभूतस्य हरिहरपुत्रस्य द्राविड्यां ``अय्यनार्''इति ख्यातस्य निर्देशः ।सुवर्णवर्णरुचिराय ।सुन्दराय ।सुन्दरप्रियाय ।सुन्दरेशस्य वैवाह्यस्थगय्यशासनीकृताय ।note अत्र ``तडुत्तु आट्कोण्डार्'' stopped and acceptedइति द्राविडयुक्तेरनुवादः कृतः ।सुन्दरप्रोक्तपद्यौघश्रवणोत्सुकमानसाय ।सुन्दरप्रार्थनानाक्लृप्तदौत्यकर्मविहारवते ।देवाश्रयसमायातभक्तपद्याद्यवाक्प्रदाय ।भक्तसुन्दरसङ्गीतद्राविडस्तोत्रतोषिताय ।वृद्धिक्षयविहीनेन्दुसुन्दरप्रियदर्शनाय ।परवासुन्दरद्वन्द्वसन्धानक्षमपेशलाय नमः । २६०ॐ परवागीतसन्तुष्टाय नमः ।परवादौत्यकोविदाय ।कृतवातपुरेशज्ञानदीक्षोपदेशाय ।ज्ञानसम्बन्धपद्यौघश्रवणोत्सुकमानसाय ।माणिक्यवाचकप्रोक्तश्रीवाचकबहुप्रियाय ।एकविंशतिसङ्ख्यातपद्यद्राविडतोषिताय ।वीरमुण्डमहाभक्तसंवदाद्भित्तिलीनकाय ।प्रतिज्ञाभेदसङ्क्लृप्तस्वागमात्पदखण्डिताय ।स्वभक्तवीरमुण्डस्य पाददर्शनमोक्षदाय ।भक्तानां चित्तशुद्धयर्थं देवतीर्थजलाप्लुताय ।वृद्धरूपौ समालोक्य सुन्दरस्नानतोत्थिताय ।note प्रसिद्धां कामपि त्यागेशसुन्दरमूर्तिकथां परमृशति ।बिन्दुनादकलाक्लृप्तसाङ्गोपाङ्गमनोहराय ।चिद्गन्धदिव्यप्रसवमालावृतभुजान्तराय ।महानुभावाय ।महिताय ।महातेजसे ।महायशसे ।महाबुद्धये ।महासिद्धये ।महामायापरिच्छदाय नमः । २८०ॐ नानासिद्धान्तकर्त्रे नमः नमः ।नानागमविधायकाय ।नानागममहामोहव्यपनोदनपण्डिताय ।दिव्यवेषाय ।दिव्यतनवे ।देवसिद्धौघवन्दिताय ।भक्तहृत्पद्ममार्ताण्डाय ।भक्तेन्दीवरचन्द्रमसे ।उमास्कन्दमुखालोकिने ।उमास्कन्दातिवत्सलाय ।उमास्कन्दोल्लसत्पार्श्वाय ।स्कन्दोमाप्रेमवर्धनाय ।स्कन्दोमानयनानन्दविधानैकधुरन्धराय ।स्कन्दोमावन्दिताय ।देवाय ।स्कन्दोमानन्दविग्रहाय ।मुकुन्दमुचुकुन्देन्द्रविधिमुख्यैः समागताय ।श्रीविद्यार्णाम्बरच्छन्नदिव्यावयवकान्तिमते ।भक्तकल्पद्रुमसमाय ।भक्तसर्वार्थसाधकाय नमः । ३००ॐ राहुग्रस्तात्मबालार्कमण्डलाकृतिभासुराय नमः ।मन्दस्मितमुखाय ।मन्दवातवातायनोत्सुकाय ।दक्षवातायनायातनारीगीतश्रवणकौतुकाय ।पञ्चाशद्वर्णज्योतिःप्रभामण्डलमध्यगाय ।शुद्धपञ्चाक्षरज्योतिःसंस्थितानन्दविग्रहाय ।प्रभाराशिमध्यगताय ।ज्योतिषां ज्योतिषे ।अव्ययाय ।अखण्डानन्दचिन्मूर्तये ।अपारकरुणानिधये ।वरप्रासादचक्रस्थकलाकल्पितविग्रहाय ।सप्तकोटिमहामन्त्रजनकाय ।मन्त्ररूपवते ।व्योमव्यापिमहामन्त्रवर्णितानेकशक्तिकाय ।परापरमहामन्त्रनायकस्तुतवैभवाय ।मन्त्राभिमानिमन्त्रज्ञाय ।मन्त्रप्रकृत्यूर्जिताय ।मन्त्राधिष्ठानरूपाय ।मन्त्रमन्त्रेश्वराय ।अथर्वणमहामन्त्रप्रोक्तमङ्गलविग्रहाय नमः । ३२०ॐ हंसमन्त्रषडङ्गाभहंसव्यत्यासनर्तनाय नमः ।ब्रह्माङ्गमन्त्रसम्पन्नगुप्तलास्यैकतत्पराय ।सप्तकोटिमहामन्त्रनिषेवितपदाम्बुजाय ।देवतागणपस्तुत्यध्वनिमन्त्रविशारदाय ।मायामन्त्रमहामूलविद्यासम्भूततत्पराय ।निगमागममन्त्रादिनिर्मितात्मस्वरूपवते ।निरिन्धनमहासंविदग्नित्रिभुवनोज्ज्वलाय ।यज्ञाय ।यजमानाय ।हविषे ।होत्रे ।यज्ञभृते ।मृकण्डुसूनुरक्षार्थव्यसूकृतकृतान्तकाय ।जनितात्मभुवश्रीमते ।गोरूपिणे ।गोसवप्रियाय ।वत्सीकृतकृतान्तस्य रथचक्रमृतीकृताय ।अनपायमहीपालभक्तिप्रकटनोद्यताय ।