श्रीमूकाम्बिका दिव्यसहस्रनामावलिः - ॐ अस्यश्री मूकाम्बिकायाः ...
हिंदू देवी देवतांची एक हजार नावे म्हणजेच सहस्त्रनामावली. हिंदू धर्मिय रोज सकाळी संध्याकाळी या नावांचा जप करतात.
A sahasranamavali is a type of Hindu scripture in which a diety is referred to by 1000 or more different names.Many devout Hindus chant them every morning or evening.
ॐ अस्यश्री मूकाम्बिकायाः
वरदिव्यसहस्रनामावलिः मालामहामन्त्रस्य
मार्कण्डेय भगवान् ऋषिः - गायत्री छन्दः -
त्रिमूर्त्यैक्यस्वरूपिणी महाकाली-महालक्ष्मी-महासरस्वती
त्रिगुणात्मिका श्री मूकाम्बिका देवता -
ह्रां बीजं - ह्रीं शक्तिः - ह्रूं कीलकं -
श्री मूकाम्बिका वरप्रसादसिद्ध्यर्थे जपे विनियोगः ॥
(ह्रां इत्यादि वा मूकाम्बिकायाः गौरी पञ्चदशाक्षर्याख्या
बालकुमारिका विद्यया वा न्यासमाचरेत्)
ध्यानम् -
शैलाधिराजतनयां शरदिन्दुकोटि-
भास्वन् मुखाम्बुजकिरीटयुतां त्रिनेत्राम् ।
शङ्खार्यभीतिवरवर्यकरां मनोज्ञां
मूकाम्बिकां मुनिसुराऽभयदां स्मरामि ॥१॥
प्रमत्त मधुकैटभौ महिषदानवं याऽवधीत्
सधूम्रनयनाह्वयौ सबलचण्डमुण्डावपि ।
सरक्तदनुजौ भयङ्करनिशुभशुम्भासुरौ असौ ।
भगवती सदा हृदि विभातु मूकाम्बिका ॥२॥
प्रपन्नजनकामदां प्रबलमूकदर्पापहां
अनुष्णसुकलाधरां अरिदराभयेष्टान्विताम् ।
तटिद्विसरभासुरां कुटजशैलमूलाश्रितां ।
अशेषविभुधात्मिकां अनुभजामि मूकाम्बिकाम् ॥३॥
॥ लमित्यादि पञ्चपूजा ॥
श्री मार्कण्डेय उवाच ।
श्रीं ह्रीं ऐं ॐ ।
ॐ मूकाम्बिकायै नमः ।
ॐ मूकमात्रे नमः ।
ॐ मूकवाग्भूतिदायिन्यै नमः ।
ॐ महालक्ष्म्यै नमः ।
ॐ महादेव्यै नमः ।
ॐ महाराज्यप्रदायिन्यै नमः ।
ॐ महोदयायै नमः ।
ॐ महारूपायै नमः ।
ॐ मान्यायै नमः ।
ॐ महितविक्रमायै नमः । १०
ॐ मनुवन्द्यायै नमः ।
ॐ महेष्वासायै नमः ।
ॐ मन्त्रिवर्यायै नमः ।
ॐ मनस्विन्यै नमः ।
ॐ मेनकातनयायै नमः ।
ॐ मात्रे नमः ।
ॐ महितायै नमः ।
ॐ मातृपूजितायै नमः ।
ॐ महत्यै नमः ।
ॐ मारजनन्यै नमः । २०
ॐ मृतसञ्जीविन्यै नमः ।
ॐ मत्यै नमः ।
ॐ महनीयायै नमः ।
ॐ मदोल्लासायै नमः ।
ॐ मन्दारकुसुमप्रभायै नमः ।
ॐ माधव्यै नमः ।
ॐ मल्लिकापूज्यायै नमः ।
ॐ मलयाचलवासिन्यै नमः ।
ॐ महाङ्कभगिन्यै नमः ।
ॐ मूर्तायै नमः । ३०
ॐ महासारस्वतप्रदायै नमः ।
ॐ मर्त्यलोकाश्रयायै नमः ।
ॐ मन्यवे नमः ।
ॐ मतिदायै नमः ।
ॐ मोक्षदायिन्यै नमः ।
ॐ महापूज्यायै नमः ।
ॐ मखफलप्रदायै नमः ।
ॐ मघवदाश्रयायै नमः ।
ॐ मरीचये नमः ।
ॐ मारुतप्राणायै नमः । ४०
ॐ मनुज्येष्ठायै नमः ।
ॐ महौषधायै नमः ।
ॐ महाकारुणिकायै नमः ।
ॐ मुक्ताभरणायै नमः ।
ॐ मङ्गलप्रदायै नमः ।
ॐ मणिमाणिक्यशोभाढ्यायै नमः ।
ॐ मदहीनायै नमः ।
ॐ मदोत्कटायै नमः ।
ॐ महाभाग्यवत्यै नमः ।
ॐ मन्दस्मितायै नमः । ५०
ॐ मन्मथसेवितायै नमः ।
ॐ मायाविद्यामय्यै नमः ।
ॐ मञ्जुभाषिण्यै नमः ।
ॐ मदलालसायै नमः ।
ॐ मृडाण्यै नमः ।
ॐ मृत्युमथिन्यै नमः ।
ॐ मृदुभाषायै नमः ।
ॐ मृडप्रियायै नमः ।
ॐ मन्त्रज्ञायै नमः ।
ॐ मित्रसङ्काशायै नमः । ६०
ॐ मुनये नमः ।
ॐ महिषमर्दिन्यै नमः ।
ॐ महोदयायै नमः ।
ॐ महोरस्कायै नमः ।
ॐ मृगदृष्टये नमः ।
ॐ महेश्वर्यै नमः ।
ॐ मृनालशीतलायै नमः ।
ॐ मृत्यवे नमः ।
ॐ मेरुमन्दरवासिन्यै नमः ।
ॐ मेधायै नमः । ७०
ॐ मातङ्गगमनायै नमः ।
ॐ महामारीस्वरूपिण्यै नमः ।
ॐ मेघश्यामायै नमः ।
ॐ मेघनादायै नमः ।
ॐ मीनाक्ष्यै नमः ।
ॐ मदनाकृतये नमः ।
ॐ मनोन्मय्यै (मनोन्मन्यै) नमः ।
ॐ महामायायै नमः ।
ॐ महिषासुरमोक्षदायै नमः ।
ॐ मेनकावन्दितायै नमः । ८०
ॐ मेन्यायै नमः ।