अनपायपुरेशानाय ।निरपायबलान्विताय नमः । ३४०ॐ महात्मने नमः ।महैश्वर्याय ।महाबलपराक्रमाय ।मुमुक्षुभिर्ज्ञेयरूपाय ।अज्ञानामतिदुर्लभाय ।श्रीमते आदिभिक्षवे । var आदिभिक्षेश्वरायईश्वराय ।अनीश्वराय ।वाच्यवाचकरूपाय ।अवाच्याय ।वाञ्छितार्थदाय ।नवग्रहमयज्योतिषे ।संसारभ्रमकारकाय ।संसारभ्रमविच्छित्तिकारणज्ञानदायकाय ।परब्रह्मस्वरूपिणे ।पराशक्तिपरिग्रहाय ।पाटलीमूलनिलयाय ।श्रुङ्गारवनमध्यगाय ।दूर्वासोमुचुकुन्दादिनिर्मितालयसंस्थिताय ।दूर्वासोमुनिना क्लृप्तस्वागमार्चनपूजिताय ।दूर्वासोमुनिना क्लृप्तस्वतन्त्रविषयाद्भुताय ।देवेन्द्रपूजिताय नमः । ३६०ॐ दिव्यदेवसङ्घप्रपूजिताय नमः ।पुलोमजार्चितपुण्याय ।पुरुहूतबहुप्रियाय ।अप्सरोहस्तविन्यस्तचामरस्तोमवीजिताय ।अशेषदेवताकॢप्तपुष्पवर्षौघवर्षिताय ।ऐरावतसमानीतदेवसिन्धुजलाप्लुताय ।जिह्वानाथेरितानेकगानप्रियदयानिधये ।देवभाषाविशेषज्ञाय ।देवगानप्रियाय ।विभवे ।मुचुकुन्दार्चिताय ।मुख्याय ।मुचुकुन्दवरप्रदाय ।मुचुकुन्दस्वप्नवेलादर्शितस्वात्मविग्रहाय ।मुचुकुन्द सप्तभेददर्शितस्वात्मरूपिणे ।नववीरसमुपेत मुचुकुन्दसुवन्दिताय । नववीरसमानीतषडङ्गहंसनटनसमूलास्थितविग्रहाय ।सामऋग्यजुराथर्ववेदवेदितविग्रहाय ।कुङ्कुमाङ्कितपादाब्जाय ।कर्पूरालेपिताङ्गकाय नमः । ३८०ॐ कृष्णागरुकृतामोदनासायुगलमण्डिताय नमः नमः ।कृष्णगन्धप्रियाय ।कुष्णगन्धगन्धितकर्णिकाय ।प्रलयकालप्रवीणप्रगल्भानन्दताण्डवाय ।प्रणवध्वनिगम्भीरमृगासक्तकराम्बुजाय ।प्रलयानलधिक्कारप्रवीणपरशुभृते ।वरप्रदाननिपुणवामपाणिसरोरुहाय ।चिन्मुद्राञ्चितदक्षपाणये ।चित्प्रदाय ।चित्प्रबोधकाय ।मोक्षविज्ञापनोद्भासिलम्बमानपदाम्बुजाय ।वीरासनान्यपादाब्जकृतकिल्बिषसंहृतये ।आनन्दनृत्तव्यापारस्कन्दगौरीसमन्विताय ।शङ्खकाहलसंयुक्ततालमद्दलनर्तकाय ।वीणावेणुमृदङ्गादिवाद्यश्रवणलोलुपाय ।प्रणवान्तर्गतज्योतिषे ।काहलप्रणवध्वनये ।तालमद्दलवाद्यौघध्वनिसाम्याजपानटनाय ।विरिञ्चिविष्णुसन्ताड्यतालमद्दलजध्वनये ।काहलीमङ्गलारावसम्पूरितदिगन्तराय नमः । ४००ॐ कौसुम्भवसनप्रीताय नमः ।दुकूलवसनान्विताय ।अनेकपुष्पविलसच्चीनाम्बरसमावृताय ।विचित्ररेखासंयुक्तवसनाय ।व्याघ्रचर्मभृते ।सप्तसागरवेलाढ्यस्वात्मवस्त्रपरिच्छदाप ।स्वच्छवस्त्रपरीधानसर्वाभरणभूषिताय ।वर्णन्यग्रोधमूलस्थदक्षिणामूर्तिसंज्ञिताय ।शिवज्ञानामृतनिधये ।मुनिवृन्दनिषेविताय ।विश्वन्यग्रोधमूलस्थविश्वव्यापारशक्तिमते ।अन्तर्यजनसुप्रीताय ।ध्यानैकनिरतोत्सुकाय ।मातृकावर्णपीठस्थाय ।मातृकावर्णविग्रहाय ।महापद्मोन्मनारूपकर्णिकाबिन्दुमध्यगाय ।मूलादिद्वादशान्तस्थमन्त्रसिंहासनस्थिताय ।गोसृष्टिस्थितिसंहारस्वापकालप्रवर्तकाय ।विद्यारूपप्रकाशात्मने ।जन्ममृत्युजरापहाय नमः । ४२०ॐ कालातीताय नमः ।कालहन्त्रे ।देहाहङ्कारकर्त्त्रे ।मृत्युहन्त्रे ।मृत्युवाहाय ।मृत्युञ्जयमयाकृतये ।स्कन्दोमामुखसौन्दर्यालोकनोत्सुकलोचनाय ।सर्वज्वालाप्रभासीनाय ।अतिनिर्मलदेहाय ।सामगानानुरञ्जिताय ।सोमसूर्याग्निरूपवते ।कार्यकारणरूपवते ।सोमसूर्याग्निलोचनाय ।विश्वनेत्राय ।विश्वगर्भाय ।विश्वेशाय ।विश्वविग्रहाय ।षट्छक्तिव्यक्तमूर्तये ।