ॐ मुनिवन्दितपादुकायै नमः ।
ॐ मृत्युवन्द्यायै नमः ।
ॐ मृत्युदात्र्यै नमः ।
ॐ मोहिन्यै नमः ।
ॐ मिथुनाकृत्यै नमः ।
ॐ महारूपायै नमः ।
ॐ मोहिताङ्ग्यै नमः ।
ॐ मुनिमानससंस्थितायै नमः ।
ॐ मोहनाकारवदनायै नमः । ९०
ॐ मुसलायुधधारिण्यै नमः ।
ॐ मरीचिमालायै नमः ।
ॐ माणिक्यभूषणायै नमः ।
ॐ मन्दगामिन्यै नमः ।
ॐ महिष्यै नमः ।
ॐ मारुतगतये नमः ।
ॐ महालावण्यशालिन्यै नमः ।
ॐ मृदङ्गनादिन्यै नमः ।
ॐ मैत्र्यै नमः ।
ॐ मदिरामोदलालसायै नमः । १००
ॐ मायामय्यै नमः ।
ॐ मोहनाशायै नमः ।
ॐ मुनिमानसमन्दिरायै नमः ।
ॐ मार्ताण्डकोटिकिरणायै नमः ।
ॐ मिथ्याज्ञाननिवारिण्यै नमः ।
ॐ मृगाङ्कवदनायै नमः ।
ॐ मार्गदायिन्यै नमः ।
ॐ मृगनाभिधृचे नमः ।
ॐ मन्दमारुतसंसेव्यायै नमः ।
ॐ मन्दारतरुमूलगायै नमः । ११०
ॐ मन्दहासायै नमः ।
ॐ मदकर्यै नमः ।
ॐ मधुपानसमुद्यतायै नमः ।
ॐ मधुरायै नमः ।
ॐ माधवनुतायै नमः ।
ॐ माधव्यै नमः ।
ॐ माधवार्चितायै नमः ।
ॐ मार्ताण्डकोटिजनन्यै नमः ।
ॐ मार्ताण्डगतिदायिन्यै नमः ।
ॐ मृणालमूर्तये नमः । १२०
ॐ मायाव्यै नमः ।
ॐ महासाम्राज्यदायिन्यै नमः ।
ॐ कान्तायै नमः ।
ॐ कान्तमुखायै नमः ।
ॐ काल्यै नमः ।
ॐ कचनिर्जितभृङ्गिकायै नमः ।
ॐ कञ्जाक्ष्यै नमः ।
ॐ कञ्जवदनायै नमः ।
ॐ कस्तूरीतिलकोज्ज्वलायै नमः ।
ॐ कलिकाकारवदनायै नमः । १३०
ॐ कर्पूरामोदसंयुतायै नमः ।
ॐ कोकिलालापसङ्गीतायै नमः ।
ॐ कनकाकृतिबिम्बभृते नमः ।
ॐ कम्बुकण्ठ्यै नमः ।
ॐ कञ्जहारायै नमः ।
ॐ कलिदोषविनाशिन्यै नमः ।
ॐ कञ्चुकाढ्यायै नमः ।
ॐ कञ्जरूपायै नमः ।
ॐ काञ्चीभूषणराजितायै नमः ।
ॐ कण्ठीरवजितामध्यायै नमः । १४०
ॐ काञ्चीदामविभूषितायै नमः ।
ॐ कृतकिङ्किणिकाशोभायै नमः ।
ॐ काञ्चनस्राविनीविकायै नमः ।
ॐ काञ्चनोत्तमशोभाढ्यायै नमः ।
ॐ कनकाक्लृप्तपादुकायै नमः ।
ॐ कण्ठीरवसमासीनायै नमः ।
ॐ कण्ठीरवपराक्रमायै नमः ।
ॐ कल्याण्यै नमः ।
ॐ कमलायै नमः ।
ॐ काम्यायै नमः । १५०
ॐ कमनीयायै नमः ।
ॐ कलावत्यै नमः ।
ॐ कृतये नमः ।
ॐ कल्पतरवे नमः ।
ॐ कीर्तये नमः ।
ॐ कुटजाचलवासिन्यै नमः ।
ॐ कविप्रियायै नमः ।
ॐ काव्यलोलायै नमः ।
ॐ कपर्दीरुचिराकृतायै नमः ।
ॐ कण्ठीरवध्वजायै नमः । १६०
ॐ कामरूपायै नमः ।
ॐ कामितदायिन्यै नमः ।
ॐ कृषाणवे नमः ।
ॐ केशवनुतायै नमः ।
ॐ कृतप्रज्ञायै नमः ।
ॐ कृशोदर्यै नमः ।
ॐ कोशाधीश्वरसंसेव्यायै नमः ।
ॐ कृशायै नमः ।
ॐ कर्षितपातकायै नमः ।
ॐ करीन्द्रगामिन्यै नमः । १७०
ॐ केळ्यै नमः ।
ॐ कुमार्यै नमः ।
ॐ कलभाषिण्यै नमः ।
ॐ कलिदोषहरायै नमः ।
ॐ काष्ठायै नमः ।
ॐ करवीरसुमप्रियायै (करवीरसुमप्रभायै) नमः ।
ॐ कलारूपायै नमः ।
ॐ कृष्णनुतायै नमः ।
ॐ कलाधरसुपूजितायै नमः ।
ॐ कुब्जायै नमः । १८०
ॐ कञ्जेक्षणायै नमः ।
ॐ कन्यायै नमः ।
ॐ कलाधरमुखायै नमः ।
ॐ कवये नमः ।
ॐ कलायै नमः ।
ॐ कलाङ्ग्यै नमः ।
ॐ कावेर्यै नमः ।
ॐ कौमुद्यै नमः ।
ॐ कालरूपिण्यै नमः ।
ॐ कलाढ्यायै नमः । १९०
ॐ कोलसंहर्त्र्यै नमः ।
ॐ कुसुमाढ्यायै नमः ।
ॐ कुलाङ्गनायै नमः ।
ॐ कुचोन्नतायै नमः ।
ॐ कुङ्कुमाढ्यायै नमः ।
ॐ कौसुम्भकुसुमप्रियायै नमः ।
ॐ कुचशोभायै नमः ।
ॐ कालरात्र्यै नमः ।
ॐ कीचकारण्यसेवितायै नमः ।
ॐ कुष्ठरोगहरायै नमः । २००
ॐ कूर्मपृष्ठायै नमः ।
ॐ कामितविग्रहायै नमः ।
ॐ कलाननायै नमः ।
ॐ कलालापायै नमः ।
ॐ कलाभाधीश्वरार्चितायै नमः ।
ॐ केतकीकुसुमप्रीतायै नमः ।
ॐ कैलासपददायिन्यै नमः ।
ॐ कपर्दिन्यै नमः ।
ॐ कलामालायै नमः ।
ॐ केशवार्चितपादुकायै नमः । २१०
ॐ कुशात्मजायै नमः ।
ॐ केशपाशायै नमः ।
ॐ कोलापुरनिवासिन्यै नमः ।
ॐ कोशनाथायै नमः ।
ॐ क्लेशहन्त्र्यै नमः ।
ॐ कीशसेव्यायै नमः ।
ॐ कृपापरायै नमः ।
ॐ कौन्तेयार्चितपादाब्जायै नमः ।
ॐ कालिन्द्यै नमः ।
ॐ कुमुदालयायै नमः । २२०
ॐ कनत्कनकताटङ्कायै नमः ।
ॐ करिण्यै नमः ।
ॐ कुमुदेक्षणायै नमः ।
ॐ कोकस्तन्यै नमः ।
ॐ कुन्दरदनायै नमः ।
ॐ कुलमार्गप्रवर्तिन्यै नमः ।
ॐ कुबेरपूजितायै नमः ।
ॐ स्कन्दमात्रे नमः ।
ॐ कीलालशीतलायै नमः ।
ॐ काल्यै नमः । २३०
ॐ कामकलायै नमः ।
ॐ काश्यै नमः ।
ॐ काशपुष्पसमप्रभायै नमः ।
ॐ किन्नर्यै नमः ।
ॐ कुमुदाह्लादकारिण्यै नमः ।
ॐ कपिलाकृतये नमः ।
ॐ कार्यकारणनिर्मुक्तायै नमः ।
ॐ कृमिकीटान्तमोक्षदायै नमः ।
ॐ किरातवनितायै नमः ।
ॐ कान्त्यै नमः । २४०
ॐ कार्यकारणरूपिण्यै नमः ।
ॐ कपिलायै नमः ।
ॐ कपिलाराध्यायै नमः ।
ॐ कपीशध्वजसेवितायै नमः ।
ॐ कराल्यै नमः ।
ॐ कार्तिकेयाख्यजनन्यै नमः ।
ॐ कान्तविग्रहायै नमः ।
ॐ करभोरवे नमः ।
ॐ करेणुश्रियै नमः ।
ॐ कपालिप्रीतिदायिन्यै नमः । २५०
ॐ कोलर्षिवरसंसेव्यायै नमः ।
ॐ कृतज्ञायै नमः ।
ॐ काङ्क्षितार्थदायै नमः ।
ॐ बालायै नमः ।
ॐ बालनिभायै नमः ।
ॐ बाणधारिण्यै नमः ।
ॐ बाणपूजितायै नमः ।
ॐ बिसप्रसूननयनायै नमः ।
ॐ बिसतन्तुनिभाकृतये नमः ।
ॐ बहुप्रदायै नमः । २६०
ॐ बहुबलायै नमः ।
ॐ बालादित्यसमप्रभायै नमः ।
ॐ बलाधरहितायै नमः ।
ॐ बिन्दुनिलयायै नमः ।
ॐ बगलामुखायै नमः ।
ॐ बदरीफलवक्षोजायै नमः ।
ॐ बाह्यदम्भविवर्जितायै नमः ।
ॐ बलायै नमः ।
ॐ बलप्रियायै नमः ।
ॐ बन्धवे नमः । २७०
ॐ बन्धायै (बुधायै) नमः ।
ॐ बौद्धायै नमः ।
ॐ बुधेश्वर्यै नमः ।
ॐ बिल्वप्रियायै नमः ।
ॐ बाललतायै नमः ।
ॐ बालचन्द्रविभूषितायै नमः ।
ॐ बुद्धिदायै नमः ।
ॐ बन्धनच्छेत्र्यै नमः ।
ॐ बन्धूककुसुमप्रियायै नमः ।
ॐ ब्राह्म्यै नमः । २८०
ॐ ब्रह्मनुतायै नमः ।
ॐ ब्रध्नतनयायै नमः ।
ॐ ब्रह्मचारिण्यै नमः ।
ॐ बृहस्पतिसमाराध्यायै नमः ।
ॐ बुधार्चितपदाम्बुजायै नमः ।
ॐ बृहत्कुक्ष्यै नमः ।
ॐ बृहद्वाण्यै नमः ।
ॐ बृहत्पृष्ठायै नमः ।
ॐ बिलेशयायै नमः ।
ॐ बर्हिध्वजसुतायै नमः । २९०
ॐ बर्हिकचायै नमः ।
ॐ बीजाश्रयायै नमः ।
ॐ बलायै नमः ।
ॐ बिन्दुरूपायै नमः ।
ॐ बीजापूरप्रियायै नमः ।
ॐ बालेन्दुशेखरायै नमः ।
ॐ बिजाङ्कुरोद्भवायै नमः ।
ॐ बीजरूपिण्यै नमः ।
ॐ ब्रह्मरूपिण्यै नमः ।
ॐ बोधरूपायै नमः । ३००
ॐ बृहद्रूपायै नमः ।
ॐ बन्धिन्यै नमः ।
ॐ बन्धमोचिन्यै नमः ।
ॐ बिम्बसंस्थायै नमः ।
ॐ बालरूपायै नमः ।
ॐ बालरात्रीशधारिण्यै नमः ।
ॐ वनदुर्गायै नमः ।
ॐ वह्निनौकायै नमः ।
ॐ श्रीवन्द्यायै नमः ।
ॐ वनसंस्थितायै नमः । ३१०
ॐ वह्नितेजसे नमः ।
ॐ वह्निशक्त्यै नमः ।
ॐ वनितारत्नरूपिण्यै नमः ।
ॐ वसुन्धरायै नमः ।
ॐ वसुमत्यै नमः ।
ॐ वसुधायै नमः ।
ॐ वसुदायिन्यै नमः ।
ॐ वासवादिसुराराध्यायै नमः ।
ॐ वन्ध्यताविनिवर्तिन्यै नमः ।
ॐ विवेकिन्यै नमः । ३२०
ॐ विशेषज्ञायै नमः ।
ॐ विष्णवे नमः ।
ॐ वैष्णवपूजितायै नमः ।
ॐ पण्डिताखिलदैत्यारये नमः ।
ॐ विजयायै नमः ।
ॐ विजयप्रदायै नमः ।
ॐ विलासिन्यै नमः ।
ॐ वेदवेद्यायै नमः ।
ॐ वियत्पूज्यायै नमः ।
ॐ विशालिन्यै नमः । ३३०
ॐ विश्वेश्वर्यै नमः ।
ॐ विश्वरूपायै नमः ।
ॐ विश्वसृष्टिविधायिन्यै नमः ।
ॐ वीरपत्न्यै नमः ।
ॐ वीरमात्रे नमः ।
ॐ वीरलोकप्रदायिन्यै नमः ।
ॐ वरप्रदायै नमः ।
ॐ वर्यपदायै (वीर्यप्रदायै) नमः ।
ॐ वैष्णवश्रियै नमः ।
ॐ वधूवरायै नमः । ३४०
ॐ वध्यै नमः ।
ॐ वारिधिसञ्जातायै नमः ।
ॐ वारणादिसुसंस्थितायै नमः ।
ॐ वामभागाधिकायै नमः ।
ॐ वामायै नमः ।
ॐ वाममार्गविशारदायै नमः ।
ॐ वामिन्यै नमः ।