षडङ्गावरणोज्ज्वलाय ।वेदवेदाङ्गकर्त्रे ।त्रयीयुवतिसुन्दराय ।शब्दब्रह्मात्मरूपाय ।शब्दब्रह्मैकनूपुराय ।सर्वाधारादिरूपाय ।सर्वशब्दैककारणाय नमः । ४४०ॐ लिङ्गत्रयात्मकाय नमः ।महालिङ्गमहातनवे ।समांशकमहालिङ्गाय ।स्वात्मलिङ्गसमुद्भवाय ।आढ्यलिङ्गाकृतये ।सुरलिङ्गाकृतये ।स्वयम्भूबाणलिङ्गात्मने ।परलिङ्गपरात्पराय ।अग्निष्टोमात्मलिङ्गाय ।मातृकालिङ्गाय ।स्थूललिङ्गमहामेरवे ।सूक्ष्मकैलासलिङ्गकृते ।पञ्चलिङ्गमयस्वात्मने ।पञ्चलिङ्गमयाकृतये ।सर्वलिङ्गमयाकाराय ।सहस्रलिङ्गस्वरूपिणे ।विश्वाकारमहामेरोः स्वात्मलिङ्गमयोद्भवाय ।श्यामरत्नसितज्योतिर्ज्योतिर्लिङ्गमहातनवे ।पातालबुद्बुदाकारतेजोलिङ्गमहाकृतये ।विद्याराज्ञीसप्तकोशाय नमः । ४६०ॐ विद्याराज्ञीसमर्चिताय नमः ।घोराय ।शान्तमहाविष्णवे ।सर्वतोऽनन्तवक्त्रकाय ।सर्वतोऽनन्तपादाय ।सर्वतोऽनन्तहस्ताय ।असङ्ख्यभुजपादाय ।असङ्ख्यातगुणनिधये ।क्रमाक्रमसमुत्पत्तिरक्षासंहारकारकाय ।सर्वदा सुप्रदर्शिने ।मानतर्काद्यगोचराय ।असङ्ख्यदलसंराजत्कमलालयमध्यगाय ।घृतायितजलोद्भूतदीपदीप्तदिनान्तराय ।चमत्कारपुराधीशाय ।चमत्कारनृपाधिपाय ।चमत्कारमहीपालभक्त्युद्भूताचलेश्वराय ।दीपच्छायाप्रत्ययकृते ।हाटकक्षेत्रनायकाय ।अन्तर्गतेश्वराय ।अन्तर्मुखमनोहराय नमः । ४८०ॐ वम्रिरूपेन्द्रसञ्छिन्नसज्याविष्णुशिरोधृताय नमः ।महालक्ष्मीवराल्लभ्यस्वमाङ्गल्यपतीसुताय ।पुत्रार्थिविष्णुसङ्कॢप्तसिद्धिसम्पत्तिसाधकाय ।श्रीविष्णुतपसा प्राप्तस्वात्मवल्मीकसम्भवाय ।विराड्विष्णुसमुत्पन्नविटङ्कात्मस्वरूपवते ।विराड्विष्णुसमुत्पन्नविष्णुहृत्पद्मवासभुवे ।क्षीरसागरवैकुण्ठश्रीविष्णुस्वात्मपूजिताय ।सहस्रपद्मैकशून्यहरिनेत्रसमर्चिन्ताय ।महासुरजयोद्युक्तविष्णुचक्रप्रदायकाय ।हरिलक्ष्मीविधिवाणीगौरीशचीन्द्रपूजिताय ।पादाब्जपालिताजस्रमुसलासुरशिक्षकाय ।कबन्धकबलप्राप्तकपर्दाङ्कितमस्तकाय ।कुरुक्षेत्रमहायज्ञकोपोद्धृतस्वकार्मुकाय ।अध्यात्मदृष्टिसन्दृश्याय ।अध्यात्मज्ञानिवत्सलाय ।चमत्कारकलाकर्त्रे ।चमत्कारवचःपटवे ।षट्छताधिकविंशैकसहस्राजपयान्विताय ।सफल्गुन्यजपासीनताण्डवाडम्बरोत्सुकाय ।पुरन्दरमहायातमुकुन्दपरिवन्दिताय नमः । ५००ॐ हस्ताद्युत्तराषाढान्तषट्त्रिंशद्दिवसोत्सवाय नमः ।षट्त्रिंशत्तत्त्वबन्धघ्नसाङ्गोपाङ्गमहोत्सवाय ।महार्द्रोत्सवसम्प्राप्तजनानुग्रहकारकाय ।दिनान्तसुप्रसन्नात्मदीपसन्दर्शनोत्सुकाय ।हंसकीकृतभीगीन्द्राय ।हंसताण्डवसुप्रीताय ।पतञ्जलिव्याघ्रपादमुनिमानसहंसकाय ।कलासहस्रसम्पूर्णमहादीपावलोकवते ।कर्पूरधूलीमिलितधवलावयवोज्जलाय ।सायाह्नदीपसन्द्रष्टृभक्ताभीष्टप्रदायकाय ।भक्तिमत्पापतूलग्नये ।भक्तिमत्सुलभाभयाय ।अनन्तपुण्यफलदाय ।अनन्तामृतवारिधये ।दिनाष्टकनिविष्टात्मने ।पाशाष्टकविनाशनाय नमः । ५२०ॐ महास्वापे जागरूकाय नमः ।महासन्ध्यासुवन्दिताय ।महादिवससंस्थायिने ।महासंहारकारकाय ।मध्यावान्तरसंहारसृष्टिस्थितिविधायकाय ।महाविष्णुमहारुद्रश्रीकण्ठानन्दविग्रहाय ।महास्वापसमुद्भूतपञ्चकृत्यपरायणाय ।रत्नसिंहासनासीनाय ।रत्नप्रासादमध्यगाय ।नवरत्नसभाधीशाय ।रत्नप्राकारमध्यगाय ।पञ्चाशत्पीठशक्तिसपरिवारपरीवृताय ।