ॐ वज्रिसंसेव्यायै नमः ।
ॐ वज्राद्यायुधधारिण्यै नमः ।
ॐ वश्यायै नमः । ३५०
ॐ वेद्यायै नमः ।
ॐ विश्वरूपायै नमः ।
ॐ विश्ववन्द्यायै नमः ।
ॐ विमोहिन्यै नमः ।
ॐ विद्वद्रूपायै नमः ।
ॐ वज्रनखायै नमः ।
ॐ वयोवस्थाविवर्जितायै नमः ।
ॐ विरोधशमन्यै नमः ।
ॐ विद्यायै नमः ।
ॐ वारितौघायै नमः । ३६०
ॐ विभूतिदायै नमः ।
ॐ विश्वात्मिकायै नमः ।
ॐ विश्वपाशमोचिन्यै नमः ।
ॐ वारणस्थितायै नमः ।
ॐ विबुधार्च्यायै नमः ।
ॐ विश्ववन्द्यायै नमः ।
ॐ विश्वभ्रमणकारिण्यै नमः ।
ॐ विलक्षणायै नमः ।
ॐ विशालाक्ष्यै नमः ।
ॐ विश्वामित्रवरप्रदायै नमः । ३७०
ॐ विरूपाक्षप्रियायै नमः ।
ॐ वारिजाक्ष्यै नमः ।
ॐ वारिजसम्भवायै नमः ।
ॐ वाङ्ग्मय्यै नमः ।
ॐ वाक्पतये नमः ।
ॐ वायुरूपायै नमः ।
ॐ वारणगामिन्यै नमः ।
ॐ वार्धिगम्भीरगमनायै नमः ।
ॐ वारिजाक्षसत्यै नमः ।
ॐ वरायै नमः । ३८०
ॐ विषयायै नमः ।
ॐ विषयासक्तायै नमः ।
ॐ विद्याऽविद्यास्वरूपिण्यै नमः ।
ॐ वीणाधारिण्यै नमः ।
ॐ विप्रपूज्यायै नमः ।
ॐ विजयायै नमः ।
ॐ विजयान्वितायै नमः ।
ॐ विवेकज्ञायै नमः ।
ॐ विधिस्तुतायै नमः ।
ॐ विशुद्धायै नमः । ३९०
ॐ विजयार्चितायै नमः ।
ॐ वैधव्यनाशिन्यै नमः ।
ॐ वैवाहितायै नमः ।
ॐ विश्वविलासिन्यै नमः ।
ॐ विशेषमानदायै नमः ।
ॐ वैद्यायै नमः ।
ॐ विबुधार्तिविनाशिन्यै नमः ।
ॐ विपुलश्रोणिजघनायै नमः ।
ॐ वलित्रयविराजितायै नमः ।
ॐ विजयश्रियै नमः । ४००
ॐ विधुमुखायै नमः ।
ॐ विचित्राभरणान्वितायै नमः ।
ॐ विपक्षव्रातसंहर्त्र्यै नमः ।
ॐ विपत्संहारकारिण्यै नमः ।
ॐ विद्याधरायै नमः ।
ॐ विश्वमय्यै नमः ।
ॐ विरजायै नमः ।
ॐ वीरसंस्तुतायै नमः ।
ॐ वेदमूर्तये नमः ।
ॐ वेदसारायै नमः । ४१०
ॐ वेदभाषायै नमः ।
ॐ विचक्षणायै नमः ।
ॐ विचित्रवस्त्राभरणायै नमः ।
ॐ विभूषितशरीरिण्यै नमः ।
ॐ वीणागायनसंयुक्तायै नमः ।
ॐ वीतरागायै नमः ।
ॐ वसुप्रदायै नमः ।
ॐ विरागिण्यै नमः ।
ॐ विश्वसारायै नमः ।
ॐ विश्वावस्थाविवर्जितायै नमः । ४२०
ॐ विभावसवे नमः ।
ॐ वयोवृद्धायै नमः ।
ॐ वाच्यवाचकरूपिण्यै नमः ।
ॐ वृत्रहन्त्र्यै नमः ।
ॐ वृत्तिदात्र्यै नमः ।
ॐ वाक्स्वरूपायै नमः ।
ॐ विराजितायै नमः ।
ॐ व्रतकार्यायै नमः ।
ॐ वज्रहस्तायै नमः ।
ॐ व्रतशीलायै नमः । ४३०
ॐ व्रतान्वितायै नमः ।
ॐ व्रतात्मिकायै नमः ।
ॐ व्रतफलायै नमः ।
ॐ व्रतषाड्गुण्यकारिण्यै नमः ।
ॐ वृत्तये नमः ।
ॐ वादात्मिकायै नमः ।
ॐ वृत्तिप्रदायै नमः ।
ॐ वर्यायै नमः ।
ॐ वषट्कृतायै नमः ।
ॐ विज्ञात्र्यै नमः । ४४०
ॐ विबुधायै (विभवायै) नमः ।
ॐ वेद्यायै नमः ।
ॐ विभावसुसमद्युत्यै नमः ।
ॐ विश्ववेद्यायै नमः ।
ॐ विरोधघ्न्यै नमः ।
ॐ विबुधस्तोमजीवनायै नमः ।
ॐ वीरस्तुत्यायै नमः ।
ॐ वियद्यानायै नमः ।
ॐ विज्ञानघनरूपिण्यै नमः ।
ॐ वरवाण्यै नमः । ४५०
ॐ विशुद्धान्तःकरणायै नमः ।
ॐ विश्वमोहिन्यै नमः ।
ॐ वागीश्वर्यै नमः ।
ॐ वाग्विभूतिदायिन्यै नमः ।
ॐ वारिजाननायै नमः ।
ॐ वारुणीमदरक्ताक्ष्यै नमः ।
ॐ वाममार्गप्रवर्तिन्यै नमः ।
ॐ वामनेत्रायै नमः ।
ॐ विराड्रूपायै नमः ।
ॐ वेत्रासुरनिषूदिन्यै नमः । ४६०
ॐ वाक्यार्थज्ञानसन्धात्र्यै नमः ।
ॐ वागधिष्ठानदेवतायै नमः ।
ॐ वैष्णव्यै नमः ।
ॐ विश्वजनन्यै नमः ।
ॐ विष्णुमायायै नमः ।
ॐ वराननायै नमः ।
ॐ विश्वम्भर्यै नमः ।
ॐ वीतिहोत्रायै नमः ।
ॐ विश्वेश्वरविमोहिन्यै नमः ।
ॐ विश्वप्रियायै नमः । ४७०
ॐ विश्वकर्त्र्यै नमः ।
ॐ विश्वपालनतत्परायै नमः ।
ॐ विश्वहन्त्र्यै नमः ।
ॐ विनोदाढ्यायै नमः ।
ॐ वीरमात्रे नमः ।
ॐ वनप्रियायै नमः ।
ॐ वरदात्र्यै नमः ।
ॐ वीतपानरतायै नमः ।
ॐ वीरनिबर्हिण्यै नमः ।
ॐ विद्युन्निभायै नमः । ४८०
ॐ वीतरोगायै नमः ।
ॐ वन्द्यायै नमः ।
ॐ विगतकल्मषायै नमः ।
ॐ विजिताखिलपाषण्डायै नमः ।
ॐ वीरचैतन्यविग्रहायै नमः ।
ॐ रमायै नमः ।
ॐ रक्षाकर्यै नमः ।
ॐ रम्यायै नमः ।
ॐ रमणीयायै नमः ।
ॐ रणप्रियायै नमः । ४९०
ॐ रक्षापरायै नमः ।
ॐ राक्षसघ्न्यै नमः ।
ॐ राज्ञ्यै नमः ।
ॐ रमणराजितायै नमः ।
ॐ राकेन्दुवदनायै नमः ।
ॐ रुद्रायै नमः ।
ॐ रुद्राण्यै नमः ।
ॐ रौद्रवर्जितायै नमः ।
ॐ रुद्राक्षधारिण्यै नमः ।
ॐ रोगहारिण्यै नमः । ५००
ॐ रङ्गनायिकायै नमः ।
ॐ राज्यश्रीरञ्जितपदायै नमः ।
ॐ राजराजनिषेवितायै नमः ।
ॐ रुचिरायै नमः ।
ॐ रोचनायै नमः ।
ॐ रोचिषे नमः ।
ॐ ऋणमोचनकारिण्यै नमः ।
ॐ रजनीशकलायुक्तायै नमः ।
ॐ रजताद्रिनिकेतनायै नमः ।
ॐ रागोष्ठ्यै नमः । ५१०
ॐ रागहृदयायै नमः ।
ॐ रामायै नमः ।
ॐ रावणसेवितायै नमः ।
ॐ रक्तबीजार्दिन्यै नमः ।
ॐ रक्तलोचनायै नमः ।
ॐ राज्यदायिन्यै नमः ।
ॐ रविप्रभायै नमः ।
ॐ रतिकरायै नमः ।
ॐ रत्नाढ्यायै नमः ।
ॐ राज्यवल्लभायै नमः । ५२०
ॐ राजत्कुसुमधम्मिल्लायै नमः ।
ॐ राजराजेश्वर्यै नमः ।
ॐ रत्यै नमः ।
ॐ राधायै नमः ।
ॐ राधार्चितायै नमः ।
ॐ रौद्र्यै नमः ।
ॐ रणन्मञ्जीरनूपुरायै नमः ।
ॐ राकायै नमः ।
ॐ रात्र्यै नमः ।
ॐ ऋजवे नमः । ५३०
ॐ राशये नमः ।
ॐ रुद्रदूत्यै नमः ।
ॐ ऋगात्मिकायै नमः ।
ॐ राजच्चन्द्रजटाजूटायै नमः ।
ॐ राकेन्दुमुखपङ्कजायै नमः ।
ॐ रावणारिहृदावासायै नमः ।
ॐ रावणेशविमोहिन्यै नमः ।
ॐ राजत्कनककेयूरायै नमः ।
ॐ राजत्करजिताम्बुजायै नमः ।
ॐ रागहारयुतायै नमः । ५४०
ॐ रामसेवितायै नमः ।
ॐ रणपण्डितायै नमः ।
ॐ रम्भोरवे नमः ।
ॐ रत्नकटकायै नमः ।
ॐ राजहंसगतागत्यै नमः ।
ॐ राजिवरञ्जितपदायै नमः ।
ॐ राजसिंहासनस्थितायै नमः ।
ॐ रक्षाकर्यै नमः ।
ॐ राजवन्द्यायै नमः ।
ॐ रक्षोमण्डलभेदिन्यै नमः । ५५०
ॐ दाक्षायण्यै नमः ।
ॐ दान्तरूपायै नमः ।
ॐ दानकृते नमः ।
ॐ दानवार्दिन्यै नमः ।
ॐ दारिद्र्यनाशिन्यै नमः ।
ॐ दात्र्यै नमः ।
ॐ दयायुक्तायै नमः ।
ॐ दुरासदायै नमः ।
ॐ दुर्जयायै नमः ।
ॐ दुःखशमन्यै नमः । ५६०
ॐ दुर्गदात्र्यै नमः ।
ॐ दुरत्ययायै नमः ।
ॐ दासीकृतामरायै नमः ।
ॐ देवमात्रे नमः ।
ॐ दाक्षिण्यशालिन्यै नमः ।
ॐ दौर्भाग्यहारिण्यै नमः ।
ॐ देव्यै नमः ।
ॐ दक्षयज्ञविनाशिन्यै नमः ।
ॐ दयाकर्यै नमः ।
ॐ दीर्घबाहवे नमः । ५७०
ॐ दूतहन्त्र्यै नमः ।
ॐ दिविस्थितायै नमः ।
ॐ दयारूपायै नमः ।
ॐ देवराजसंस्तुतायै नमः ।
ॐ दग्धमन्मथायै नमः ।
ॐ दिनकृत्कोटिसङ्काशायै नमः ।
ॐ दिविषदे नमः ।
ॐ दिव्यविग्रहायै नमः ।
ॐ दीनचिन्तामण्यै नमः ।
ॐ दिव्यस्वरूपायै नमः । ५८०
ॐ दीक्षितायिन्यै नमः ।
ॐ दीधितये नमः ।
ॐ दीपमालाढ्यायै नमः ।
ॐ दिक्पतये नमः ।
ॐ दिव्यलोचनायै नमः ।
ॐ दुर्गायै नमः ।
ॐ दुःखौघशमन्यै नमः ।
ॐ दुरितघ्न्यै नमः ।
ॐ दुरासदायै नमः ।
ॐ दुर्ज्ञेयायै नमः । ५९०
ॐ दुष्टशमन्यै नमः ।
ॐ दुर्गामूर्तये नमः ।
ॐ दिगीश्वर्यै नमः ।
ॐ दुरन्ताख्यायै नमः ।
ॐ दुष्टदाह्यायै नमः ।
ॐ दुर्धर्षायै नमः ।
ॐ दुन्दुभिस्वनायै नमः ।
ॐ दुष्प्रधर्षायै नमः ।
ॐ दुराराध्यायै नमः ।
ॐ दुर्नीतिजननिग्रहायै नमः । ६००
ॐ दूर्वादलश्यामलाङ्ग्यै नमः ।
ॐ द्रुतदृषे नमः ।
ॐ धूषणोज्झितायै नमः ।
ॐ देवतायै नमः ।
ॐ देवदेवेश्यै नमः ।
ॐ देव्यै नमः ।
ॐ देशिकवल्लभायै नमः ।
ॐ देविकायै नमः ।
ॐ देवसर्वस्वायै नमः ।
ॐ देशप्रायै नमः । ६१०
ॐ देशकारिण्यै नमः ।
ॐ दोषापहायै नमः ।
ॐ दोषदूरायै नमः ।
ॐ दोषाकरसमाननायै नमः ।
ॐ दोग्ध्र्यै नमः ।
ॐ दौर्जन्यशमन्यै नमः ।