कामरूपमहापीठपरमानन्दविग्रहाय ।श्रीपीठमध्यवासिने ।श्रीकण्ठादिभिरावृताय ।नवरत्नगृहज्योतिर्मातृकाक्षरमालिकाय ।कामेश्वरीवल्लभाय ।महाकामेश्वराकृतये ।आसीनोत्थाननटननानाताण्डवपण्डिताय ।ऊर्ध्वताण्डवसंवादिने नमः । ५४०ॐ पादव्यत्यासताण्डवाय नमः ।सप्तसागरपरिखाभभूमिदुर्गपरिच्छदाय ।ज्योतिष्मतीशिखावाससर्वदेवगणावृताय ।यशोवतीपुरीशानाय ।मनोवाक्यविधिस्तुताय ।भूबिम्बस्थमहामायालिपिवृत्तसमाश्रयाय ।पञ्चकोशान्तरप्राप्तत्रिकोणस्थितमध्यगाय ।अजपावर्णवाच्याय ।अजपाजपसुप्रीताय ।समस्तजनहृत्पद्मज्वलद्दीपसमाकृतये ।देशकालानवच्छिन्नाय ।देशकालप्रवर्तकाय ।महाभोगिने ।महायोगिने ।महास्यन्दनसुन्दराय ।तिरोभावक्रियाशक्तिसंसर्गपशुबन्धकृते ।अनुग्रहपराशक्तिलीलाकलनलोलुपाय ।नाडीत्रयान्तविलसत्सुधासाराभिवर्षणाय ।नानाविधरसास्वादमहानुभवशक्तिमते ।सोमसूर्याग्निपाद्यार्घ्यसुधाबिन्दुसमर्चिताय नमः । ५६०ॐ अपराधसहिष्णवे नमः ।शरणागतवत्सलाय ।श्रीमद्देवरखण्डात्मने ।देवतासार्वभौमाय ।वीरखड्गाभिरामाय ।सर्ववीराधिनायकाय ।वीरसिंहासनारूढाय ।महावीरासनस्थिताय ।विराठृदयपद्मस्थाय ।वीर्योद्भूतविनायकाय ।आधारपद्मवल्मीकनाथाय ।घोषस्वनात्मकाय ।सकुलान्तमहापद्मसंराजत्समनाकृतये ।ब्रह्मरन्ध्रमहापद्मकोटिशीतांशुसन्निभाय ।हृत्पद्मध्यसंस्थानसूर्यबिम्बोपमद्युतये ।तिथिसङ्ख्यफणादीप्तमहाकुण्डलिभूषणाय ।त्रुट्यदिकालपवनफूत्कारफणिभूषणाय ।उमाकुमारसहिताय ।श्रीकण्ठपुरनायकाय ।अनाश्रितादिकालाग्निरुद्रान्तभुवनाधिपाय नमः । ५८०ॐ एकाशमहाकोटिरुद्रावरणसंस्थिताय नमः नमः ।अनेकद्वादशादित्यमण्डलान्तसमुज्ज्वलाय ।अष्टकोटिवसुप्राज्ञपुष्पपूजितपादुकाय ।महापूरचतुःषष्टिमण्डलाधिपतीश्वराय ।सप्तलोकान् समालोक्य स्वात्मप्रतिमतेजसे ।सर्वलोकमहापुण्यप्रदर्शितमहात्मने ।विरिञ्चियज्ञसम्भूतकपालमालयायुताय ।ऋणत्रयविनाशाय ।स्वर्णामलकवर्षिणे ।देवतीर्थसकृत्स्नानदेवत्ववरदायकाय ।जननान्मोक्षदानेन जितचण्डकृतान्तकाय ।मरणान्मोक्षदानेन मृत्युवाहनतत्पराय ।जननान्मोक्षसन्दायिक्षितिमूलनिवासिने ।कृतमृत्युक्रियाविष्ट-मृत्युञ्जयमयाकृतये ।जन्ममृत्युजरातप्तजनविश्रान्तिदायकाय ।मुनिपक्षिमृगेन्द्रादिमुक्तिमार्गैकतत्पराय ।पिष्टार्थमृद्भृतो मूर्ध्नि वेत्रप्रहरचिह्निताय ।प्रकृत्याकारसगुणसकलीकृतविग्रहाय ।असङ्ख्यरूपसङ्ख्यात्मने ।सर्वनाम्ने ।सर्वगाय नमः । ६००ॐ सर्वप्रज्ञानिवासाय नमः ।सर्वसङ्केतजन्मभुवे ।सर्वसङ्केतसमयकारकाय ।करुणानिधये ।जगद्भ्रात्रे ।जगद्बान्धवाय ।जगन्मात्रे ।जगत्पित्रे ।कालज्ञाय ।कालकर्त्रे ।महाकालप्रवर्तकाय ।अष्टादशाधिकशतमहारुद्रप्रपूजितय ।सौगन्धिकलसत्पुष्पस्रगन्वितभुजान्तराय ।सर्वसौन्दर्यनिलयाय ।सर्वसम्पत्समृद्धिमते ।दुग्धसम्मितवागीशज्ञानदुग्धाब्धिवासभुवे ।श्रुतिस्मृतिपुराणैक्यगम्यविग्रहरूपवते ।चिद्घनसुमहारुद्रगुरुमन्त्रेशनायकाय ।श्यामोमारुणस्कन्दवामभागमनोहराय ।पश्यन्तीमध्यमाभिख्यवैखर्याश्रितविग्रहाय नमः । ६२०ॐ घोषमेघविद्युदाभमहापद्मासनप्रभवे नमः ।वसन्तवातविलसद्बृहत्पुष्पावतंसकाय ।प्राणापानागमप्राज्ञाय ।विश्वातीतस्वरूपगाय । सुभुजोद्दण्डदौर्भाग्यहरणेऽतिनिपुणाय ।दुरितारण्यदावाग्नये ।