ॐ दौहित्रप्रतिपादिन्यै नमः ।
ॐ दूत्यादिक्रीडनपरायै नमः ।
ॐ द्युमणये नमः ।
ॐ द्यूतशालिन्यै नमः । ६२०
ॐ द्योतिताशायै नमः ।
ॐ द्यूतपरायै (द्यूतवरायै) नमः ।
ॐ द्यावाभूमिविहारिण्यै नमः ।
ॐ दन्तिन्यै नमः ।
ॐ दण्डिन्यै नमः ।
ॐ दंष्ट्र्यै नमः ।
ॐ दन्तशूकविषापहायै नमः ।
ॐ दम्भदूरायै नमः ।
ॐ दन्तिसुतायै नमः ।
ॐ दण्डमात्रजयप्रदायै नमः । ६३०
ॐ दर्वीकरायै नमः ।
ॐ दशग्रीवायै नमः ।
ॐ दहनार्चिषे नमः ।
ॐ दधिप्रियायै नमः ।
ॐ दधीचिवरदायै नमः ।
ॐ दक्षायै नमः ।
ॐ दक्षिणामूर्तिरूपिण्यै नमः ।
ॐ दानशीलायै नमः ।
ॐ दीर्घधर्मवर्ष्मणे (दीर्घवृष्ठायै) नमः ।
ॐ दक्षिणार्धेश्वरायै नमः । ६४०
ॐ दृतायै नमः ।
ॐ दाडिमीकुसुमप्रीतायै नमः ।
ॐ दुर्गदुष्कृतहारिण्यै नमः ।
ॐ जयन्तये नमः ।
ॐ जनन्यै नमः ।
ॐ ज्योत्स्नायै नमः ।
ॐ जलजाक्ष्यै नमः ।
ॐ जयप्रदायै नमः ।
ॐ जरायै नमः ।
ॐ जरायुजप्रीतायै नमः । ६५०
ॐ जरामरणवर्जितायै नमः ।
ॐ जीवनायै नमः ।
ॐ जीवनकर्यै नमः ।
ॐ जिवेश्वरविराजितायै नमः ।
ॐ जगद्योनये नमः ।
ॐ जनिहरायै नमः ।
ॐ जातवेदसे नमः ।
ॐ जलाश्रयायै नमः ।
ॐ जिताम्बरायै नमः ।
ॐ जिताहारायै नमः । ६६०
ॐ जिताकारायै नमः ।
ॐ जगत्प्रियायै नमः ।
ॐ ज्ञानप्रियायै नमः ।
ॐ ज्ञानघनायै नमः ।
ॐ ज्ञानविज्ञानकारिण्यै नमः ।
ॐ ज्ञानेश्वर्यै नमः ।
ॐ ज्ञानगम्यायै नमः ।
ॐ ज्ञाताज्ञातौघनाशिन्यै नमः ।
ॐ जिज्ञासायै नमः ।
ॐ जीर्णरहितायै नमः । ६७०
ॐ ज्ञानिन्यै नमः ।
ॐ ज्ञानगोचरायै नमः ।
ॐ अज्ञानध्वंसिन्यै नमः ।
ॐ ज्ञानरूपिण्यै नमः ।
ॐ ज्ञानकारिण्यै नमः ।
ॐ जातार्तिशमन्यै नमः ।
ॐ जन्महारिण्यै नमः ।
ॐ ज्ञानपञ्जरायै नमः ।
ॐ जातिहीनायै नमः ।
ॐ जगन्मात्रे नमः । ६८०
ॐ जाबालमुनिवन्दितायै नमः ।
ॐ जागरूकायै नमः ।
ॐ जगत्पात्र्यै नमः ।
ॐ जगद्वन्द्यायै नमः ।
ॐ जगद्गुरवे नमः ।
ॐ जलजाक्षसतये नमः ।
ॐ जेत्र्यै नमः ।
ॐ जगत्संहारकारिण्यै नमः ।
ॐ जितक्रोधायै नमः ।
ॐ जितरतायै नमः । ६९०
ॐ जितचन्द्रमुखाम्बुजायै नमः ।
ॐ यज्ञेश्वर्यै नमः ।
ॐ यज्ञफलायै नमः ।
ॐ यजनायै नमः ।
ॐ यमपूजितायै नमः ।
ॐ यतये नमः ।
ॐ योनये नमः ।
ॐ यवनिकायै नमः ।
ॐ यायजूकायै नमः ।
ॐ युगात्मिकायै नमः । ७००
ॐ युगाकृतये नमः ।
ॐ योगदात्र्यै नमः ।
ॐ यज्ञायै नमः ।
ॐ युद्धविशारदायै नमः ।
ॐ युग्मप्रियायै नमः ।
ॐ युक्तचित्तायै नमः ।
ॐ यत्नसाध्यायै नमः ।
ॐ यशस्कर्यै नमः ।
ॐ यामिन्यै नमः ।
ॐ यातनहरायै नमः । ७१०
ॐ योगनिद्रायै नमः ।
ॐ यतिप्रियायै नमः ।
ॐ यातहृतकमलायै नमः ।
ॐ यज्यायै नमः ।
ॐ यजमानस्वरूपिण्यै नमः ।
ॐ यक्षेश्यै नमः ।
ॐ यक्षहरणायै नमः ।
ॐ यक्षिण्यै नमः ।
ॐ यक्षसेवितायै नमः ।
ॐ यादवस्त्र्यै नमः । ७२०
ॐ यदुपतये नमः ।
ॐ यमलार्जुनभञ्जनायै नमः ।
ॐ व्यालालङ्कारिण्यै नमः ।
ॐ व्याधिहारिण्यै नमः ।
ॐ व्ययनाशिन्यै नमः ।
ॐ तिरस्कृतमहाविद्यायै नमः ।
ॐ तिर्यक्पृष्ठायै नमः ।
ॐ तिरोहितायै नमः ।
ॐ तिलपुष्पसमाकारनासिकायै नमः ।
ॐ तीर्थरूपिण्यै नमः । ७३०
ॐ तिर्यग्रूपायै नमः ।
ॐ तीर्थपादायै नमः ।
ॐ त्रिवर्गायै नमः ।
ॐ त्रिपुरेश्वर्यै नमः ।
ॐ त्रिसन्ध्यायै नमः ।
ॐ त्रिगुणाध्यक्षायै नमः ।
ॐ त्रिमूर्तये नमः ।
ॐ त्रिपुरान्तक्यै नमः ।
ॐ त्रिनेत्रवल्लभायै नमः ।
ॐ त्र्यक्षायै नमः । ७४०
ॐ त्रय्यै नमः ।
ॐ त्राणपरायणायै नमः ।
ॐ तारणायै नमः ।
ॐ तारिण्यै नमः ।
ॐ तारायै नमः ।
ॐ तारापरिकलावृतायै नमः ।
ॐ तारात्मिकायै नमः ।
ॐ तारजपायै नमः ।
ॐ तुरिताढ्यायै नमः ।
ॐ तरूत्तमायै नमः । ७५०
ॐ तूर्णप्रसादायै नमः ।
ॐ तूणीरधारिण्यै नमः ।