दुष्टदूरतरस्थिताय ।अशेषदेवताधीशविष्णुहृत्पद्मवासभुवे ।स्वपादहंसकोद्भूतप्रत्याहारार्थसूत्रकाय ।स्वपादकिङ्किणीजातनवव्याकरणावलये ।कामिकाद्यागमाकाराय ।सर्वावयववर्जिताय ।सर्वावयवसम्पन्नाय ।द्वात्रिंशल्लक्षणान्विताय ।सर्वलक्षणसम्पन्नाय ।अनौपम्यशुभाकाराय ।निस्तुलाय ।निरहङ्कृतये ।निराधारात्मसर्वविदे ।सर्वज्ञाय ।सर्वगोचराय नमः । ६४०ॐ लौकिकागमकर्त्रे नमः ।वैदिकोक्तफलप्रदाय ।अध्यात्मज्ञानकर्त्रे ।अतिमार्गप्रवर्तकाय ।स्वशक्तिज्वालाकल्पाय ।स्वशक्तिकिरणोज्ज्वलाय ।स्वशक्तये ।लीनविग्रहाय ।लोकातिशयसौन्दर्यनिधये ।अन्तर्बहिर्गताय ।साम्ना शक्त्येकाशीतिपादुकाय ।परमार्थदाय ।वरप्रासादचक्रस्थद्रुमवर्णत्रयात्मकाय ।शुद्धप्रपञ्चसृष्ट्यादिकर्तृसिद्धान्तबोधकाय ।महत्परादिसम्बन्धगुरुसन्तानबोधकाय ।धर्माधिष्ठानचक्रस्थभूतग्रामविवर्तकाय ।निष्प्रपञ्चाय ।निराकाराय ।ध्यातृमानसमन्दिराय ।महामायासुधासिन्धवे ।परानन्दामृतोदधये ।अशेषदुःखतरणज्ञानानन्दसुबोधकाय ।विराण्मूलालयाम्भोजमहामन्दिरमध्यगाय नमः । ६६०ॐ परमानन्दसन्दोहमन्दस्मितमुखाम्बुजाय नमः ।करोटिमालाकलितहरिगर्वनिवारकाय ।ललाटनेत्रदहनभस्मीकृतमनोभवाय ।कवचीकृतषट्चक्रतिरोधानमहेश्वराय ।बाह्यदृष्ट्यप्रमेयाङ्गाय ।ज्ञानदृष्ट्यवलोकिताय ।पञ्चमूर्धफणीशानतिरोहितपदाम्बुजाय ।त्रिलोकसंरक्षणार्थाय राजवेषघराय ।पुष्यात्मरथसम्प्रीताय ।पुण्यभूमिनिवेशिताप ।पुरुहूतार्चितपुण्याय ।पुरुहूताघमोचनाय ।सौन्दर्यसिन्धुसम्भूतनिशाकरसमाकृतये ।जघन्यजन्मविच्छेत्त्रे ।देवेन्द्रस्य वरप्रदाय ।पुरन्दरमहाघोरचण्डालत्वविमोचकाय ।कृतपाणिग्रहोदारगुणेन्द्राणीपुरन्दराय ।देवराजमहाघोरगुल्मरोगनिवारकाय ।पुरन्दरमहाशापपुरोगमसमुत्सुकाय ।शिलादजात्मजेनाशु नन्दिकेशाधिकारिताय नमः । ६८०ॐ सुमेरुशृङ्गमूलस्थविश्वसृष्ट्याद्यकारकाय नमः ।आमूलद्वादशान्ताद्याधारादिषु वासिताय ।अद्वितीयचिदानन्दघनकल्याणसुन्दराय ।अशेषकलुषारण्यदावानलशिखायुताय ।दशप्राणमहाभूतप्राणायामकचिन्मयाय ।आनन्दचित्सभाशैलाद्विनिर्गतविभावसवे ।तेजोमण्डलमध्यस्थचिदानन्ददिवाकराय ।भानुमण्डलमध्यस्थाय ।चन्द्रमण्डलमध्यगाय ।तेजोमण्डलमध्यस्थाय ।तेजस्विने ।तेजसां निधये ।कालाधिदैवताय ।कालाय ।अवस्थानीतमूर्तिमते ।कालहन्त्रे ।कालरूपिणे ।सर्वकालप्रवर्तकाय ।चतुरन्तायतमूर्तये ।सर्वावस्थाप्रवर्तकाय नमः । ७००ॐ चतुराम्नायमूर्तये नमः ।षडङ्गावरणोज्ज्वलाय ।मीमांसामांसलांसाय ।तर्कशास्त्रकशेरुकाय ।पुराणेन्द्रियसंयुक्ताय ।धर्मशास्त्रात्मचेतनाय ।षट्स्मृतिचतुर्वेदधनुर्वेदप्रतापवते ।गान्धर्ववेदगानाढ्याय ।आयुर्वेदारोग्यविदे ।अवर्णविग्रहज्योतिषे ।नाट्यकादिरसान्विताय ।चतुःषष्टिकलारूपसर्वावयवसुन्दराय ।मनोवाङ्मयदेहाय ।शब्दब्रह्मस्वरूपवते ।भक्तेष्टचित्तशुद्ध्यर्थं शाकीकृतशिशूत्सवाय ।उमास्कन्दादिसहितमहाचण्डालवेषभृते ।सोमयाजिमहायागप्रवेशव्यग्रविग्रहाय ।सोमपूज्यसोमयुतसोमसुन्दरविग्रहाय ।सोमयाजिमहाभक्तिव्यक्तिसन्तुष्टमानसाय ।पदद्वयैर्नटत्सोमहविर्भागप्रतिग्रहाय नमः । ७२०ॐ सोमसूर्याग्निनाड्यन्तर्वीथीसञ्चारसुन्दराय नमः नमः ।हंसमन्त्राक्षरद्वन्द्ववाच्याय ।विश्वाघमोचकाय ।दिग्देशकालरहितानन्याय ।अचिन्त्यरूपवते ।शतोपनिषदुद्घुष्टनित्याखण्डप्रकाशकृते ।कलापञ्चककालादित्यागराजतटित्प्रभवे ।सुप्रसन्नेन्द्रियग्रामाय ।सर्वप्रत्यक्षदर्शनाय ।कृशानुरेतसे ।सर्वात्मने ।ऊर्ध्वरेतसे ।जितेन्द्रियाय ।समस्तगुणसम्पन्नाय ।सर्वापगुणवर्जिताय ।निष्प्रपञ्चाय ।प्रपञ्चात्मने ।सेन्द्रियाय ।निरिन्द्रियाय ।शान्त्यादिषङ्गुणोपेताय नमः । ७४०ॐ मोहाद्यखिलदोषहृते नमः ।निर्मलाय ।मलध्वंसिने ।शान्तशाश्वतविग्रहाय ।सुषुम्नान्तःसमुदितनादरूपिणे ।नटाधिपाय ।निःश्वासलीलासञ्जातनिगमागमसन्ततये ।देशिकादिष्टमार्गैकदृश्याय ।देशिकपुङ्गवाय ।वक्त्रे ।वाचालकाय ।वाच्याय ।कैवर्तरूपोद्वहाय ।ज्ञानज्ञातृज्ञेयरूपाय ।अज्ञानज्ञानगोचराय ।कृशानुभानुचन्द्रात्मने ।त्रेताग्निपवनाकृतये ।दिवासन्ध्यानिशाऽऽकाराय ।सन्ध्यात्रयनिषेविताय ।गायत्रीमन्त्रवेद्याय नमः । ७६०ॐ गायत्रीत्रिपदात्मकाय नमः ।वाग्बीजकामराजाख्यपराबीजत्रयाभिधाय ।षड्विधैक्यानुसन्धानपरदेशिकदर्शिताय ।षड्विधार्थस्वरूपेण षडक्षरमयाकृतये ।त्रयीदर्शितमूर्त्यात्ममन्त्रमूर्तिमहातनवे ।शब्दार्थमात्रसामान्यबिन्दुमूर्तित्रयोज्ज्वलाय ।सन्ध्यात्रयात्मस्वरूपत्रिसन्ध्यापरिवर्जिताय ।विश्वात्मवेद्यवेदान्तत्रयीसिद्धान्तदर्शिताय ।सच्चिदानन्दविधृतसोमास्कन्दमहेश्वराय ।समस्तजननिध्यातचित्ताम्बुजसुखासनाय ।पुरुषार्थप्रदाय ।पूर्णाय ।हेयोपादेयवर्जिताय ।सविमर्शप्रकाशात्मसहजानन्दविग्रहाय ।शिवशक्तिस्वरूपात्मशक्तिशक्तिमदाकृतये ।तत्पदर्थैकस्वरूपात्मतत्त्वम्पदसुलक्षिताय ।आवृत्तित्रयसम्पूज्यत्रिलोकीपरिरक्षिताय ।रत्नस्तम्भसहस्राढ्यकलासम्पूर्णमन्दिराय ।आसीनस्पन्दनटनपरशम्भुपरासखाय ।सहस्रभानुसदृशाय ।चन्द्रकोटिसुशीतलाय नमः । ७८०ॐ अपारकरुणासिन्धवे नमः ।असङ्ख्यमहिमार्णवाय ।सर्वज्ञतादिषाड्गुण्यसंयुतस्वात्मवैभवाय ।पञ्चाशाद्वर्णमध्यस्थपराप्रासादमन्त्रगाय ।पञ्चाशद्वर्णराज्ञीभिः स्तुतशाम्भववैभवाय ।तेजःपञ्चकबिम्बोद्यद्दीपज्वालावलोकनाय ।सोमसूर्याग्निनक्षत्रविद्युत्प्रतिमतेजसे ।श्रीविद्याराज्ञीकराम्भोजकृतकौतुकमङ्गलाय ।मेघध्वनिसमालापाय ।वल्मीकसाध्वसध्वनये ।यज्ञेश्वराय ।यज्ञमयाय ।महायज्ञक्रमावृताय ।जपयज्ञक्रियाज्ञानतोषितध्वनये ।मन्त्रविदे ।वागर्थरूपाय ।वागीशाय ।त्रिकालप्रणवाभिधाय ।भक्तोत्सुकाय ।भक्तिगम्याय ।भक्ति गीतस्तवोन्मुखाय नमः । ८००ॐ दृष्टादृष्टानेकमूर्तये नमः ।दुष्टारिबलमर्दनाय ।शिवोत्तमाय ।शिवतमाय ।शिवदात्रे ।शिवाप्रियाय ।शिवानन्दमयाकाराय ।शिवाप्रेमविधायकाय ।शिवामृताब्धिशीतांशवे ।शिवानन्दामृतार्णवाय ।शिवाक्षरपरञ्जयोतिषे ।शिवाङ्गाधिकसुन्दराय ।शिवासंसक्तहृदयाय ।शिवातोषितमानसाय ।शिवाक्षरद्वयाकाराय ।शिवागममुखाम्बुजाय ।शिवशृङ्गारवेषाढ्याय ।शिवाकल्याणसुन्दराय ।शिवागमैकनिलयाय ।शिवोऽहम्भावना-प्रीताय नमः । ८२०ॐ शिवजीवात्मबोधकाय नमः ।शिवमन्त्रोपदेशकाय ।शिवागमोक्तनियमाय । गमायशिवागमनदीपकाय ।शिवमन्त्रज्ञमुक्तिदाय ।शिवमन्त्रजपप्रियाय ।भूताधिपाय ।भूथनाथाय ।भूतवाहनसुन्दराय ।भूतनाट्योत्सुकाय ।भूतसन्दोहसुप्रियाय ।भूतचक्राराधिताय ।भूतसङ्घसमावृताय ।भूतादिकालवेत्रे ।