ॐ तूर्णसंस्कृतायै नमः ।
ॐ तोषिण्यै नमः ।
ॐ तूर्णगमनायै नमः ।
ॐ तुलाहीनायै नमः ।
ॐ अतुलप्रभायै नमः ।
ॐ तरङ्गिण्यै नमः ।
ॐ तरङ्गाढ्यायै नमः ।
ॐ तुलायै नमः । ७६०
ॐ तुन्दिलपुत्रिण्यै नमः ।
ॐ तनूनपदे नमः ।
ॐ तन्तुरूपायै नमः ।
ॐ ताराङ्ग्यै नमः ।
ॐ तन्त्ररूपिण्यै नमः ।
ॐ तारकारये नमः ।
ॐ तुङ्गकुचायै नमः ।
ॐ तिलकालये नमः ।
ॐ तिलार्चितायै नमः ।
ॐ तमोपहायै नमः । ७७०
ॐ तार्क्ष्यगतये नमः ।
ॐ तामस्यै नमः ।
ॐ त्रिदिवेश्वर्यै नमः ।
ॐ तपस्विन्यै नमः ।
ॐ तपोरूपायै नमः ।
ॐ तापसेड्यायै नमः ।
ॐ त्रयीतनवे नमः ।
ॐ तपःफलायै नमः ।
ॐ तपस्साध्यायै नमः ।
ॐ तलातलनिवासिन्यै नमः । ७८०
ॐ ताण्डवेश्वरसम्प्रीतायै नमः ।
ॐ तटिदीक्षणसम्भ्रमायै नमः ।
ॐ तनुमध्यायै नमः ।
ॐ तनूरूपायै नमः ।
ॐ तळिभानवे नमः ।
ॐ तटित्प्रभायै नमः ।
ॐ सदस्यायै नमः ।
ॐ सदयायै नमः ।
ॐ सर्ववन्दितायै नमः ।
ॐ सदसत्परायै नमः । ७९०
ॐ सद्यःप्रसादिन्यै नमः ।
ॐ साधये नमः ।
ॐ सच्चिदानन्दरूपिण्यै नमः ।
ॐ सरिद्वेगायै नमः ।
ॐ सदाकारायै नमः ।
ॐ सरित्पतिवसुन्धरायै नमः ।
ॐ सरीसृपाङ्गाभरणायै नमः ।
ॐ सर्वसौभाग्यदायिन्यै नमः ।
ॐ सामसाध्यायै नमः ।
ॐ सामगीतायै नमः । ८००
ॐ सोमशेखरवल्लभायै नमः ।
ॐ सोमवक्त्रायै नमः ।
ॐ सौम्यरूपायै नमः ।
ॐ सोमयागफलप्रदायै नमः ।
ॐ सगुणायै नमः ।
ॐ सत्क्रियायै नमः ।
ॐ सत्यायै नमः ।
ॐ साधकाभीष्टदायिन्यै नमः ।
ॐ सुधावेण्यै (सुधावाण्यै) नमः ।
ॐ सौधवासायै नमः । ८१०
ॐ सुज्ञायै नमः ।
ॐ सुश्रियै नमः ।
ॐ सुरेश्वर्यै नमः ।
ॐ केतकीकुसुमप्रख्यायै नमः ।
ॐ कचनिर्जितनीरदायै नमः ।
ॐ कुन्तलायितभृङ्गालये नमः ।
ॐ कुण्डलीकृतकैशिक्यै नमः ।
ॐ सिन्दूराङ्कितकेशान्तायै नमः ।
ॐ कञ्जाक्ष्यै नमः ।
ॐ सुकपोलिकायै नमः । ८२०
ॐ कनत्कनकताटङ्कायै नमः ।
ॐ चम्पकाकृतिनासिकायै नमः ।
ॐ नासालङ्कृतसन्मुक्तायै नमः ।
ॐ बिम्बोष्ठ्यै नमः ।
ॐ बालचन्द्रधृते नमः ।
ॐ कुन्ददन्तायै नमः ।
ॐ त्रिनयनायै नमः ।
ॐ पुण्यश्रवणकीर्तनायै नमः ।
ॐ कालवेण्यै नमः ।
ॐ कुचजितचकोरायै नमः । ८३०
ॐ हाररञ्जितायै नमः ।
ॐ करस्थाङ्गुलिकायै नमः ।
ॐ रत्नकाञ्चीदामविराजितायै नमः ।
ॐ रत्नकिङ्किणिकायै नमः ।
ॐ रम्यनीविकायै नमः ।
ॐ रत्नकञ्चुकायै नमः ।
ॐ हरिमध्यायै नमः ।
ॐ अगाधपृष्ठायै नमः ।
ॐ करभोरवे नमः ।
ॐ नितम्बिन्यै नमः । ८४०
ॐ पदनिर्जितपद्माभायै नमः ।
ॐ ऊर्मिकारञ्जिताङ्गुलये नमः ।
ॐ गाङ्गेयकिङ्किणीयुक्तायै नमः ।
ॐ रमणीयाङ्गुलीयुतायै नमः ।
ॐ माणिक्यरत्नाभरणायै नमः ।
ॐ मधुपानविशारदायै नमः ।
ॐ मधुमध्यायै नमः ।
ॐ मन्दगतये नमः ।
ॐ मत्तेभस्थायै नमः ।
ॐ अमरार्चितायै नमः । ८५०
ॐ मयूरकेतुजनन्यै नमः ।
ॐ मलयाचलपुत्रिकायै नमः ।
ॐ परार्धभागायै नमः ।
ॐ हर्यक्षवाहनायै नमः ।
ॐ हरिसोदर्यै नमः ।
ॐ हाटकाभायै नमः ।
ॐ हरिनुतायै नमः ।
ॐ हंसगायै नमः ।
ॐ हंसरूपिण्यै नमः ।
ॐ हर्षरूपायै नमः । ८६०
ॐ हरिपतये नमः ।
ॐ हयारूढायै नमः ।
ॐ हरित्पतये नमः ।
ॐ सर्वगायै नमः ।
ॐ सर्वदेवेश्यै नमः ।
ॐ सामगानप्रियायै नमः ।
ॐ सत्यै नमः ।
ॐ सर्वोपद्रवसंहर्त्र्यै नमः ।
ॐ सर्वमङ्गलदायिन्यै नमः ।
ॐ साधुप्रियायै नमः । ८७०
ॐ सागरजायै नमः ।
ॐ सर्वकर्त्र्यै नमः ।
ॐ सनातन्यै नमः ।
ॐ सर्वोपनिषदुद्गीतायै नमः ।
ॐ सर्वशत्रिनिबर्हिण्यै नमः ।
ॐ सनकादिमुनिस्तुत्यायै नमः ।
ॐ सदाशिवमनोहरायै नमः ।
ॐ सर्वज्ञायै नमः ।
ॐ सर्वजनन्यै नमः ।
ॐ सर्वाधारायै नमः । ८८०
ॐ सदागतये नमः ।
ॐ सर्वभूतहितायै नमः ।
ॐ साध्यायै नमः ।
ॐ सर्वशक्तिस्वरूपिण्यै नमः ।
ॐ सर्वगायै नमः ।
ॐ सर्वसुखदायै नमः ।
ॐ सर्वेश्यै नमः ।
ॐ सर्वरञ्जिन्यै नमः ।
ॐ शिवेश्वर्यै (सर्वेश्वर्यै) नमः ।
ॐ शिवाराध्यायै नमः । ८९०
ॐ शिवानन्दायै नमः ।
ॐ शिवात्मिकायै नमः ।
ॐ सूर्यमण्डलमध्यस्थायै नमः ।
ॐ शिवायै नमः ।
ॐ शङ्करवल्लभायै नमः ।
ॐ सुधाप्लवायै नमः ।
ॐ सुधाधारायै नमः ।
ॐ सुखसंवित्स्वरूपिण्यै नमः ।
ॐ शिवङ्कर्यै नमः ।
ॐ सर्वमुखायै नमः । ९००
ॐ सूक्ष्मज्ञानस्वरूपिण्यै नमः ।
ॐ अद्वयानन्दसंशोभायै नमः ।
ॐ भोगस्वर्गापवर्गदायै नमः ।
ॐ विष्णुस्वसायै नमः ।
ॐ वैष्णवाप्तायै नमः ।
ॐ विविदार्थविनोदिन्यै नमः ।
ॐ गिरिजायै नमः ।
ॐ गिरीशप्रीतायै नमः ।
ॐ शर्वाण्यै नमः ।
ॐ शमदायिन्यै नमः । ९१०
ॐ हृत्पद्ममध्यनिलयायै नमः ।
ॐ सर्वोज्ञप्तये नमः ।
ॐ स्वरात्मिकायै नमः ।
ॐ तरुण्यै नमः ।
ॐ तरुणार्काभायै नमः ।
ॐ चिन्त्याचिन्त्यस्वरूपिण्यै नमः ।
ॐ श्रुतये नमः ।
ॐ स्मृतिमय्यै नमः ।
ॐ स्तुत्यायै नमः ।
ॐ स्तुतिरूपायै नमः । ९२०
ॐ स्तुतिप्रियायै नमः ।
ॐ ॐकारगर्भायै नमः ।
ॐ ओऽङ्कार्यै नमः ।
ॐ कङ्काल्यै नमः ।
ॐ कालरूपिण्यै नमः ।
ॐ विश्वम्भर्यै नमः ।
ॐ विनीतस्थायै नमः ।
ॐ विधात्र्यै नमः ।
ॐ विविधप्रभायै नमः ।
ॐ श्रीकर्यै नमः । ९३०
ॐ श्रीमत्यै नमः ।
ॐ श्रेयसे नमः ।
ॐ श्रीदायै नमः ।
ॐ श्रीचक्रमध्यगायै नमः ।
ॐ द्वादशान्तसरोजस्थायै नमः ।
ॐ निर्वाणसुखदायिन्यै नमः ।
ॐ साध्व्यै नमः ।
ॐ सर्वोद्भवायै नमः ।
ॐ सत्त्वायै नमः ।
ॐ श्रीकण्ठस्वान्तमोहिन्यै नमः । ९४०
ॐ विद्यातनवे नमः ।
ॐ मन्त्रतनवे नमः ।
ॐ मदनोद्यानवासिन्यै नमः ।
ॐ योगलक्ष्म्यै नमः ।
ॐ राज्यलक्ष्म्यै नमः ।
ॐ महालक्ष्म्यै नमः ।
ॐ सरस्वत्यै नमः ।
ॐ सदानन्दैकरसिकायै नमः ।
ॐ ब्रह्मविष्ण्वादिवन्दितायै (ब्रह्मविष्ण्वोंशवन्दितायै) नमः ।
ॐ कुमार्यै नमः । ९५०
ॐ कपिलायै नमः ।
ॐ काल्यै नमः ।
ॐ पिङ्गाक्ष्यै नमः ।
ॐ कृष्णपिङ्गलायै नमः ।
ॐ चण्डघण्टायै नमः ।
ॐ महासिद्धये नमः ।
ॐ वाराह्यै नमः ।
ॐ वरवर्णिन्यै नमः ।
ॐ कात्यायन्यै नमः ।
ॐ वायुवेगायै नमः । ९६०
ॐ कामाक्ष्यै नमः ।
ॐ कर्मसाक्षिण्यै नमः ।
ॐ दुर्गादेव्यै नमः ।
ॐ महादेव्यै नमः ।
ॐ आदिदेव्यै नमः ।
ॐ महासनायै नमः ।
ॐ महाविद्यायै नमः ।
ॐ महामायायै नमः ।
ॐ विद्यालोलायै नमः ।
ॐ तमोमय्यै नमः । ९७०
ॐ शङ्खचक्रगदाहस्तायै नमः ।
ॐ महामहिषमर्दिन्यै नमः ।
ॐ खड्गिन्यै नमः ।
ॐ शूलिन्यै नमः ।
ॐ बुद्धिरूपिण्यै नमः ।
ॐ भूतिदायिन्यै नमः ।
ॐ वारुण्यै नमः ।
ॐ जटिन्यै नमः ।
ॐ त्रस्तदैत्यसङ्घायै नमः ।
ॐ शिखण्डिन्यै नमः । ९८०
ॐ सुरेश्वर्यै नमः ।
ॐ शस्त्रपूज्यायै नमः ।
ॐ महाकाल्यै नमः ।
ॐ द्विजार्चितायै नमः ।
ॐ इच्छायै नमः ।
ॐ ज्ञानायै नमः ।
ॐ क्रियायै नमः ।
ॐ सर्वदेवतानन्दरूपिण्यै नमः ।
ॐ मत्तशुम्भनिशुम्भघ्न्यै नमः ।
ॐ चण्डमुण्डविघातिन्यै नमः । ९९०
ॐ वह्निरूपायै नमः ।
ॐ महाकान्त्यै नमः ।
ॐ हरायै नमः ।
ॐ ज्योत्स्नावत्यै नमः ।
ॐ स्मरायै नमः ।
ॐ वागीश्वर्यै नमः ।
ॐ व्योमकेश्यै नमः ।
ॐ मूकहन्त्र्यै नमः ।
ॐ वरप्रदायै नमः ।
ॐ स्वाहायै नमः । १०००
ॐ स्वधायै नमः ।
ॐ सुधायै नमः ।
ॐ अश्वमेधायै नमः ।
ॐ श्रियै नमः ।
ॐ ह्रीयै नमः ।
ॐ गौर्यै नमः ।
ॐ परमेश्वर्यै नमः ।
ॐ महाकाल्यै महालक्ष्म्यै महासरस्वत्यै
च स्वरूपिण्यै नमः । १००८
॥ इति श्री स्कान्दमहापुराणे कोलापुरमूकाम्बिकामाहात्म्याख्ये
उपाख्याने श्री देव्याः दिव्यवरसाहास्रनामस्तोत्रमुद्धृता
श्रीमूकाम्बिका दिव्यसहस्रनामावलिः समाप्ता ।
शिवमस्तु ॥
N/A
References : N/A
Last Updated : January 18, 2026

TOP