भूतिभूषितविग्रहाय ।भूतसङ्घप्रपूजिताय ।भूतपञ्चकविग्रहाय ।लक्षकोटिमहाभूतगणसंरक्षकावृताय ।कोटिकोटिमहाभूतरक्षिताण्डबहिःस्थलाय ।पुण्यापुण्यविनिर्मुक्तपुण्यापुण्यसमेक्षणाय नमः । ८४०ॐ सकृत्सन्दर्शनादेव सुरेन्द्रपददायकाय नमः ।पुण्यश्रवणकीर्त्यात्मने ।पुण्यापुण्यफलप्रदाय ।करालमुखकृष्णाङ्गाय ।कृष्णाजिनसुलाञ्छिताय ।कोटिचन्द्रप्रभाकारपूर्णचन्द्रनिभाननाय ।महाकैरातवेषाढ्यपार्थप्रहरमूर्धकाय ।महापाशुपतास्त्रेशदानतोषितपाण्डवाय ।महागणेशविध्वस्तविघ्नसिद्धौघवन्दिताय ।महाप्रलयंसभूतसर्वप्राण्युपसंहृतये ।महाप्रलयकालान्तसृष्टिस्थितिविधायकाय ।मूलात्मकोषःकालस्थमुद्गान्नप्रियमानसाय ।स्वाधिष्ठानात्मकप्रातर्दध्यन्नप्रियमानसाय ।मणिपूरात्ममध्याह्नघृतमुद्गान्नमानसाय ।अनाहतात्मसायाह्नगुळान्नप्रियमानसाय ।विशुद्धयात्मनिशासन्ध्यापायसान्नप्रियात्मकाय ।आज्ञात्मकार्धयामस्थसर्वान्नप्रियमानसाय ।समुद्गशर्कराज्यान्नमाषापूपरसप्रियाय ।समुद्गचोचकैर्मिश्रसूचीघनबहुप्रियाय ।नानाकोणमधुच्छिद्रनानाभक्ष्यबहुप्रियाय नमः । ८६०ॐ लीलामात्रकृतानेकजगदुत्पत्तिनाशनाय नमः ।अव्याजकरुणामूर्तये ।अज्ञानध्वान्तभास्कराय ।मार्ताण्डभैरवाराध्यवीरखड्गविराजिताय ।वीरभद्रसमाराध्यवृषभेन्द्रविलासिताय ।वेदमार्गैकनिपुणाय ।वेदान्तपरिनिष्ठिताय ।वैदिकाचारसम्पन्नाय ।वामदेववरप्रदाय ।ऊर्ध्वस्वायम्भुवादृश्याय ।दिव्यस्वायम्भुवात्मकाय ।मन्वात्मने ।शैवसम्पन्नाय ।सकृत्सन्तानबोधकाय ।कमलापतिसंसेव्यकमलासनपूजिताय ।उक्षपताकापतये ।हराय ।आरूढवृषध्वजाय ।अजय्यगोपदीप्यग्राय ।महाकारुणिकोत्तमाय ।जगत्प्रदीपरूपिणे ।लोकत्रयविभावनाय नमः । ८८०ॐ जगद्धितैषिणे नमः ।दिव्यात्मने ।श्रीमते अमितविग्रहाय ।महाग्रासाय ।महामानिने ।क्षयद्वीराय ।शाश्वताय ।श्रीक्षेत्रभैरवाय ।कैवर्तकन्यकोद्वहाय ।नृसिंहहन्त्रे ।कामारये ।विष्णुमायान्तकाय ।त्र्यम्बकाय ।शिपिविष्टाय ।मखारये ।नीललोहिताय ।महाप्राणाय ।महाजीवाय ।प्राणापानप्रवर्तकाय ।व्योमव्यापिने ।व्योमरूपाय नमः । ९००ॐ व्योमसूक्ष्माय नमः ।विराण्मयाय ।एकाधिपत्यसाम्राज्यप्रदाय ।एकान्तपूजिताय ।द्विरूपशिवशक्त्यात्मने ।हंसदिव्याक्षराभिधाय ।त्रिमात्रप्रणवध्येयाय ।त्र्यक्षाय ।त्रिजगदीश्वराय ।चतुर्मुखादिसंसेव्याय ।चतुर्वर्गफलप्रदाय ।पञ्चाक्षरपरञ्ज्योतिषे ।पञ्चाक्षरमयाकृतये ।पञ्चाक्षरप्राणरूपाय ।पञ्चाक्षरजपप्रियाय ।पञ्चाक्षरग्रहाधीशाय ।पञ्चाक्षरतिरोहिताय ।पञ्चाक्षरसदाव्यापिने ।पञ्चाक्षरपुरेश्वराय ।पञ्चाक्षरप्रमाणज्ञाय नमः । ९२०ॐ पञ्चाक्षरकमुक्तिदाय नमः ।पञ्चाक्षरविदीप्ताय ।पञ्चाक्षरफलप्रदाय ।पञ्चाक्षरनिवासीनक्षीरार्णवमणये ।नटाय ।पञ्चाक्षरमहामन्त्रशब्दब्रह्माक्षरोज्ज्वलाय ।चतुःषष्टिकलातीर्थदेवताकोटिसंश्रिताय ।श्रीमत्स्वात्मकलामूर्ध्नि जटागङ्गाकलाधराय ।श्रीमद्भगीरथेन्द्राय भूवाराणसिदर्शकाय ।श्रीमत्कात्यायनीमुख्यशक्तिपाणिग्रहोत्सुकाय ।षडङ्गसंस्थिताय ।सप्तकोटीश्वरनिषेविताय ।अष्टमूर्तये ।अनेकात्मने ।अष्टैश्वर्यफलप्रदाय ।नवतत्वातीतमूर्तये ।नवाक्षरजपप्रियाय ।दशायुधाय ।दशभुजाय ।दशदिग्व्याप्तविग्रहाय ।एकादशमहारुद्ररूपिणे ।सर्वजगत्प्रभवे ।भूलोकजनपुण्यौघसम्प्राप्तकमलालयाय ।शुद्धस्फटिकसङ्काशस्मितशोभिमुखाम्बुजाय ।दयातरङ्गितापाङ्गविलोकनविलासवते नमः । ९४०ॐ वरदाभीतिपरशुमृगासक्तकराम्बुजाय नमः ।कोटिकन्दर्पलावण्यपुण्यसर्वाङ्गसुन्दराय ।सौन्दर्यलहरीपूर्णराजकुम्भेशविग्रहाय ।निजावयवगन्धश्रीसुगन्धितदिगन्तराय ।श्रवणानन्दसन्दायिसौन्दर्यमृदुभाषणाय ।कर्पूरधूलिमिलितभस्मोद्धूलितपाण्डराय ।महामृगमदोद्दामकृष्णगन्धसुगन्धिताय ।कर्पूरकुङ्कुमाद्यष्टचन्दनद्रवचर्चिताय ।कालागरुकृतानेकधूपामोदसुमोदिताय ।गव्यनिर्वर्तितानेकप्रदीपावलिभासुराय ।समुद्रगरलभ्राजद्गलस्थलसुशोभिताय ।तिलोत्तमोर्वशीरम्भाकल्पितारात्रिकक्रमाय ।सायन्तनमहादीपमङ्गलाराधनक्रमाय ।दर्पणान्तर्गतस्वात्मप्रतिबिम्बनिभेक्षणाय ।चन्द्रमण्डलसङ्काशश्वेतच्छत्रविराजिताय ।पार्श्वद्वयपरिभ्राजच्चामरावलिराजिताय ।तापिञ्छनीलपिञ्छौघच्छायासञ्छादिताम्बराय ।मयूरव्यजनोद्भूतमन्दमारुतसन्ततये ।ऋग्यजुःसामजस्तोत्रश्रवणोत्सुकमानसाय ।तरुणीभिः समारब्धशुद्धनृत्तेक्षणप्रियाय नमः । ९६०ॐ पञ्चब्रह्मषडङ्गार्णपञ्चब्रह्मषडङ्गकाय नमः ।एकमन्त्रषडङ्गार्णपञ्चव्रह्मषडङ्गवते ।अष्टत्रिंशत्कलाकॢप्ततनुवीक्षणवैभवाय ।व्योमव्यापिमहामन्त्रवर्णितनेकशक्तिकाय ।अनन्तादिशिवध्याननन्दिभृङ्ग्यादिसेविताय ।दशायुधादिदिक्पालैर्दिक्पतिद्विदशावृताय ।शतरुद्रावृतप्रान्तसहस्रगणपावृताय ।सिद्धगन्धर्वयक्षादिदेवसङ्घनिषेविताय ।अनेकजन्मसंसिद्धपुण्यलभ्यपदाम्बुजाय ।नित्यतृप्तानादिबोधस्वतन्त्त्रालुप्त्यनन्तकाय ।प्रत्युप्तनवरत्नैघसिंहासनवरस्थिताय ।भक्ताभीष्टप्रदाय ।साक्षात्सकलीकृतविग्रहाय ।वसन्तवातसन्तुष्टाय ।वसन्तनर्तनोत्सुकाय ।श्रीनीलोत्पलनायक्याःपाणिग्रहणभास्वराय ।संसारतापविच्छेत्त्रे ।महासंसारकारकाय ।ईषणारहितोद्युक्तशिवज्ञानप्रदायकाय ।हाटकक्षेत्रसम्भूतजीवन्मुक्तिप्रदायकाय ।हाटकाभरणाबद्धसर्वावयवशेभिताय नमः । ९८०ॐ शेखरीकृतशीतांशुजाह्नवीबद्धमस्तकाय नमः ।शरच्चन्द्रसमाकारवदनाय ।मञ्जुलस्वनाय ।प्रलयाग्निसमाकारहालाहलविषाशनाय ।अनेककोटिब्रह्माण्डनायकाय ।नीलकन्धराय ।कनकाङ्गदकेयूरकमनीयभुजान्विताय ।झलञ्झलितशब्दौघकटकाबद्धपादुकाय ।व्याघ्रचर्मधराय ।व्याघ्रपादपूजितपादुकाय ।आनन्दवनमध्यस्थाय ।सर्वानन्दविधायकाय ।सिद्धेश्वराय ।सर्वसिद्धपूजिताय ।परमाद्भुताय ।षष्टित्रिंशत्सङ्ख्यातलीलाकल्पितविग्रहाय ।लोकसंरक्षणार्थाय राजवेषधराय ।नानाविचित्रवेषाढ्याय ।नानासिद्धान्तवेदिने ।दिव्यशृङ्गारवेषाढ्याय ।नामरूपविवर्जिताय नमः । १०००ॐ दिगम्बराय नमः ।अव्ययाय ।शृङ्गारवनमध्यगाय ।भूदाररूपवैकुण्ठपरिमृग्यपदाम्बुजाय ।हंसरूपहंसवाहादृष्टशिरसे ।लेलिहानमहाघोरमहातेजःस्वरूपवते ।चन्द्रहासद्वययुतचन्द्रहासमुखान्विताय ।वीथीविटङ्कसाम्बाय ।स्वात्मपूजनतत्पराय ।महाभिषेकनैवेद्यमहापूजनतत्पराय ।विराडाधारमूलस्थत्यागाराजमहेश्वराय ।श्रीसोमास्कन्दवीथीविटङ्कसाम्बपरमेश्वराय नमः । १०१०श्रीत्यागराजाय ।कृपानिधये ।दयानिधये नमः ।इति श्रीत्यागराज-मुचुकुन्द-सहस्रनामावली समाप्ता । N/A References : N/A Last Updated : January 15, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP